________________
कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यगुम्फितं
(अष्टमं पर्व
पऊचे कृष्णः साधु यूयमिहाऽऽयाताः स्ववेश्मनि । युष्माकं च यदूनां च लक्ष्मी: साधारणी' खलु ॥३७३।। ऊचे युधिष्ठिरस्तेषां सदा दास्यः श्रियो हरे ! । येषामभिमतोऽसि त्वं किं पुनर्ये मतास्तव॥३७४।। अस्मन्मातृकुलमिदं त्वयाऽलङ्कर्वता हरे ! । वर्तामहे विश्वतोऽपि विशेषेण महौजसः ॥३७५॥ सत्कृत्य विविधालापैः कुन्ती-कुन्तीसुतानपि । कृष्णो नियोजयामास प्रासादेषु पृथक् पृथक् ॥३७६॥ लक्ष्मीवती वेगवती सुभद्रां विजयां रतिम् । ददुः क्रमात् पाण्डवेभ्यो दशार्दा निजकन्यकाः ॥३७७।। यदुभिः पूज्यमानास्ते कृष्णेन च बलेन च । युधिष्ठिराद्याः पञ्चाऽपि सुखं तत्राऽवतस्थिरे ॥३७८।। पाइतश्चाऽधिगतकलाकलापं प्राप्तयौवनम् । प्रद्युम्नं प्रेक्ष्य कनकमालाऽभून्मदनातुरा ॥३७९॥ दध्यौ च सा न हीदृक्षः खेचरेष्वस्ति कश्चन । मन्ये देवोऽपि नेदृक्षः का कथा भूमिचारिषु? ॥३८०॥ तत्स्वयंवर्धितस्याऽस्य तरोरिव फलं ह्यदः । स्वयं भोगोऽन्यथा नूनं जन्माऽपि हि मुधा मम ॥३८१॥ विमृश्यैवं सा जगाद प्रद्युम्नं कलया गिरा । इहैवाऽस्त्युत्तरश्रेण्यां नाम्ना नलपुरं पुरम् ॥३८२॥ गौरीवंशोद्भवस्तत्र निषधो नाम भूपतिः । तस्याऽहं राजसिंहस्य पुत्री पुत्रस्तु नैषधिः ॥३८३॥ गौरी नाम महाविद्या दत्ता पित्रा मम स्वयम् । दत्त्वा प्रज्ञप्तिविद्यां च मामुपायत संवरः ॥३८४॥ शंवरो मयि रक्तस्तु नाऽन्यां युवतिमिच्छति । सिद्धविद्याद्वयाया मे बलात् तस्य तृणं जगत् ॥३८५।। एवंविधाऽनुरक्ताऽहं त्वां वृणोमि भजस्व माम् । मा स्म प्रणयभङ्ग मे कार्षीरज्ञानतोऽपि हि ॥३८६।। प्रद्युम्नोऽप्यब्रवीच्छान्तं पापं किञ्चिद् ब्रवीष्यदः । माता त्वमसि पुत्रोऽहं पातायेदं द्वयोरपि ॥३८७॥ साऽप्यूचे नाऽसि मे जातः किन्तु त्वां प्राप शंवरः । अग्निज्वालपुरादायान्मार्गे केनचिदुज्झितम् ॥३८८॥ ममाऽपितो वर्धनाय त्वं कस्याऽपि हि नन्दनः । निःशङ्कं भुक्ष्व तद्भोगान् मया सह यदृच्छया ॥३८९।। स्त्रीगृहे पतितोऽस्मीति चिन्तयन् सोऽब्रवीत् ततः । शंवरात् त्वत्सुतेभ्यश्च लप्स्येऽहं जीवितुं कथम् ? ॥३९०॥ सोचे सुभग ! मा भैषीमहाविद्ये उभे अपि । गृहाण गौरी-प्रज्ञप्त्यौ भवाऽजय्यो जगत्यपि ॥३९१।। न ह्यकृत्यं करिष्यामीत्यन्तर्निश्चित्य कृष्णसूः । ऊचे प्रयच्छ मे विद्ये करिष्ये त्वद्वचस्ततः ॥३९२॥ प्रज्ञप्ति-गौयौँ साऽदत्त महाविद्ये स्मरातुरा । असाधयच्च प्रद्युम्न: पुण्योदयवशाद् द्रुतम् ॥३९३।। तया चाऽभ्यर्थितो रन्तुं व्याहार्षीत् कृष्णनन्दनः । मम संवर्धनात् पूर्वं केवलैव जनन्यभूः ॥३९४|| आचार्या तु भवस्यद्य विद्यादानेन मेऽनघे । न वाच्यस्तत् त्वया किञ्चिदत्राऽहं पापकर्मणि ॥३९५॥ तामेवमुक्त्वा मुक्त्वा च प्रद्युम्नोऽथ पुराबहिः । गत्वा कालाम्बुकावापीतटेऽवास्थित दुर्मनाः ॥३९६॥ पानखैः कनकमाला स्वं दीर्वा कलकलं व्यधात् । किमेतदिति पृच्छन्तस्तत्पुत्राश्च समाययुः ॥३९७।। युष्मत्पितुः पुत्रकेणोद्यौवनेन दुरात्मना । स्वैरं विदारिताऽस्म्यैषा मार्जारेणेव पिण्डदा ॥३९८।। ततस्ते कुपिताः सर्वे गत्वा कालाम्बुकातटे । पाप पापेति जल्पन्तः प्रद्युम्ने प्राहरन् द्रुतम् ॥३९९।। विद्याद्वयोर्जितद्युम्नः प्रद्युम्नो लीलयाऽपि तान् । जघान संवरसुतान् शम्बरोंनिव केशरी ॥४००॥ शंवरोऽपि सुतवधात् क्रुद्धस्तं हन्तुमागतः । विद्याजनितमायाभिः प्रद्युम्नेन जितश्च सः ॥४०१।। प्रद्युम्न: सानुतापोऽथ संवराय यथातथम् । मूलादारभ्य कनकमालोदन्तं शशंस तम् ॥४०२।। तेनाऽपि सानुतापेन प्रद्युम्नः परिपूजितः । तदा च नारद ऋषिः प्रद्युम्नान्तिकमाययौ ॥४०३।। प्रज्ञप्त्या ज्ञापितं तं च प्रद्युम्नः पर्यपूजयत् । अज्ञापयच्च कनकमालावृत्तान्तमादितः ॥४०४॥ पअथ प्रद्युम्न-रुक्मिण्योः सीमन्धरजिनोदितम् । सर्वं वृत्तान्तमाख्याय निजगादेति नारदः ॥४०५।।
आदौ पुत्रस्य वीवाहे केशदानपणः पुरा । सपत्न्या भामया सार्धमस्ति त्वन्मातुरुद्यतः ॥४०६।। १. साधारणा ला० । २. महे वयं योद्धाः (धाः) खं० २। ३. कुन्तीकुन्ती सुता मु० र० । ४. मनोज्ञया । ५. राजहंसस्य खं० १ । ६. शंवरः खं.१-२, सू० । ७. संवरो मु०। ८. पापायेदं मु० खं० १-२, ला० सू० । ९. आगच्छन् । १०. वर्धयितुं पु० । ११. जीवितं खं० १, सू० विना । १२. भवाऽजेयो खं-२ । १३. प्रद्युम्नः, कृष्णभूः खं० २, ता० सं० । १४. तटे चास्थित मु० र० । १५. चिन्तातुरः । १६. भोजनदात्री । १७. प्रद्युम्नं खं० २ । १८. द्युम्नं बलम् । १९. शम्बरा मृगविशेषाः । २०. ०वधक्रुद्ध० खं० २ । २१. विवाहे खं० २, र० । २२. प्रकटः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org