Book Title: Trishashtishalakapurushcharitammahakavyam Parva 8 9
Author(s): Hemchandracharya, Ramnikvijay Gani
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 123
________________ कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यगुम्फितं (अष्टमं पर्व दध्यौ च बिन्दुनाऽप्यस्य म्रियन्तेऽनेकजन्तवः । स्यात् परिष्ठापितेऽस्मिंस्तु कियतां प्राणिनां मृतिः || ३०४ || वरमेको विपन्नोऽहं न पुनः प्राणिराशयः । निश्चित्येति स तत् तुम्बं स्वयमौद समाहितः || ३०४।। विधायाऽऽराधनां सम्यक् स समाधिपरायणः । मृत्वा सर्वार्थसिद्धेऽभूदहमिन्द्रः सुरोत्तमः ||३०६|| [इतश्च ते धर्मघोषाचार्या धर्मरुचेः कुतः । विलम्बोऽभूदिति ज्ञातुमादिक्षन्नपरान् मुनीन् ॥३०७॥ तैर्बहिः स मृतो दृष्टस्तद्रजोहरणादि च । आदायाऽऽख्यायि गत्वा च गुरवे गुरुखेदिभिः || ३०८|| ततः सोऽतिशयँज्ञानोपयोगेन गुरुर्जगौ । नागश्रियो दुश्चरितं श्रमणानामशेषतः || ३०९ || ततः सकोपा व्रतिनो व्रतिन्यश्चैत्य तत्र ते । सोमदेवप्रभृतीनां लोकानां चाऽऽचचक्षिरे ||३१०|| सोमाद्यैः साऽपि नागश्रीर्विप्रैर्निर्वासिता गृहात् । निर्भर्त्स्यमाना लोकैश्च दुःखं पर्याट सर्वतः ॥ ३११॥ कास-श्वास- ज्वर-कुष्टादिभी रोगैः सुदारुणैः । क्रान्ता षोडशभिः साऽऽपन्नारकत्वमिहाऽपि हि ॥ ३१२ || क्षुधिता तृषिता जीर्णखण्डवासा निराश्रया । पर्यटन्ती क्रमान्मृत्वा सा षष्ठं नरकं ययौ || ३१३॥ उद्धृत्य नरकान्म्लेच्छेऽप्यजायत विपद्य च । सप्तमं नरकं प्राप तद्वृत्ता झषेष्वभूत् ॥३१४॥ सप्तमं नरकं भूयो गत्वा म्लेच्छेष्वजायत । एवं द्विर्द्विर्ययौ पापा सर्वेषु नरकेषु सा ||३१५|| ततश्च पृथ्वीकायादिषूत्पद्याऽनेकशश्च सा । अकामनिर्जरायोगाद् दुष्कर्माऽशातयद् बहु ||३१६ || [ततश्चाऽत्रैव चम्पायां नाम्नाऽभूत् सुकुमारिका । श्रेष्ठि सागरदत्तस्य सुभद्राकुक्षिजा सुता ||३१७ || तत्रैवाऽऽसीज्जिनदत्तः सार्थवाहो महोधनः । भद्रा च गेहिनी तस्य सागरो नाम तत्सुतः ||३१८|| उपसागरदत्तौको जिनदत्तोऽन्यदा व्रजन् । उद्यौवनामपश्यत् तां कुमारीं सुकुमारिकाम् ||३१९।। अधिसौधं कन्दुकेन रममाणामुदीक्ष्य ताम् । योग्येयं मत्सुतस्येति स ध्यायन् स्वगृहं ययौ ॥३२०|| ततः सबन्धुरभ्येत्य जिनदत्तः स्वसूनवे । ययाचे सागरदत्तात् कुमारी सुकुमारिकाम् ॥३२१|| ऊचे सागरदत्तोऽपि सुता प्राणप्रिया मम । न स्थातुमहमीशोऽस्मि मनागप्यनया विना ॥ ३२२॥ मम चेद् गृहजामाता त्वत्सुतः सागरो भवेत् । तदा स्वपुत्रीं यच्छामि तस्मै सह धनादिभिः ॥ ३२३॥ आलोचयिष्यामीत्युक्त्वा जिनदत्तो गृहं ययौ । सागरस्य समाख्याच्च मौनेनाऽस्थाच्च सागरः || ३२४|| अनिषिद्धं ह्यनुमतमिति न्यायेन तत्पिता । मेने सागरदत्ताय गृहजामातरं सुतम् ॥ ३२५॥ तया कुमार्या ताभ्यां तु सागरः परिणायितः । तया समं वासगृहे गत्वा तल्पं च शिश्रिये ॥ ३२६ ॥ पूर्वकर्मवशात् तस्याः स्पर्शेनाऽङ्गारवद् भृशम् । दह्यमानः क्षणं तस्थौ कथञ्चित् तत्र सागरः ॥३२७॥ निद्रायमाणां तां मुक्त्वा नंष्ट्वा स स्वगृहं ययौ । अपश्यन्ती पतिं साऽपि निद्राच्छेदेऽरुदद्भृशम् ॥३२८॥ वधू-वरस्य दर्शनशौचहेतोः सुभद्रया । चेट्यादिष्टा प्रगेऽद्राक्षीद्रुदतीं तां धंवेोज्झिताम् ॥ ३२९ ॥ सा गत्वाऽऽख्यात् सुभद्रायै सुभद्रा श्रेष्ठिने पुन: । श्रेष्ठी तु जिनदत्तायोपालम्भं प्रददौ स्वयम् ॥३३०|| आहूय जिनदत्तोऽपि रहः स्वसुतमब्रवीत् । त्वया न युक्तं विदधे त्यजता सज्जनात्मजाम् ||३३१|| इदानीमपि तद्गच्छ वत्सोपसुकुमारिकम् । प्रतिपन्नं मया हीदृक् सज्जनानां पुरस्तदा ||३३२|| व्याहरत् सागरोऽप्येवं वरमग्नौ विशाम्यहम् । यास्यामि न पुनस्तात ! जातूपसुकुमारिकँम् ॥३३३॥ एतत् सागरदत्तोऽपि तत्कुड्यन्तरितोऽशृणोत् । निराशश्च ययौ गेहमूचे च सुकुमारिकाम् ||३३४|| विरक्तः सागरस्ते हि तत् तुभ्यमपरं पतिम् । अन्विष्याऽहं करिष्यामि पुत्रि ! मा खेदमुद्वह ||३३५|| सथान्येद्युर्गवाक्षस्थोऽपश्यत् कर्परधारिणम् । जीर्णखण्डाम्बरं भिक्षायाचकं मक्षिकावृतम् ॥ ३३६|| आहूय श्रेष्ठिना सोऽपि त्याजितः कर्परादिकम् । स्त्रपयित्वा भोजितश्च चर्चितश्चन्दनेन च ॥३३७॥ ९६ १. संहारः प्राणिनां कियान् ला० १ । २. तं तुंब खं० २, विना । ३. स्वयमादत् मु० । ४ ०तिशयाज्ज्ञानो० खं० २ । ५. o नि: कासिता मु० । ६. तदुद्धृता मु० २० । ७. मत्स्ययौनो । ८. ०ऽशोषयद्० ला०, अक्षपयत् । ९. धनाधिपः मु० । १०. गृहे खं० १-२, ला० सू० । ११. दन्तधावनकारणात् । १२. पतिरहिताम् । १३. सुकुमारिकाम् मु० र० खं० १ २ । १४. जातूपसुकुमारिकाम् ला० सू० विना । १५. स चान्येद्यु० खं० १ । For Private Personal Use Only Jain Education International www.jainelibrary.org

Loading...

Page Navigation
1 ... 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282