________________
षष्ठः सर्गः)
श्रीत्रिषष्टिशलाकापुरुषचरितम् ।
-
९५
धृतराष्ट्रः पर्यणैषीदष्टौ सुबलजन्मनः । गन्धारराज-शकुनेर्गान्धार्याद्याः सहोदराः ॥२७०॥ दुर्योधनादयस्तासु शतं सञ्जज्ञिरे सुताः । पाण्डोर्युधिष्ठिर-भीमा-ऽर्जुनाः कुन्त्यां तु नन्दनाः ॥२७१।। पाण्डोः पत्न्यां द्वितीयायां शल्यस्वसरि नन्दनौ । मद्रयामभूतां नकुल-सहदेवौ महाभुजौ ॥२७२।। ते पाण्डुपुत्राः पञ्चाऽपि शूराः पञ्चानना इव । खेचराणामप्यजय्या विद्याभुजबलोजिताः ॥२७३।।
अनज्येष्ठं विनीतास्ते दर्नीतिमसहिष्णवः । अचित्रीयन्त पञ्चाऽपि लोके लोकोत्तरैर्गुणैः ॥२७४॥ पाअन्येधुः काम्पील्यपुराद् द्रुपदस्य महीपतेः । आगत्य दूतो नत्वा च पाण्डुराजमदोऽवदत् ।।२७५॥ .
सुता द्रुपदराजस्य धृष्टद्युम्नस्य चाऽनुजा । चुलनीकुक्षिजाताऽस्ति द्रौपदी नाम कन्यका ॥२७६।। तस्याः स्वयंवरे सर्वे दशार्हाः सीरि-शाङ्गिणौ । दमदन्त-शिशुपालौ रुक्मी कर्णः सुयोधनः ॥२७७॥ अपरेऽपि हि राजानः कुमाराश्च महौजसः । राज्ञोऽऽहूताः प्रेष्य दूतान् गच्छन्तः सन्ति सम्प्रति ॥२७८॥ युग्मम् ।। एभिर्देवकुमाराभैः कुमारैः पञ्चभिः सह । तत्राऽऽगत्याऽलङ्करुष्व तं स्वयंवरमण्डपम् ॥२७९॥ तैः सुतैः पञ्चभि त्रैर्युक्तो बाणैरिव स्मरः । पाण्डुस्तदाऽऽगात् काम्पील्यं राजानोऽन्येऽपि चाऽऽययुः ॥२८०॥ द्रुपदेनाऽचिंतास्तत्र प्रत्येकमपि पार्थिवाः । स्वयंवरसदोऽध्यस्थुरन्तरिक्षमिव ग्रहाः ॥२८१॥ पाअथ स्नाता शुचिवेषा माल्या-ऽलङ्कारधारिणी । द्रौपद्यर्हन्तमर्चित्वा सखीभिः परिवारिता ॥२८२॥ रूपेणाऽमरकन्येवाऽऽगात् स्वयंवरमण्डपम् । सामानिकैरिव सुरैः कृष्णादिभिरलङ्कतम् ॥२८३।। तत्र सख्या नामग्राहं दर्श्यमानेष राजस । पश्यन्ती द्रुपदसुता प्रययौ यत्र पाण्डवाः ॥२८४।। सा सानुरागा चिक्षेप स्वयंवरणमालिकाम् । पञ्चानामपि कण्ठेषु युगपत् पाण्डुजन्मनाम् ॥२८५।। किमेतदिति साश्चर्यं तत्राऽभूद् राजमण्डलम् । यावत् तावच्चारणर्षिस्तत्र कश्चित् समाययौ ॥२८६।। द्रौपद्याः पञ्च भर्तारः किं नु स्युरिति राजभिः । कृष्णादिभिः सोऽनुयुक्तः समाचख्याविदं मुनिः ॥२८७।। पाइयं हि पञ्चपतिका प्राग्भवार्जितकर्मणा । भविष्यति किमाश्चर्यं कर्मणां विषमा गतिः ॥२८८।। तथा ह्यत्रैव चम्पायां पुरि विप्रास्त्रयोऽभवन् । सोमदेवः सोमभूतिः सोमदत्तश्च सोदराः ॥२८९॥ तेषां धान्य-धनाढ्यानामासन् पत्न्यः क्रमादिमाः । नागश्रीरथ भूतश्रीर्यक्षश्रीश्चेति नामतः ॥२९०॥ मिथः स्निग्धाश्च तेऽन्येधुर्व्यवस्थामिति चक्रिरे । वारवारेण भोक्तव्यं सर्वैरेकैकवेश्मनि ॥२९१।। तथैव कुर्वतां तेषां सोमदेवगृहेऽन्यदा । भोजनावसरे प्राप्ते नागश्रीः 'प्रगुणं व्यधात् ॥२९२।। तया विविधभोज्यानि पचन्त्या विविधं तदा । अजोनत्या कट्वलाबु विपच्य व्यञ्जनीकृतम् ॥२९३॥ एतत् कीदृग्जातमिति ज्ञातुमास्वादितं तया । अभोज्यमिति चाऽज्ञायि थूत्कृतं च तदैव हि ॥२९४।। संस्कृतं स्वादर्भिद्रव्यैरप्येतद्विविधैर्मया । कट्वेवेति विमृशन्ती विषण्णा तदगोपयत् ॥२९५।। तद्वर्जमपरैभौज्यैर्भोजयामास सा तदा । सकुटुम्बानपि पति-देवरान् गृहमागतान् ।।२९६॥ पतदा सुभूमिभागाख्य उद्याने समवासरत् । श्रीधर्मघोष आचार्यो ज्ञानवान् सपरिच्छदः ॥२९७।। शिष्यो धर्मरुचिस्तस्य मासक्षपणपारणे । सोमदेवादिषु गतेष्वागान्नागश्रियो गृहम् ॥२९८॥ एषोऽपि तोषितोऽनेन भवत्विति विमृश्य सा । अलार्बुव्यञ्जनं तस्मै नागश्रीर्मुनये ददौ ॥२९९।। सोऽप्यपूर्वं मया द्रव्यं लब्धमित्यभिचिन्तयन् । गत्वा दर्शयितुं पात्रं गुरुहस्ते समार्पयत् ॥३००। गुरुस्तद्गन्धमाघ्रायोवाचेदं भोक्ष्यसे यदि । तदा विपत्स्यसे वत्स ! तत्परिष्ठापयाऽऽश्विदम् ॥३०१॥ सम्यग्ज्ञात्वाऽपरं पिण्डं गृहीत्वा पारयेरिति । तेनोक्तः स बहिर्गत्वा शुद्धं स्थण्डिलमासदत् ॥३०२॥ तत्र पात्रात् तुम्बरसबिन्दुरेकोऽपतत् स्वयम् । म्रियमाणा अपश्यच्च तत्र लग्नाः पिपीलिकाः ॥३०३।। १. सुबलराजसुतस्य । २. गन्धारदेशाधिपशकुनेः अष्टौ भगिन्यः गान्धार्याद्याः पर्यणैषीत् । ३. कुन्त्यास्तु मु० र० । ४. शल्यनृपस्य भगिन्याम् । ५. स्वयंवरे तत्र सर्वे ला० । ६. राजाहूताः ला०१, पा० मु० । ७. ऽध्यष्ठ० ला० सू० । ८. ०णामरकन्याभाऽऽगात ला० पा० मु० । ९. पृष्टः । १०. बहुप्रकारेण सज्जम् । ११. अजानन्त्या खं० २ । १२. कटुतुम्बम् । १३. अलाबू० मु० र०।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org