________________
षष्ठः सर्गः)
श्रीत्रिषष्टिशलाकापुरुषचरितम् ।
भार्माया भानुकः सूनुः साम्प्रतं परिणेष्यते । त्वन्मात्रा तत्र दातव्याः स्वकेशाः पणहारिताः ॥ ४०७ || केशदानविप्लवेन त्वद्वियोगरुजा च सा । सत्यपि त्वयि तनये मरिष्यत्येव रुक्मिणी ||४०८|| सनारदोऽपि प्रद्युम्नस्ततः प्रज्ञप्तिनिर्मितम् । विमानमारुह्य ययावाश्वेव द्वारकापुरीम् ||४०९|| [आख्यैच्च नारदः सेयं त्वत्पितुर्द्वारकापुरी । यां विधाय स्वयं रत्नैर्धनदोऽपूरयद् धनैः ||४१०|| प्रद्युम्नोऽप्यभ्यधात् तिष्ठेर्विमाने त्वमिहैव हि । द्वारकायां चमत्कारं यावत् किञ्चित् करोम्यहम् ॥४११॥ आमेति नारदेनोक्ते तत्रस्थां कृष्णनन्दनः । सत्यभामासुतोद्वाहजन्ययात्रामुदैक्षत ||४१२ || हृत्वा कन्यां तदुद्वाह्याममुञ्चन्नारदान्तिके । मा भैषीः कृष्णपुत्रोऽसावित्यूचे नारदोऽपि ताम् ॥ ४१३॥ कपिभृत्पुरुषो भूत्वा प्रद्युम्नो वनपालकान् । ऊचे फलादि ददतां क्षुधितस्याऽस्य मत्कपेः ॥४१४॥ अयं भानुकवीवाहायाऽऽरामो रक्ष्यते खलु । न किञ्चित् तत् त्वया वाच्यमित्यूचुर्वनपालकाः ॥४१५॥ प्रलोभ्य भूरिभिर्द्युम्नैस्तान् प्रद्युम्नः प्रविश्य च । कपिनाऽकारयत् तेनोद्यानं रिक्तं फलादिभिः ॥४१६॥ `जात्यवाजिवणिग्भूत्वा ततः सोऽगात् तृणापणे । तत्राऽऽपणिभ्योऽयाचिष्ट तृण्यां" स्वहयहेतवे ॥४१७|| तथैवाऽददतस्तांस्तु प्रलोभ्य द्रविणेन सः । चकार सर्वमतृणं प्रद्युम्नो निजविद्यया ॥४१८॥ तथैव स्वादु सलिलस्थानान्यसलिलानि सः । पीत्वा चकार वाह्याल्यां वाहं चाऽवाहयत् स्वयम् ॥४१९॥ दृष्टश्च भानुकेनाऽश्वः पुष्टः कस्यैष इत्यथ । प्रद्युम्नोऽपि ममैषोऽश्व इत्याचख्यौ कुतूहली ॥४२०॥ भानुकः सादरोऽवोचत् प्रयच्छाऽमुं तुरङ्गमम् । यत् त्वं याचिष्यसे मूल्यं तत् ते दास्यामि बह्वपि ॥ ४२१ ॥ प्रद्युम्नस्तमभाषिष्ट परीक्ष्याऽऽदत्स्व वाजिनम् । राजापराधोऽपरथाऽनागसोऽपि भवेन्मम ॥४२२ ॥ परीक्षितुमथाऽऽरोहद् भानुकस्तस्य वाजिनम् । वाजं नाटयता तेन पातितः स महीतले ॥४२३॥ स एैडकमथारूढो हस्यमानः पुरीजनैः । वसुदेवसदस्यागात् पार्षद्यानपि हासयन् ॥४२४॥ प्रद्युम्नोऽपि द्विजीभूय पठन् वेदं कलस्वरम् । प्राविशद् द्वारिकां भ्राम्यन् सर्वत्राऽपि त्रिकादिषु ॥ ४२५ ॥ भामादासीमपश्यच्च कुब्जिकां तां च विद्यया । सरलाङ्गीं चकाराऽऽशु पथि वेत्रलतामिव ॥ ४२६॥ पतित्व पादयोः सोचे क्व यूयं चलिता ननु ? । प्रद्युम्नोऽप्यब्रवीद् यत्र लप्स्ये भोजनमिच्छया ||४२७॥ सोचे तर्ह्येहि दास्यामि भामादेव्या निकेतने । सज्जितं सुतवि (वी) वाहे मोदकादि यथारुचि ॥४२८ ॥ जगाम धाम भामाया: प्रद्युम्नाऽपि तया सह । तोरणद्वारि तं मुक्त्वा दासी भामान्तिकं ययौ ॥४२९॥ काऽसीति भामया पृष्टा दास्यूचे साऽस्मि कुब्जिका । भूयोऽपि भामाऽभाषिष्ट केनाऽसि सरलीकृता ? ॥४३०|| दास्याख्यद् ब्राह्मणोदन्तं भामोचे क्वाऽस्ति स द्विज: ? । साऽप्यूचे तोरणद्वारे मया मुक्तोऽस्ति सम्प्रति ॥ ४३१|| तमानय महात्मानमित्यादिष्टाऽथ भामया । तं वेगादानयत् तत्र सा दासी कपटद्विजम् ॥४३२॥ [स दत्वाऽऽशिषमासीनो जगदे सत्यभामया । ब्रह्मन् ! सपत्न्या रुक्मिण्या मां रूपेणाऽधिकां कुरु ॥४३३|| मायाविप्रोऽप्युवाचैवं सुरूपा त्वं हि दृश्यसे । ईदृग् नाऽपरनारीणां रूपं पश्यामि कुत्रचित् ॥ ४३४ ॥ बभाषे सत्यभामाऽपि भद्र ! जल्पसि साध्विदम् । तथाऽपि रूपेऽनुपमां विशेषेण कुरुष्व माम् ॥४३५॥ सोऽप्यभाषत यद्येवं विरूपा भव सर्वतः । भवेद् रूपविशेषो हि वैरूप्ये सति मूलतः ||४३६|| किं करोमीति तत्पृष्ट उपादिशदिति द्विजः । शिरो मुण्डय मष्या च लिम्प देहमशेषतः ॥४३७॥ जीर्णखण्डस्यूतवासा भूत्वा भव ममाऽग्रतः । यथा लावण्यसौभाग्यश्रियमारोपयामि ते ॥ ४३८|| सा तदप्यर्थिनी चक्रे विप्रोऽप्येवमवोचत । बुभुक्षया पीडितोऽहमस्वस्थः किं करोमि तत्? ॥४३९॥
९९
१. भामया खं - १ - २ । २. द्वारिका० खं. २ । ३. आख्याच्च खं. २ । ४. द्वारिका० खं० २, ला० । ५. द्वारिकायां खं- २, ला० । ६. तत्रस्थः ला० । ७. जान । ८. धनैः । ९. जात्य- अश्व व्यापारी । १०. तत्र वणिग्भ्यो० ता० सं० । ११. तृणसमूहस्तृण्या, तृणान् ला० सू० । १२. प्रद्युम्नः प्रत्यभाषिष्ट खं. १, ला० सू०, ता० सं० ला० ला०२० छा० । १३ इडिक्कमथा० ता० सं० छा० ला० २. पु० । स हिडिक्क खं. १-२, तदेडिक० सू० । महाजं - मेषम् १४. पतिता ला० । १५. भामान्तिके खं. २ । १६. द्वारि खं० २ । १७. दिष्टा च खं० १, २ ला० मु० ।
For Private Personal Use Only
Jain Education International
www.jainelibrary.org