________________
षष्ठः सर्गः )
श्रीत्रिषष्टिशलाकापुरुषचरितम् ।
ऊचे च तं मया दत्ता पुत्रीयं सुकुमारिका । भोजनादिषु निश्चिन्तः सुखं तिष्ठ सहाऽनया ॥ ३३८ ॥ इत्युक्तः प्रययौ वासगृहं सह तयाऽथ सः । सुप्तश्च तद्वपुःस्पर्शादग्निस्पृष्ट इवाऽभवत् ॥ ३३९॥ उत्थाय च निजं वेषमादाय स पलायितः । विषण्णा सा तथैवाऽस्थाद् दृष्टा पित्रेत्यभाष्यत ॥३४०|| वत्से ! प्राक्कर्मणामेष उदयोऽन्यन्न कारणम् । सन्तुष्टा तिष्ठ तद्दानं ददती मम वेश्मनि ||३४१|| तथैव सा ददौ दानं शान्ता धर्मरता सती । कदाचिदागुस्तद्वेश्मन्यार्या गोपालिका इति ॥ ३४२|| सा प्रत्यलाभयत् ताश्च शुद्धैः पानाऽशनादिभिः । तत्पार्श्वे धर्ममाकर्ण्य प्रबुद्धा व्रतमाददे || ३४३॥ तुर्य षष्ठाऽष्टमादीनि सा तपांसि प्रकुर्वती । गोपालिकाभिरार्याभिः सह व्यहरताऽन्वहम् ॥३४४॥ आर्यास्ताः सा कदाऽप्यूचे पश्यन्ती रविमण्डलम् । सुभूमिभागोद्यानस्थाऽऽतापनां विदधाम्यहम् ||३४५|| ता अप्यूचुः स्ववसतेर्बहिर्न खलु कल्पते । आतापना व्रतिनीनामाम्नातमिदमागमे ॥ ३४६॥ तदश्रुत्वेव सुभूमिभागोद्यानेऽभ्युपेत्य सा । आतापनामुपाक्रंस्त सूर्ये निहितलोचना ॥३४७॥ |[अथैककामुकेनाऽङ्गे स्थापितामपरेण तु । धृतातपत्रामन्येन वीज्यमानां सुखानिलम् ||३४८ ॥ बध्यमानकचामेकेनाऽन्येनाऽङ्के धृतांहिकाम् । गणिकां देवदत्ताख्यां तत्राऽऽयातां ददर्श सा ॥ ३४९ ॥ युग्मम् ॥ सा. त्वसम्पूर्ण भोगेच्छा निदानमकरोदिदम् । एषेव पञ्चपतिका भूयासं तपसाऽमुना ||३५०॥ साऽङ्गशौचपरा चाऽऽसीदभ्युक्षन्ती पदे पदे । आर्याभिर्वार्यमाणा च चेतस्येवमचिन्तयत् ॥ ३५१ ॥ आर्यिकाणां गौरवितो पुराऽभूवं गृहं स्थिता। भिक्षाचरीमिदानीं मां तर्जयन्ति यथा तथा ॥ ३५२ || किमभिरिति ध्यात्वा विभिन्नेऽस्थात् प्रतिश्रये । एकाकिनी स्वैरिणी सा चिरं व्रतमपालयत् ॥३५३॥ संलेखनामष्टमासान् कृत्वाऽनालोच्य सा मृता । नवपल्योपमायुष्का सौधर्मे देव्यजायत || ३५४|| च्युत्वा चाऽभूद् द्रौपदीयं निदानात् प्राक्तनादमी । अमुष्याः पतयः पञ्च सञ्जाताः कोऽत्र विस्मयः ? ||३५५ || इत्युक्ते मुनिना व्योम्नि साधु साध्विति गीरभूत् । साध्वमी पतयोऽभूवन्निति कृष्णादयो जगुः || ३५६|| तैरेव राजस्वजनैः स्वयंवरसमागतैः । कृतोत्सवाः पर्यणैषुर्द्रौपदीमथ पाण्डवाः || ३५७|| तत: पाण्डुर्दशार्हांस्तान् कृष्णमन्यांश्च भूभुजः । विवाहार्थमिवाऽऽनीतान् गौरवात् स्वपुरेऽनयत् ॥ ३५८ ॥ अर्चित्वा सुचिरं तत्र दशार्हान् सीरि- शार्ङ्गिणौ । आपृच्छमानान् व्यसृजद् भूपानन्यांश्च पाण्डुराट् ॥३५९॥ ||पाण्डुर्युधिष्ठिरायाऽथ दत्त्वा राज्यं व्यपद्यत । अन्वियाय च तं माद्री कुन्त्यै दत्त्वा सुतद्वयम् ॥३६०|| ततश्चास्तंगते पाण्डौ पाण्डवांस्तान् समत्सराः । न मेनिरे धार्तराष्ट्रा राष्ट्रलुब्धा दुराशयाः ॥३६१ ॥ दुर्योधनेन तद्वृद्धास्तोषिता विनयादिना । जिताश्च पाण्डवा द्यूते राज्यं 'तेर्षात् पणीकृतम् ॥३६२॥ पणीकृतां द्रौपदीं च जित्वा दुर्योधनोऽग्रहीत् । क्रोधरक्तेक्षणाद् भीमाद् बिभ्यत्तां पुनरार्पयत् ॥ ३६३॥ कृत्वाऽवमाननां ते च धार्तराष्ट्रैः स्वराष्ट्रतः । निर्वासिताः पाण्डुसुता वनवासमशिश्रियन् ॥ ३६४|| वनाद् वनं चिरं भ्रान्त्वा दशार्हानुजया तया । कुन्त्या द्वारवतीं नीतास्ते पञ्चाऽपि हि पाण्डवाः || ३६५ ॥ दिव्यास्त्रयोधिनः सर्वे विद्याभुजबलोर्जिताः । ययुः समुद्रविजयस्यौकः प्रथमतोऽपि ते ॥ ३६६॥ समुद्रविजयस्तत्राऽक्षोभ्याद्या भ्रातरश्च ते । भगिनीं भागिनेयांश्च स्नेहादानर्चुरञ्जसा ॥३६७ || ऊचुर्दशार्हास्त्वं" तेभ्यो दायादेभ्यः समागता । दिष्ट्या दृष्टाऽसि जीवन्ती सापत्यापि हि हे स्वसः ! || ३६८ || कुन्त्यप्यूचे सपुत्राऽपि जीविताऽहं तदैव हि । मया यदैव जीवन्त: श्रुता यूयं ससूनवः || ३६९ ॥ लोकोत्तरं चरित्रं च वत्सयो राम-कृष्णयोः । शृण्वती मुदितात्राऽऽगां तद्दर्शनसमुत्सुका ॥३७०॥ सानुज्ञाता भ्रातृभिस्तैः सपुत्राऽगात् सभां हरेः । तामभ्युत्तस्थतू राम कृष्णौ भक्त्या च नेमतुः || ३७१ || राम-कृष्णौ पाण्डवाश्च यथापूर्वं परस्परम् । कृता श्लेष - नमस्कारा यथोचितमुपाविशन् ॥ ३७२ ||
१. तिष्टेः खं० २, ला० सू० । २. दृष्ट्वा ता० सं० पु० की ० छा० ला० । ३ मुपाक्रांस्त ला० । ४. सिञ्चन्ती । ५. सम्मानिता । ६. पुराऽभवं खं० १ । ७. उपाश्रये । ८. कृतोत्सवे खं० २ बिना । ९. मिहानीतान् मु० २० । १०. वांस्ते स० ला० । ११. क्षुद्रा लुब्धा खं० २ । १२. तृष्णावशात् । १३. विजयस्यौकसि प्रथमं च ते ला० । १४. दशार्हास्तां मु० । १५ दुर्योधनादिभ्यः सकाशात् ।
Jain Education International
९७
For Private Personal Use Only
www.jainelibrary.org