________________
कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यगुम्फितं
(अष्टमं पर्व
तौ नन्दनन्दनावेतावरिष्टादिनिघातिनौ । इत्यन्योऽन्यं दर्श्यमानौ नागरैर्गुरुविस्मयैः ।।२६९॥ नील-पीताम्बरधरौ वनमालाधरावुभौ । गोपावृतौ राम-कृष्णावंक्षवाटमुपेयतुः ॥२७०।। युग्मम् ॥ तत्रैकस्मिन् महामञ्चे जनमुत्सार्य तत्स्थितम् । निःशङ्कौ सपरीवारौ भ्रातरौ तौ निषेदतुः ॥२७१।। तं शत्रु दर्शयामास कंसं कृष्णाय सात्वतः । अनुज्येष्ठं पितुंस्तांश्च समुद्रविजयादिकान् ।।२७२।।
को न देवोपमावेतावित्यन्योऽन्यविमशिनः । तौ प्रेक्षाञ्चक्रिरे भूपा मञ्चस्था नागराश्च ते ॥२७३।। पाकंसाज्ञया युयुधिरे तत्र मल्ला अनेकशः । तत्प्रेरितश्च चाणूर उदस्थात् पर्वताकृतिः ॥२७४।।। सोर्ज पर्जन्यवद् गर्जन् करास्फोटं विधाय च । आक्षिपन् क्ष्माभुजः सर्वांश्चाणूरोऽवोचदुच्चकैः ॥२७५।। यः कोऽपि जातो वीरेण वीरमानी च कोऽपि यः । नियुद्धयुद्धश्रद्धां मे स पूरयतु दुर्धरः ॥२७६।। कृष्णोऽसहिष्णुस्तं दर्पं चाणूरस्याऽतिगर्जतः । मञ्चादुत्तीर्य विदधे भुजास्फोटं महाभुजः ॥२७७।। गोविन्दस्य करास्फोटः पुच्छाच्छोटो हरेरिव । "आस्फोटयदिव द्यावा-पृथिव्यावुद्भटध्वनिः ॥२७८।। वयसा वपुषा चैर्ष गरिष्ठः श्रमकर्कशः । नियुद्धजीवी चाणूरः सदा करश्चम॒रुवत् ॥२७९॥ अयं दुग्धमुखो मुग्धो मृदुः पद्मोदरादपि । वनवासादनभ्यासो न युद्धं युज्यतेऽनयोः ॥२८०॥ असमञ्जसमेतद्धि धिगहो ! विश्वगर्हितम् । इत्युच्चैर्भाषमाणानां लोकानां तुमुलोऽभवत् ।।२८१॥ त्रिभिर्विशेषकम् ॥ पाअथ क्रुद्धोऽवदत् कंस: केनेहाऽऽकारिताविमौ । गोपालौ गोपयःपानमत्तौ ? किन्त्वागतौ स्वयम् ॥२८२॥
युध्यमानौ स्वयं चैतौ को नामेह निषेधति ? । यस्य पीडाऽनयोश्चाऽस्ति पृथग्भूत्वा स जल्पतु ॥२८३।। युग्मम् ।। इति कंसवचः श्रुत्वा तूष्णीकोऽभूज्जनोऽखिलः । स्मेरनेत्रारविन्दश्च गोविन्द इदमभ्यधात् ॥२८४।। राजपिण्डेन पुष्टोऽयं कृताभ्यासश्च सर्वदा । समर्थश्च शरीरेण चाणूरो मल्लकुञ्जरः ॥२८५।। मया गोपालबालेन गोपयःपानजीविना । हरिपोतेन हस्तीव हन्यमानोऽद्य दृश्यताम् ॥२८६।। युग्मम् ।। कंसस्तत्सौष्ठवाद भीतो यगपद्यद्धहेतवे । द्वितीयं मुष्टिकं नाम महामल्लं समादिशत् ॥२८७।।
उत्थितं मुष्टिकं दृष्ट्वा मञ्चादुत्तीर्य सात्वतः । नियुद्धाय तमाह्वास्ताऽविंहस्तो रणकर्मणि ॥२८८।। पाततश्च कृष्ण-चाणूरौ तौ चोभौ राम-मुष्टिको । नियों द्धं प्रववृताते नागपाशोपमैर्भुजैः ॥२८९।। तेषां दृढपदन्यासैरङ्कम्पिष्टेव मेदिनी । पुस्फोटेव करास्फोर्टरवैर्ब्रह्माण्डमण्डपः ॥२९०॥ तौ च मुष्टिक-चाणूरावुत्क्षिप्य तृणपूलवत् । क्षिप्तौ खे राम-कृष्णाभ्यां पश्यन्तो जहषुर्जनाः ।।२९१।। चाणूर-मुष्टिकाभ्यां च मनागपि हि तौ भटौ । उत्क्षिप्यमाणौ सम्प्रेक्ष्य लोको म्लीयन्मुखोऽभवत् ॥२९२।। दृढमुष्ट्या च चाणूरं ताडयामास केशवः । दन्तीव तरसी दन्तमुशैलेन शिलोच्चयम् ॥२९३॥ मानदो जयमांनोऽथ चाणूरोऽरिष्टसूदनम् । जघानोरःस्थले मुष्ट्या वज्रगोलसमौजसा ॥२९४।। मदेनेव लुलदृष्टिस्तेन घातेन पीडितः । अधोक्षजो मीलिताक्ष: पपात पृथिवीतले ॥२९५।। कंसेन प्रेरितो दृष्ट्या चाणूरश्छलवेदिना । हन्तुं विसंज्ञं गोविन्दं पाप: पुनरधावत ।।२९६।। जिघांसुं तं बलो ज्ञात्वा सद्योऽभ्युत्सृष्टमुष्टिकः । अताडयत् प्रकोष्ठेने पतद्वज्रानुहारिणा ॥२९७।। चाणूरस्तेन घातेन सप्त चापानपासरत् । कृष्णोऽपि हि समाश्वस्य पुनराह्नते' तं युधे२ ॥२९८।। मध्येमाक्रम्य जानुभ्यां शीर्ष दोष्णाऽऽनमय्य च । जघान मुष्ट्या गोविन्दश्चाणूरं गुरुविक्रमः ॥२९९।।
चाणरो वान्तरुधिरधारो विधुरलोचनः । कृष्णेन मुमुचे भीतैरिव प्राणैरपि क्षणात् ।।३००।। १. मल्लयुद्धस्थानं 'अखाडो' इति भाषायाम् । २. कौ तु खं० १, ला०म० र. । ३. सोगं मु० । ४. सिंहस्येव । ५. अस्फोट० मु० र० । ६. चैव खं० २ । ७. मृगविशेषः । ८. ०मेतद् धिग् मु० २० । ९. ०माह्वास्त वि० मु० र० । अविहस्त:-अव्याकुलः, सज्जः । १०. नियुद्धं ला०पु० आ० । ११. ०स्फोटरावै० ख० २ । १२. म्लानमुखो० मु० र० । १३. वेगेन । १४, ०मुसलेन खं० २, सू० । १५. ०मानी च मु० र० । जायमानोऽथ 'र०' स्वीकृतप्रतिषु । १६. कृष्णः । १७. च महीतले पु० । १८. जिघांसन्तं खं० १२, ला०सू० । १९. मुष्टिकमल्लं त्यक्त्वा । २०. 'पहोंचो' इति भाषायाम् । २१. पुनराह्वात मु० र० । २२. युधि मु० र० । २३. मध्यं कटिप्रदेशं जानुभ्यामाकम्य, बाहुना शीर्षमानमय्य ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org