________________
कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यगुम्फितं
(अष्टमं पर्व
नैमित्तिकोऽप्यभाषिष्ट न मृषा ऋषिभाषितम् । सप्तमो देवकीगर्भः क्वचिदस्ति तवाऽन्तकृत् ।।२०२॥ अरिष्टो यस्तवोक्षोऽस्ति केशी नाम महाहयः । खरमेषौ च दुर्दान्तौ मुञ्च वृन्दावनेऽथ तान् ॥२०३।। 'गिरिसारानप्यमून् यस्तत्र क्रीडन् यदृच्छया । हनिष्यति स हन्ता ते देवक्याः सप्तमः सुतः ॥२०४।। अन्यच्च यत् क्रमायातं शार्गं धन्व त्वदोकसि । पूज्यमानं त्वज्जनन्या स एवाऽऽरोपयिष्यति ।।२०५।। आख्यातं ज्ञानिना यत् तद् भविष्यति भविष्यतः । दोष्मतो वासुदेवस्य दुःस्पर्शमितरैर्जनैः ॥२०६॥ कालियाहेः स दमकश्चाणूरस्य च घातकः । पद्मोत्तरं चम्पकं च हनिष्यति तव द्विपौ ।।२०७।। स्वारिं ज्ञातुमथो कंसोऽरिष्टादीनमुचद् वने । चाणूर-मुष्टिको मल्लावादिदेश श्रमाय च ॥२०८।। तदा शरद्यरिष्टोक्षा स रिष्टमिव मूर्तिमत् । अन्तर्वृन्दावनं गर्जन् गोपलोकमुपाद्रवत् ॥२०९॥ शृङ्गाग्रेणों द्दधे गाः स तटीपङ्कमिवोच्चकैः । तुण्डाग्रेणाऽलोठयच्च सपिर्भाण्डान्यनेकशः ॥२१०॥ . त्रायस्व कृष्ण ! कृष्णेति राम ! रामेति चोच्चकैः । अतिदीनो वल्लवानां तदा कलकलोऽभवत् ।।२११॥ रामेण सह गोविन्दः किमेतदिति सम्भ्रमात् । धावितः पुरतोऽद्राक्षीत् तमुक्षाणं महौजसम् ॥२१२॥ कश्चिदर्थो न नो गोभिन चाऽऽज्यैरपि तिष्ठ तत् । इति वृद्धैनिषिद्धोऽपि कृष्ण आह्वास्त तं वृषम् ।।२१३।। विषाणे उन्नमय्योच्चैराकुञ्चितमुखो रुषा । उत्पुच्छयमानोऽरिष्टो गोविन्दायाऽभ्यधावत ॥२१४।। तं शृङ्गयोर्गृहीत्वाऽऽशु वालयित्वा च तद्गलम् । विधाय च निरुच्छासमरिष्टमवधीद्धरिः ॥२१५।।
मृत्याविव मृति नीतेऽरिष्टे हृष्टाः समन्ततः । आनर्चुवल्लवाः कृष्णं सतृष्णास्तन्निरीक्षणे ॥२१६।। पाकृष्णस्य क्रीडतोऽन्येधुः केशी कंसकिशोरकः । कीनाश इव दुष्टाशो विवृतास्यः समाययौ ॥२१७।।
दन्तैर्वत्सतरान् गृह्णन्निघ्नन् गोगंभिणीः खुरैः । भीषणं हेषमाणश्च स कृष्णेनाऽत्यतय॑त ॥२१८।। जिघत्सोः प्रसृते तस्य दन्तक्रकचदारुणे । मुखे वज्रोपमं बाई 'वलयित्वा हरिय॑धात् ।।२१९।। आग्रीवं बाहुना तेन तथाऽदार्यत तन्मुखम् । परासुः स यथा जज्ञेऽरिष्टसार्थ इवोत्सुकः ॥२२०॥ कंसस्य खर-मेषौ तु तत्राऽटन्तौ खरौजसौ । अन्येधुर्लीलया कृष्णो निजघान महाभुजः ॥२२१।। तानाकर्ण्य हतान् कंसः सम्यक् स्वारिं परीक्षितुम् । शार्गं पूजोत्सवव्याजात् स्थापयामास पर्षदि ॥२२२।। तस्य चोपासिकां सत्यभामां "जामि कुमारिकाम् । चक्रे सदा सन्निहितामुत्सवं च प्रचक्रमे ॥२२३।। एवं चाऽघोषयत् कंसो यः शार्गमधिरोपयेत् । सत्यभामामहं तस्मै दास्ये सुरवधूपमाम् ॥२२४।।
श्रुत्वेदं तत्र सम्प्रापुर्दूरादपि महीभुजः । न चाऽऽरोपयितुं धन्वाऽलम्भूष्णुः कश्चिदप्यभूत् ॥२२५।। पातच्छ्रुत्वा मदनवेगानन्दनो वसुदेवजः । अनाधृष्टिर्वीरमानी वेगिनं रथमास्थितः ॥२२६।।
आगच्छन् गोकुले तत्र राम-कृष्णौ युतावुभौ । प्रेक्ष्योवास निशामेकामालपन् लालयंश्च तौ ॥२२७॥ प्रातश्च रथमारुह्याऽनुजं रामं विसृज्य च । सोऽचलत् कृष्णमादाय मथुरामार्गदर्शकम् ॥२२८॥ मार्गे महाद्रुसङ्कीर्णे विलग्नस्तद्रथो वटे । तं च मोचयितुं नाऽलमनाधृष्टिर्बभूव सः ॥२२९।। पत्तिस्तत्र व्रजन् कृष्णो लीलयोन्मूल्य तं वटम् । चिक्षेपाऽन्यत्र तदनु रथाध्वानमृगँ व्यधात् ॥२३०॥ अनाधृष्टिस्ततो हृष्टः प्रेक्ष्य तं तस्य विक्रमम् । उत्तीर्य परिरेभे तं रथे चाऽऽरोपयत् स्वयम् ॥२३१।। क्रमादुत्तीर्य कालिन्दी प्रविश्य मथुरां च तौ । तामनेकागतनृपां धनुष्पर्षदमीयतुः ॥२३२॥ पाअभ्यर्णे धनुषस्तस्याऽधिष्ठात्रीमिव देवताम् । तौ तां ददृशतुः सत्यभामामम्भोजलोचनाम् ॥२३३।।
कृष्णं सतृष्णं पश्यन्ती सत्यभामाऽपि तत्क्षणम् । तं वरं मनसा वने मनोभवशरातुरा ॥२३४॥ १. वृषभः । २. पर्वतान् इव बलवन्तः । ३. स्वकीयशत्रुम् । ४. अमङ्गलम् । ५. ०ग्रेणोत्क्षिपन् खं० १ । ६. मुखाग्रेण । ७. किसोरक: खं० २, ला० । अल्पवया हयः । ८. गावश्च ताः गभिण्यश्च गोगभिण्य: ताः । ९. दन्ता एव क्रकचः तेन दारुणे ॥ १०. वालयित्वा ता०सं०छा०की० ला०र०, खं० १-२, ला०सू०विना । ११. गर्दभ-मेण्ढकौ । १२. तीक्ष्णमोजो ययोस्तौ । १३. भगिनीम् । १४. कृष्णम्। १५. पथि तत्र खं० २ । कृष्णो मार्गदर्शकत्वेन पद्भ्यां चलन्नासीदिति गम्यते । १६. दधे पु० । १७. कामबाणेन पीडिता ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org