________________
पञ्चमः सर्गः)
श्रीत्रिषष्टिशलाकापुरुषचरितम् । कंसोऽथ भय-कोपाभ्यां वेपमानोऽब्रवीदिति । अरे ! गोपब्रुवावेतौ मार्यतामविलम्बितम् ॥३०१॥ येनैतौ पोषितौ सौ तं नन्दमपि रे ! हत । आदाय तस्य सर्वस्वमिहाऽऽनयत दुर्मतेः ॥३०२।। तद्गुह्योऽन्योऽपि यः कश्चित् तस्य त्राताऽन्तरे भवेत् । समानदोषः सोऽप्याशु निहन्तव्यो मदाज्ञया ॥३०३।। अथोचे पुण्डरीकाक्षोऽरुणाक्षः कोपसम्भ्रमात् । मृतंमन्योऽसि नाऽद्यापि त्वं चाणूरे हतेऽपि हि ? ॥३०४।। तावद् रक्ष त्वमात्मानं हन्यमानं मयाऽद्य रे ! । पश्चात् स्वामर्षसदृशं नन्दादिषु समादिशेः ॥३०५॥ इत्युक्त्वोत्पत्य गोविन्दो मञ्चमारुह्य तत्क्षणात् । संगृह्य कंसं केशेषु पृथिव्यां पर्यपातयत् ॥३०६।। विशीर्णमुकुट स्रस्तान्तरीयं तरलेक्षणम् । सूनाबद्धं पशुमिव तमुवाच जनार्दनः ॥३०७॥ त्वया कृता भ्रूणहत्या स्वरक्षार्थं वृथैव रे? । इदानीं न भवस्येष स्वकर्मफलभाग्भव ॥३०८।। *आत्तरूप इव 'व्याले धर्तकंसे हरौ तदा । विसिष्मिये च बिभयाञ्चकार च जनोऽखिलः ॥३०९॥ अथ यौक्त्रिकबन्धेनाऽनुच्छासीकृत्य मुष्टिकम् । यज्ञोपनीताजमिव वीरो नीलाम्बरोऽवधीत् ।।३१०॥ इतश्च कंसरक्षार्थं कंसगृह्या महाभटाः । कृष्णं हन्तुमधावन्त विविधायुधपाणयः ॥३११।। मञ्चस्तम्भमथोद्धृत्य रामस्तान् परिताडयन् । द्रुतं विद्रावयामास मधुस्था मक्षिका इव ॥३१२।। कृष्णोऽपि पादं शिरसि न्यस्य कंसं व्यपादयत् । कैशैः कृष्ट्वाऽक्षिपद् रङ्गाद् बहिस्तं दाविवाऽर्णवः ।।३१३।। पाकंसेन पूर्वमानीता जरासन्धस्य सैनिकाः । तदा संवर्मयामासू राम-कृष्णजिघांसया ॥३१४॥ तांश्च सन्नह्यतः प्रेक्ष्य समुद्रविजयो नृपः । सन्नह्याऽढौकयद् युद्धे तदर्थं हि तदागमः ॥३१५।। द्राक् समुद्र इवोद्वेले समुद्रविजये नृपे । दिशोदिशं ययुनँष्ट्वा जरासन्धस्य सैनिकाः ॥३१६।। राम-कृष्णावनाधृष्टिरारोप्य स्यन्दने निजे । समुद्रविजयादेशाद् वसुदेवगृहेऽनयत् ॥३१७॥ सर्वेऽपि यदैवस्तत्र समुद्रविजयादयः । वसुदेवगृहे गत्वा दैत्त्वाऽऽस्थानीमुपाविशन् ॥३१८|| अर्धासनासितबल: स्वाङ्कमारोप्य केशवम् । मुहश्चचुम्ब शिरसि वसुदेवोऽश्रलोचनः ।।३१९।। किमेतदिति सोदर्यैः पृष्ट आनकदुन्दुभिः । कृष्णवृत्तान्तमाचख्यावतिर्मुक्तेतिवृत्तत: ॥३२०॥ ततः समुद्रविजयः स्वोत्सङ्गे कृष्णमादधे । रामं तत्पालनप्रीतः प्राशंसच्च मुहुर्मुहुः ॥३२१।। तयैकनासया पुत्र्या सहाऽऽगत्य च देवकी । अङ्कादकं सञ्चरन्तं कृष्णमादाय सस्वजे ॥३२२।। ऊचुश्च यदवो वीरा वसुदेवमुदश्रवः । एकीक्यपि जगज्जेतुं त्वं क्षमोऽसि महाभुज ! ॥३२३।। कंसेनाऽतिनृशंसेन जातजातांस्त्वमात्मनः । हन्यमानान् सुतान् वीर ! कथं नामाऽसि सोढवान् ? ||३२४।। वसुदेवोऽप्युवाचैवमाजन्म परिपालितम् । सत्यव्रतं त्रातुमहं दुष्कर्मेदं विसोढवान् ॥३२५।। देवक्याश्चाऽऽग्रहेणाऽयं कष्णः प्रक्षिप्य गोकुले । मयोऽरक्षि नन्दसतां सञ्चार्येमां वराकिकाम् ॥३२६।। स्त्रीमात्रं सप्तमो गर्भो देवक्या इत्यवज्ञया । एकं नासापुटं छित्त्वा मुमोचेमां स पापधीः ॥३२७॥ पाभ्रातृ-भ्रातृव्यसम्मत्या समुद्रविजयस्ततः । कारागारादुग्रसेनं कर्षयामास पार्थिवम् ॥३२८।। राज्ञा सहोग्रसेनेन समुद्रविजयादयः । कंसस्य प्रेतकार्याणि कालिन्दीपुलिने व्यधुः ॥३२९।। कंसस्य माता पत्न्यश्च देंदुर्नद्यां जलाञ्जलीन् । मानात्तु न ददौ जीवयशाः कोपावाच च ॥३३० गोपावेतौ राम-कृष्णौ दशााँश्च ससन्ततीन् । घातयित्वा प्रेतकार्यं करिष्ये स्वपतेरहम् ॥३३१॥ अन्यथाऽग्नौ प्रवेक्ष्यामि प्रति श्रुत्येति सोच्चकैः । निर्गत्याऽगाज्जरासन्धाश्रिते राजगृहे पुरे ॥३३२।। राम-कृष्णानुज्ञयाऽथ समुद्रविजयो नृपः । चकार मथुरापुर्यामुग्रसेनं नरेश्वरम् ।।३३३॥ १. गोपसुता० मु० । गोपाधमौ । २. तत्पक्षपाती । ३. कृष्णः । ४. नोऽद्यापि मु० । ५. स्वकीयकोधसदृशं कार्यम् । ६. स्रस्तोत्तरीयम् की०छा०ला०लार० आ० । ७. गर्भहत्या । ८. गजे । ९. धूतकंसे खं० १-२ । १०. यौत्रिक० मु० र० । ११. बलदेवः । १२. काष्ठमिव । १३. युधे मु० विना । १४. नष्ट्वा खं० २ । १५. यादवा० खं० १-२, ला० । १६. स्वस्थानीयमुपाविशत् को० । १७. ० मुक्तकवृत्ततः मु० । १८. यादवाः आ० मु० । १९. एककोऽपि ता०सं० । २०. जाताज्जातांस्त्व० ता०सं०आ० । २१. अरक्षि नन्दतनयाम् पु० । २२. कंसस्य उत्तरक्रियां चक्रुरित्यर्थः । २३. ०सन्धश्रिते मु० । *'रूप'पदं पशुवाचकं, आत्तरूपे-आत्तपशौ इत्यर्थः सम्भवति ।
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org