________________
८४
कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यगुम्फितं
(अष्टमं पर्व
प्रदत्तामुग्रसेनेन सत्यभामां जनार्दनः । दिने क्रोष्टकिनाऽऽख्याते पर्यणैषीद् यथाविधि ।।३३४॥ पाइतश्च सा जीवयशा रुदती मुक्तकुन्तला । प्रविवेश जरासन्धास्थान्यामश्रीरिवाऽङ्गिनी ॥३३५।। जरासन्धेन पृष्टाऽथ कथञ्चिदपि साऽवदत् । अतिमुक्तकवृत्तान्तं कंसघातकथां च ताम् ॥३३६॥ प्रत्युवाच जरासन्धः साधु कंसेन नो कृतम् । यन्नाऽहन् देवकीमेव क्षेत्राभावे कुतः कृषिः ? ।।३३७।।
मा रोदीरधना वत्से ! रोदयिष्यामि तस्त्रियः । समूलघातं तान् हत्वा परितः कंसघातकान् ॥३३८।। पातामित्युक्त्वा जरासन्धः सोमकं नाम पार्थिवम् । अनुशिष्य प्रजिघाय समुद्रविजयान्तिके ॥३३९।। स एत्य मथुरापुर्यां समुद्रविजयं नृपम् । इत्युवाच जरासन्धः समादिशति वः प्रभुः ॥३४०।। पुत्र्यस्माकं जीवयशा जीवितादपि वल्लभा । तत्स्नेहात् तत्पतिः कंस: कस्यैतत् विदितं न हि ? ॥३४१|| भवन्तोऽपि हि भृत्या नः सुखं तिष्ठन्तु किं पुनः । अर्पणीयौ राम-कृष्णौ क्षुद्रौ कंसद्रुहाविमौ ॥३४२॥ किं चाऽयं सप्तमो गर्भः पुराऽप्यर्पित एव हि । सोऽद्याऽर्प्यतामसौ रामः पुनस्तद्गोपनौगसि ॥३४३॥ ऊचे समद्रविजयो मत्परोक्षेऽपिता यदि । ऋजना वसदेवेन षड गर्भास्तद्धि नोचितम ॥३४५|| वत्साभ्यां राम-कृष्णाभ्यां स्वभ्रातृवधवैरतः । कंसो हतश्चेत् तदिह किमेतावपराध्यतः ? ॥३४५।। एको दोषोऽयमस्माकं यत् स्वैरी बाल्यतोऽपि हि । वसुदेवस्तस्य बुद्ध्या हताः षट् सूनवो मम ॥३४६।। प्राणभूतौ मम सुतौ राम-कृष्णौ वधेच्छया । त्वद्भर्तुर्याचमानस्य नविमृश्यविधायिता ॥३४७॥ सकोपं सोमकोऽप्यूचे न खलु स्वामिशासने । युक्तायुक्तविचारोऽर्हः सेवकानां कदाचन ॥३४८।। षड् गर्भा यत्र ते राजंस्तत्रैतावपि दुर्मती । गच्छतां मा स्म कण्डूयस्तुण्डं तक्षकभोगिनः ॥३४९।। विरोधो बलिना सार्धं न हि क्षेमाय जायते । कस्त्वं मेष इवेभस्य पुरतो मगधेशितुः ?॥३५०॥ क्रुद्धोऽभ्यधाच्च गोविन्दस्तातेन चिरमार्जवात् । पालिते स्नेहसम्बन्धे त्वत्स्वामी कि प्रभूयते ? ॥३५१।। न न: प्रभुर्जरासन्धः प्रत्युतैवं स विब्रुवन् । कंसो द्वितीयस्तद्गच्छ यथेच्छं शंस तस्य भोः ! ॥३५२।। इत्युक्तः सोमकोऽवोचत् समुद्रविजयं प्रति । कुलाङ्गारः सुतस्तेऽसौ दशार्ह ! किमुपेक्षसे ? ॥३५३।। तद्गिरा प्रज्वलन् कोपादनाधृष्टिरदोऽवदत् । भूयो भूयो याचमानः पुत्रौ तातान्न लज्जसे ? ॥३५४।। स जामातृवधेनाऽपि दूनो राजगृहेश्वरः । षड्भ्रातृनिधनेनाऽपि न दूनाः किं वयं ननु ? ॥३५५।। दोष्मान् रामश्च कृष्णश्चाऽन्येऽप्यक्रूरादयो वयम् । न सहिष्यामहे हन्त त्वामेवमभिभाषिणम् ।।३५६।। इत्यनाधृष्टिना रोषाद्धर्षितो रोषविह्वलः । उपेक्षितः समुद्रेण स्वस्थानं सोमको ययौ ॥३५७।। पाद्वितीयेऽह्नि दशार्हेशो मेलयित्वा स्वबान्धवान् । पप्रच्छ क्रोष्टुकिं नाम हितं नैमित्तिकोत्तमम् ॥३५८।। त्रिखण्डभरतेशेन जरासन्धेन विग्रहः । उपस्थितोऽयमस्माकं ब्रूहि यद्भाव्यतः परम् ।।३५९॥ सोऽप्युवाचाऽचिरादेतौ राम-कृष्णौ महाभुजौ । त्रिखण्डभरताधीशौ तं निहत्य भविष्यतः ॥३६०।। यात प्रतीच्यामधुना समुद्दिश्याऽम्बुधेस्तटम् । भावी शत्रुक्षयारम्भो गच्छतामपि तत्र वः ॥३६१।। सत्यभामा च यत्रैषा प्रसूते दारकद्वयम् । पुरीनिवेशं तत्रैव कृत्वा स्थेयमशङ्कितैः ॥३६२॥ ततो घोषणया राजा स्वां यात्रां 'स्वानजिज्ञपत् । एकादशकुलकोटीसंयुतो मथुरां जहौ ॥३६३।। गत्वा शौर्यपुरे सप्तकुलकोटीस्ततोऽपि हि । आदाय ज्ञातिसहितः समुद्रविजयोऽचलत् ॥३६४।।
उग्रसेननरेन्द्रोऽपि समुद्रनुपमन्वगात् । मध्यविन्ध्यं च सर्वेऽपि जग्मुः सुखसुखं पथि ॥३६५।। पातदा च सोमको राजा जरासन्धार्धचक्रिणे । गत्वा शशंस तत्सर्वं क्रोधवह्नीन्धनायितम् ॥३६६।। जरासन्धमथ क्रुद्धं कालः सम्प्रेक्ष्य तत्सुतः । उवाच भवतां के हि यदवोऽमी तपस्विनः ? ॥३६७।। तदादिश दिशामन्ताद् वढेरब्धेश्च मध्यतः । कृष्ट्वा यदून हनिष्यामि निवर्तिष्येऽन्यथा न हि ॥३६८॥ १. रुदन्ती मु० । २. कंसघातक-स्त्रियः । ३. गोपनादपि मु० । रक्षणापराधे । ४. स्वैरम् पु० । ५. प्रभुवदाचरति । ६. पुनः मु०। ७. दशार्हेण मु० । ८. पश्चिमदिशि । ९. स्वकीयान् । १०. मां समन्ताद् खं० २ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org