________________
१००
कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यगुम्फितं
(अष्टमं पर्व
भामाऽपि तं भोजयितुं सूपकारान् समादिशत् । विप्रोऽप्येवमुपादिक्षद् भामायाः श्रवणान्तिके ॥४४०॥ रुडुबुडु रुडुबुडु इति मन्त्रस्त्वयाऽनघे । पुरतः कुलदेवीनां जप्यो मद्भोजनावधि ॥४४१।। स तथा कुर्वती तस्थौ भुञ्जानो द्विजकश्च सः । सर्वं रसवतीसारं विद्याशक्त्या समापयत् ॥४४२।। भामातो बिभ्यतीभिः स पयःकरकपाणिभिः । कथञ्चित् सूपकारीभिः समुत्तिष्ठेत्यभाष्यत ॥४४३।। अहमद्याऽपि नो तृप्तस्तृप्तिर्यत्र भविष्यति । तत्र यास्यामीति वदन् स मायाब्राह्मणो ययौ ॥४४४।। पबालसाधुवपुर्भूत्वा ततोऽगाद् रुक्मिणीगृहे । रुक्मिण्या ददृशे दूरात् स नेत्रानन्दचन्द्रमाः ॥४४५।। तस्याऽऽसनार्थं वेश्मान्तः प्रविवेश च रुक्मिणी । कष्णसिंहासने सोऽपि पूर्वन्यस्त उपाविशत् ॥४४६॥ आत्तासना निर्गता च तथाऽऽसीनमुदीक्ष्य तम् । बभाषे रुक्मिणी देवी विस्मयस्मेरलोचना ॥४४७।। कृष्णं वा कृष्णजातं वा विना सिंहासनेऽत्र हि । अन्यं पुमांसमासीनं सहन्ते न हि देवताः ॥४४८॥ स मायासाधुरप्यूचे प्रभावात् तपसो मम । न किञ्चिद्देवताः कर्तुमलंकीणविक्रमाः ॥४४९॥ आोस्तर्हि कुतो हेतोरिति पृष्टस्तयाऽथ सः । ऊचे तपो निराहारं षोडशाब्दी मया कृतम् ॥४५०॥ मातुः स्तन्यमपि मया न पीतं जन्मतोऽपि हि । तत्पारणार्थमत्राऽऽगां देहि किञ्चिद् यथोचितम् ॥४५१॥ रुक्मिण्युवाच न क्वाऽपि षोडशाब्दं तपः श्रुतम् । श्रुतं चतुर्थादारभ्य वत्सरावधिकं मुने ! ॥४५२॥ सोऽप्यूचे किं तवाऽनेन ? यद्यस्ति यदि दित्ससि । तद्देहि नो चेद् यास्यामि सत्यभामानिकेतनम् ॥४५३॥ साऽप्यवोचन्नाऽद्य किञ्चिदुद्वेगात् पाचितं मया । सोऽपि पप्रच्छ कि नाम तवोद्वेगस्य कारणम् ? ॥४५४॥ उवाच साऽपि तनयवियोगे कुलदेवताः । आराधयमियत्कालमहं तत्सङ्गमाशया ॥४५५।। । इदानी कुलदेवीनां दातुकामा शिरोबलिम् । ग्रीवायां प्राहरं यावत् तावद् देवीत्यवोचत् ॥४५६।। पुत्रि ! मा साहसं कार्षीः पुष्पिष्यति यदा तव । अकालेऽप्येष माकन्दस्तदा त्वत्सूनुरेष्यति ॥४५७॥ अयं मुकुरितश्चाऽद्य न च सूनुः समेति मे । तत्साधो ! पश्य होरां त्वं कदा मे पुत्रसङ्गमः ? ॥४५८।। सोऽप्यूचे रिक्तहस्तानां न होरा फलदायिनी । रुक्मिण्यपि प्रत्युवाच ब्रूहि तुभ्यं ददामि किम् ? ॥४५९॥ सोऽप्यवादीत् तपःक्षामकुक्षेः पेयां प्रयच्छ मे । उदयुत च पेयार्थं तद्रव्यान्वेषणेन सा ॥४६० भूयो बभाषे तां साधुरत्यन्तं क्षुधितोऽस्म्यहम् । द्रव्येन येन केनाऽपि पेयां कृत्वा प्रयच्छ मे ॥४६१।। प्राकृसिद्धैर्मोदकैः साऽथ पेयां कर्तुं प्रचक्रमे । तस्य विद्याप्रभावेण चलनः प्राज्वलन्न तु ॥४६२॥ खिन्नां प्रेक्ष्य स तामूचे पेया निष्पद्यते न चेत् । प्रीणयाऽतिक्षुधितं मां तदेभिरपि मोदकैः ॥४६३॥ साऽप्यूचे मोदका ह्येते कृष्णस्याऽन्यैः सुदुर्जराः । नर्षिहत्यां करिष्यामि दत्त्वैतान् भवते मुने ! ॥४६४|| सोऽप्यभाषिष्ट तपसा न मे किमपि दुर्जरम् । सा साशङ्का ततस्तस्मायेकैकं मोदकं ददौ ॥४६५॥ दत्तान् दत्तान् शीघ्रमेव भुञ्जानं तं तु मोदकान् । सस्मिता विस्मिता सोचे महर्षे ! बलवानसि ॥४६६॥ पाइतस्तथा जपन्तीं तां भामामित्यवदन्नराः । फलादिरिक्तमारामं चके स्वामिनि ! कोऽपि ना ॥४६७|| तणाहान्निस्तुणांश्चके कोऽपि कोऽपि जलाशयान । निर्जलान् कोऽपि ते भानुमश्वेनोपाद्रवत् सुतम् ॥४६८।। श्रुत्वेति भामा पप्रच्छ क्व न स ब्राह्मणो हलाः!? । तद्दास्योऽपि यथावस्थमाचख्युस्तस्य चेष्टितम् ॥४६९।। ततो विषण्णा सामर्षा केशानयनहेतवे । दासी: पटलिकाहस्ताः प्राहिणोद् रुक्मिणी प्रति ॥४७०॥ ऊचिरे रुक्मिणी ताश्च केशानर्पय मक्षु नः । श्रीभामास्वामिनी ह्येवं समादिशति मानिनी ॥४७१।। मायासाधुः स तच्छ्रुत्वा तासामेव हि कुन्तलैः । भूत्वा पटलिकां भामासमीपं प्रजिघाय 'ताः ॥४७२॥ किमेतदिति भामोक्ता दास्य ऊचुर्न वेत्सि किम? । यादृशः स्वामिनि ! स्वामी परिवारोऽपि तादृशः ॥४७३॥
भामोद्भामो ततः प्रैषीन्नापितान् रुक्मिणीगृहे । तानेवाऽमुण्डयत् साधुः शिरस्त्वक्छेदपूर्वकम् ॥४७४।। १. सडूबुडू रुडूबुडू ला० । २. जाप्यो सं० की० पा. ला० ला० र० । ३. सहते खं० २, ला० सू० । ४. देवता खं० २, ला० सू०। ५. आगात् तर्हि खं० २ । ६. क्षीरम् । ७. उद्योगमकार्षीत् । ८. अग्निः । ९. संप्रेक्ष्य पा० । १०. दृष्ट्वा च सस्मिता खं० २ । ११. स: खं० २ । १२. अधिककोधा ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org