________________
पञ्चमः सर्गः)
श्रीत्रिषष्टिशलाकापुरुषचरितम् । अनाधृष्टिरथोपेत्योद्धरन्नपि हि तद्धनुः । पपात पिच्छिलभ्रश्यत्पाद उष्ट्र इवाऽवनौ ॥२३५॥ तं शीर्णहारं निष्पिष्टमुकुटं भ्रष्टकुण्डलम् । सत्यभामा ताल्यश्चाऽन्ये च स्मेरदृशोऽहसन् ।।२३६।। तत्प्रहासासहः सद्यस्तद्धनुः पुष्पदामवत् । दामोदर उपादत्ताऽधिज्यीचक्रे च हेलया ॥२३७|| तेन कुण्डलितेनाऽभाद् धनुषोद्दामतेजसा । औखण्डलधनुर्दण्डेनेव वार्षुकवारिदः ॥२३८।।
अनाधृष्टिः पितुर्वेश्म गत्वा तद् द्वारि केशवम् । मुक्त्वा रथस्थं मध्येऽगादिति पित्रे शशंस च ॥२३९।। पाशार्गं धन्व मया तातैकाकिनाऽप्यधिरोपितम् । यदन्यैः पार्थिवैः स्प्रंष्टमप्यशक्यत न क्वचित् ।।२४०।। साक्षेपो वसुदेवस्तमूचे याह्यविलम्बितम् । त्वां धन्वारोपिणं ज्ञात्वा कंसो व्यापादयिष्यति ॥२४१॥ आकर्ण्य तदनाधृष्टिीतो निर्गत्य वेश्मतः । जगाम सह कृष्णेन त्वरितं नन्दगोकुले ॥२४२।। आपृच्छय राम-गोविन्दौ सोऽथ शौर्यपुरे ययौ । प्रवादश्चेत्यभून्नन्दपुत्रेणाऽऽरोपितं धनुः ॥२४३॥ चापाधिरोपणाद् दून: कंसश्चापमहोत्सवम् । अपदिश्य नियुद्धाय मल्लान् सर्वान् समादिशत् ॥२४४।। वसुदेवेन चाऽऽहूताः कंसदुर्भाववेदिना । सर्वेऽपि स्वाग्रजाः सर्वेऽप्यक्रूराद्याश्च सूनवः ॥२४६।। कंसेनाऽपि हि सत्कृत्य मञ्चेषूच्चतरेषु ते । उपावेश्यन्त भास्वन्त इव तेजोभिरुद्भटाः ।।२४७।। मल्लयुद्धोत्सवं श्रुत्वा राम कृष्णोऽब्रवीदिति । तत्राऽऽवामार्य ! गच्छावः पश्यावो मल्लकौतुकम् ।।२४८।। पाप्रतिपद्य च तद रामो यशोदामित्यभाषत । प्रगणीकरु नौ स्नानं यियास्वोर्मथरां परीम ॥२४९।। तां किञ्चिदलसां प्रेक्ष्य साक्षेपमवदद् बलः । गोविन्दस्य भ्रातृवधाख्यानप्रस्तावनाकृते ॥२५०॥ अयि ! किं विस्मृतः प्राच्यो दासीभावस्तवाऽधुना ? । अस्मदीयं यदादेशं नाऽनुतिष्ठसि सत्वरम् ।।२५१।। विच्छायं वचसा तेन कृष्णमादाय सीत्वतः । नद्यां निनाय स्नानाय यमुनायां वशंवदम् ॥२५२।। तमुवाच च किं वत्स ! विच्छाय इव दृश्यसे ? । प्रावृषेण्याम्बुदमरुत्संस्पृष्ट इव दर्पण: ।।२५३॥ बलदेवं जगादैवं गोविन्दो गद्गदाक्षरम् । किं मे माता त्वया भ्रातर्दासीत्याक्षिप्य जल्पिता ? ||२५४|| रौमाभिरामं रामोऽपि निजगाद जनार्दनम् । न ते यशोदा जननी नन्दश्च जनको न वा ॥२५५॥ किन्तु ते देवकी माता सा देवकनृपात्मजा । विश्वकवीर ! सुभगो वसुदेवश्च ते पिता ॥२५६॥ मासे मासे दिदृक्षुस्त्वां स्तन्यसिक्तमहीतला । गोपूजाव्याजतोऽत्रैति देवकी साश्रुलोचना ॥२५७।। उपरोधेन कंसस्य मथुरायामवस्थितः । वसुदेवोऽस्ति नौ तातो दाक्षिण्यैकमहोदधिः ।।२५८॥ वैमात्रेयोऽग्रँजस्तेऽहं त्वदपायाभिशङ्किभिः । तातपादैः समादिष्टस्त्वां रक्षितुमिहाऽऽगमम् ॥२५९।। किं पित्राऽहमिह क्षिप्त इति पृष्टोऽनुजन्मना । कंसोपज्ञं स आचख्यौ सर्वं भ्रातृवधादिकम् ॥२६०॥ तच्छ्रुत्वा कुपितः कृष्णः कृष्णवर्मेव दारुणः । प्रत्यज्ञासीत् कंसवधं नद्यां स्नातुं विवेश च ॥२६१।। पाकंसस्येव प्रियसुहृद् दष्टुकामो जनार्दनम् । कालिन्दीजलमग्नाङ्गः कालियोऽहिरधावत ।।२६२।। तत्फणामणिविद्योतात् किमेतदिति वादिनि । रामे कृष्णः समुत्थाय तमुत्पलमिवाऽऽददे ॥२६३॥ घ्राणे नलिननालेन सोऽहिौरिव नस्तितः । उपर्यारुह्य कृष्णेन वाहितश्च चिरं जले ॥२६४।। निर्जीवमिव तं खिन्नं मुक्त्वा कृष्णोऽथ निर्ययौ । एत्य सौनातिकैविप्रैः परिवत्रे च कौतुकात् ।।२६५।। पाततः परिवृतौ गोपै राम-कृष्णौ महौजसौ । चेलतुः प्रति मथुरां प्रपेदाते च गोपुरम् ॥२६६॥ कंसादिष्टमहामात्रप्रेरितौ तत्र च द्विपौ । पद्मोत्तरश्चम्पकश्चाऽधावतां सन्मुखं तयोः ॥२६७।।
दन्तोत्खननमष्टयादिघातैः पद्मोत्तरं गजम । कष्णोऽवधीत् सिंह इव बलभद्रस्तु चम्पकम् ॥२६८।। १. पिच्छिल आर्द्रपङ्के भ्रश्यन्तौ पादौ यस्य सः । २. तत्सख्यः, च दास्यश्चान्ये ला० । ३. इन्द्रधनुर्दण्डेन । ४. वर्षक० खं० १, ला० । वर्षक० सू० । ५. शार्गधन्व मु० र० । ६. स्पष्टुमण्य० पु०ला०छा०आ०की० । ७. सूर्यपुरे ता०सं० । ८. व्याजात् । ९. बाहुयुद्धाय । १०. च० मु० । ११. उद्विग्नम् । १२. बलदेवः । १३. वशंवदः मु० । १४. वनिताभिरामम्, सामाभिरामम् ता०सं०की०पा०ला० । १५. च मु० र० । १६. अपरमातुः पुत्रः । १७. ज्येष्ठभ्राता । १८. अग्निः । १९. नलिनीनालेन मु० र० । २०. नस्थितः मु० । नाथितः । २१. सुस्नातं पृच्छन्तीति सौनातिकाः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org