________________
कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यगुम्फितं
(अष्टमं पर्व
दध्यौ च बिन्दुनाऽप्यस्य म्रियन्तेऽनेकजन्तवः । स्यात् परिष्ठापितेऽस्मिंस्तु कियतां प्राणिनां मृतिः || ३०४ || वरमेको विपन्नोऽहं न पुनः प्राणिराशयः । निश्चित्येति स तत् तुम्बं स्वयमौद समाहितः || ३०४।। विधायाऽऽराधनां सम्यक् स समाधिपरायणः । मृत्वा सर्वार्थसिद्धेऽभूदहमिन्द्रः सुरोत्तमः ||३०६|| [इतश्च ते धर्मघोषाचार्या धर्मरुचेः कुतः । विलम्बोऽभूदिति ज्ञातुमादिक्षन्नपरान् मुनीन् ॥३०७॥ तैर्बहिः स मृतो दृष्टस्तद्रजोहरणादि च । आदायाऽऽख्यायि गत्वा च गुरवे गुरुखेदिभिः || ३०८|| ततः सोऽतिशयँज्ञानोपयोगेन गुरुर्जगौ । नागश्रियो दुश्चरितं श्रमणानामशेषतः || ३०९ || ततः सकोपा व्रतिनो व्रतिन्यश्चैत्य तत्र ते । सोमदेवप्रभृतीनां लोकानां चाऽऽचचक्षिरे ||३१०|| सोमाद्यैः साऽपि नागश्रीर्विप्रैर्निर्वासिता गृहात् । निर्भर्त्स्यमाना लोकैश्च दुःखं पर्याट सर्वतः ॥ ३११॥ कास-श्वास- ज्वर-कुष्टादिभी रोगैः सुदारुणैः । क्रान्ता षोडशभिः साऽऽपन्नारकत्वमिहाऽपि हि ॥ ३१२ || क्षुधिता तृषिता जीर्णखण्डवासा निराश्रया । पर्यटन्ती क्रमान्मृत्वा सा षष्ठं नरकं ययौ || ३१३॥ उद्धृत्य नरकान्म्लेच्छेऽप्यजायत विपद्य च । सप्तमं नरकं प्राप तद्वृत्ता झषेष्वभूत् ॥३१४॥ सप्तमं नरकं भूयो गत्वा म्लेच्छेष्वजायत । एवं द्विर्द्विर्ययौ पापा सर्वेषु नरकेषु सा ||३१५|| ततश्च पृथ्वीकायादिषूत्पद्याऽनेकशश्च सा । अकामनिर्जरायोगाद् दुष्कर्माऽशातयद् बहु ||३१६ || [ततश्चाऽत्रैव चम्पायां नाम्नाऽभूत् सुकुमारिका । श्रेष्ठि सागरदत्तस्य सुभद्राकुक्षिजा सुता ||३१७ || तत्रैवाऽऽसीज्जिनदत्तः सार्थवाहो महोधनः । भद्रा च गेहिनी तस्य सागरो नाम तत्सुतः ||३१८|| उपसागरदत्तौको जिनदत्तोऽन्यदा व्रजन् । उद्यौवनामपश्यत् तां कुमारीं सुकुमारिकाम् ||३१९।। अधिसौधं कन्दुकेन रममाणामुदीक्ष्य ताम् । योग्येयं मत्सुतस्येति स ध्यायन् स्वगृहं ययौ ॥३२०|| ततः सबन्धुरभ्येत्य जिनदत्तः स्वसूनवे । ययाचे सागरदत्तात् कुमारी सुकुमारिकाम् ॥३२१|| ऊचे सागरदत्तोऽपि सुता प्राणप्रिया मम । न स्थातुमहमीशोऽस्मि मनागप्यनया विना ॥ ३२२॥ मम चेद् गृहजामाता त्वत्सुतः सागरो भवेत् । तदा स्वपुत्रीं यच्छामि तस्मै सह धनादिभिः ॥ ३२३॥ आलोचयिष्यामीत्युक्त्वा जिनदत्तो गृहं ययौ । सागरस्य समाख्याच्च मौनेनाऽस्थाच्च सागरः || ३२४|| अनिषिद्धं ह्यनुमतमिति न्यायेन तत्पिता । मेने सागरदत्ताय गृहजामातरं सुतम् ॥ ३२५॥ तया कुमार्या ताभ्यां तु सागरः परिणायितः । तया समं वासगृहे गत्वा तल्पं च शिश्रिये ॥ ३२६ ॥ पूर्वकर्मवशात् तस्याः स्पर्शेनाऽङ्गारवद् भृशम् । दह्यमानः क्षणं तस्थौ कथञ्चित् तत्र सागरः ॥३२७॥ निद्रायमाणां तां मुक्त्वा नंष्ट्वा स स्वगृहं ययौ । अपश्यन्ती पतिं साऽपि निद्राच्छेदेऽरुदद्भृशम् ॥३२८॥ वधू-वरस्य दर्शनशौचहेतोः सुभद्रया । चेट्यादिष्टा प्रगेऽद्राक्षीद्रुदतीं तां धंवेोज्झिताम् ॥ ३२९ ॥ सा गत्वाऽऽख्यात् सुभद्रायै सुभद्रा श्रेष्ठिने पुन: । श्रेष्ठी तु जिनदत्तायोपालम्भं प्रददौ स्वयम् ॥३३०|| आहूय जिनदत्तोऽपि रहः स्वसुतमब्रवीत् । त्वया न युक्तं विदधे त्यजता सज्जनात्मजाम् ||३३१|| इदानीमपि तद्गच्छ वत्सोपसुकुमारिकम् । प्रतिपन्नं मया हीदृक् सज्जनानां पुरस्तदा ||३३२|| व्याहरत् सागरोऽप्येवं वरमग्नौ विशाम्यहम् । यास्यामि न पुनस्तात ! जातूपसुकुमारिकँम् ॥३३३॥ एतत् सागरदत्तोऽपि तत्कुड्यन्तरितोऽशृणोत् । निराशश्च ययौ गेहमूचे च सुकुमारिकाम् ||३३४|| विरक्तः सागरस्ते हि तत् तुभ्यमपरं पतिम् । अन्विष्याऽहं करिष्यामि पुत्रि ! मा खेदमुद्वह ||३३५|| सथान्येद्युर्गवाक्षस्थोऽपश्यत् कर्परधारिणम् । जीर्णखण्डाम्बरं भिक्षायाचकं मक्षिकावृतम् ॥ ३३६|| आहूय श्रेष्ठिना सोऽपि त्याजितः कर्परादिकम् । स्त्रपयित्वा भोजितश्च चर्चितश्चन्दनेन च ॥३३७॥
९६
१. संहारः प्राणिनां कियान् ला० १ । २. तं तुंब खं० २, विना । ३. स्वयमादत् मु० । ४ ०तिशयाज्ज्ञानो० खं० २ । ५. o नि: कासिता मु० । ६. तदुद्धृता मु० २० । ७. मत्स्ययौनो । ८. ०ऽशोषयद्० ला०, अक्षपयत् । ९. धनाधिपः मु० । १०. गृहे खं० १-२, ला० सू० । ११. दन्तधावनकारणात् । १२. पतिरहिताम् । १३. सुकुमारिकाम् मु० र० खं० १ २ । १४. जातूपसुकुमारिकाम् ला० सू० विना । १५. स चान्येद्यु० खं० १ ।
For Private Personal Use Only
Jain Education International
www.jainelibrary.org