________________
कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यगुम्फितं
(अष्टमं पर्व
तन्माता तु मयूरी सा रंसन्ती विरसस्वरम् । न मुमोच प्रदेशं तं पुत्रस्नेहनियन्त्रिता ॥२३५॥ ततस्तां लोक इत्यूचे कौतुकं ते नं पूर्यते । इयं वराकी म्रियते मयूरी, मुञ्च तत्सुतम् ॥२३६।। तद्राि साऽपि सकृपाऽमुञ्चत् षोडशमासिकम् । उद्यौवनं तत्र नीत्वा यतः स्थानादुपाददे ॥२३७|| बद्धं तेन प्रमादेन ब्राह्मण्या षोडशाब्दिकम् । कर्म स्वपुत्रविरहवेदनीयं महत्तरम् ॥२३८॥ पाअन्येधुर्दर्पणे तस्यौः पश्यन्त्याः स्वं विभूषितम् । मुनिः समाधिगुप्ताख्यो भिक्षार्थं प्राविशद् गृहे ॥२३९॥ भिक्षामस्मै प्रदेहीति तामूचे तत्पतिर्द्विजः । आहूतः केनचित्पुंसा तदैव स बहिर्ययौ ॥२४०॥ तया थुविंति कुर्वत्या जल्पित्वा परुषाक्षरम् । निर्वासितः स महर्षिभरं च पिहितं द्रुतम् ॥२४१॥ जुगुप्साकर्मणा तेन सप्तमेऽहनि साऽभवत् । सर्वांगीणगलत्कुष्टा विरक्ताऽग्नौ विवेश च ॥२४२॥ मृत्वा तत्राऽभवद् ग्रामे गर्दभी रजकस्य सा । भूयोऽपि मृत्वा तत्रैव ग्रामेऽभूद् गर्तसूकरी ॥२४३।। साऽपि मृत्वा शुन्यभवद् दग्धा साऽपि दवाग्निना । भावभेदेन मायुर्बद्ध्वा तत्र व्यपद्यत ॥२४४॥ पुरस्य भृगुकच्छस्य समीपे नर्मदातटे । दुर्गन्धा दुर्भागा कोणाभिधाऽभूद् धीवरात्मजा ॥२४५॥ मुक्ता पितृभ्यां तद्गन्धासहाभ्यां नर्मदातटे । उद्यौवना जनं नावोत्तारयामास साऽनिशम् ॥२४६।। दैवात् समाधिगुप्तर्षिः शीतौ तत्र चाऽऽययौ । कायोत्सर्गेण निश्यस्थान्निष्कम्पः साँनुमानिव ॥२४७॥ महात्मैष निशां सर्वां कथं शीतं सहिष्यते । विमृश्येत्याईचित्ता सा तं तृणैः प्रावृणोन्मुनिम् ॥२४८॥ व्यतीतायां विभावर्यां मुनिवर्यं ननाम सा । भद्रिकेत्यादिशद् धर्मं तस्यै सोऽपि महामुनिः ॥२४९॥ एष क्वाऽपि मया दृष्ट इति ध्यात्वा चिरं तया । पृष्टः स मुनिराचख्यौ तस्यास्तान् प्राक्तनान् भवान् ॥२५०|| भूयोऽप्यूचे महर्षिः स कृतसाधुजुगुप्सया । इह जाताऽसि दुर्गन्धा सर्वं कर्मानुसारि हि ॥२५१।। सा जातजातिस्मरणा जुगुप्सां प्राग्भवे कृताम् । तं मुनि क्षमयामास गर्हन्ती स्वं मुहुर्मुहुः ॥२५२।। साऽभूच्च श्राविका तेन मुनिना च कृपालुना । धर्मश्रीनामधेयाया आर्यिकायाः समर्पिता ॥२५३॥ सहैव विहरन्ती सा ग्रामे क्वाऽपि प्रयातया । धर्मश्रिया नायलस्य श्रावकस्य समर्पिता ॥२५४॥ एकान्तरोपवासस्था जिनपूजारता सदा । अनैषीद् द्वादशाब्दानि सा स्थिता नायलाश्रये ॥२५५।। सा कृतानशना मृत्वाऽच्युतेन्द्रस्य महिष्यभूत् । पञ्चपञ्चाशत्पल्यायुः प्रच्युत्याऽभूत् तु रुक्मिणी ॥२५६।। मयूरीपुत्रविरहदानादब्दानि षोडश । रुक्मिणी पुत्रविरहदुःखान्यनुभविष्यति ॥२५७|| पाश्रुत्वेति भगवन्तं तं नमस्कृत्य च नारदः । उत्पत्येयाय वैताढये मेघकूटाह्वये पुरे ॥२५८॥ दिष्ट्या तवाऽभवत् पुत्र इति जल्पंश्च नारदः । संवरेणाऽचितस्तस्य प्रद्युम्नश्च प्रदशितः ॥२५९॥ नारदोऽपि च तं दृष्टवा रुक्मिणीसदृशं सुतम् । सप्रत्ययः संवरं तमापृच्छ्य द्वारकां ययौ ॥२६०॥ कष्णादीनां स आचख्यौ पुत्रोदन्तमशेषतः । रुक्मिण्यास्तु लक्ष्मीवतीभववृत्तान्तपूर्वकम् ॥२६१।। ततश्च रुक्मिणी देवी भक्तितो रचिताञ्जलिः । सीमन्धरं भगवन्तं तत्रस्थाऽपि नमोऽकरोत् ॥२६२।। भविता षोडशाब्दान्ते सुतेन सह सङ्गमः । इत्याहतेन वचसा स्वस्था तस्थौ च रुक्मिणी ॥२६३।। ाइतश्च पूर्वं वृषभस्वामिनः कुरुरित्यभूत् । सुतो यस्याऽभिधानेन कुरुक्षेत्रमिहोच्यते ॥२६४।। कुरोः सुतोऽभवद् हस्ती यन्नाम्ना हस्तिनापुरम् । हस्तिभूपतिसन्तानेऽनन्तवीर्योऽभवन्नृपः ॥२६५।। तस्माच्च कृतवीर्योऽभूत् सुभूमश्चक्रभृत् ततः । ततोऽप्यसङ्ख्यभूपेषु शान्तनुः पार्थिवोऽभवत् ।।२६६।। गङ्गा सत्यवती चेति तस्याऽभूतामुभे प्रिये । गङ्गायामभवत् पुत्रो भीष्मो भीष्मपराक्रमः ॥२६७|| चित्राङद-चित्रवीयौँ सत्यवत्याः सतावभौ । अम्बिका-ऽम्बालिका-ऽम्बेति चित्रवीर्यस्य त् प्रियाः ॥२६८॥
तासां धृतराष्ट्र-पाण्डु-विदुरास्तनयाः क्रमात् । धृतराष्ट्रे न्यस्तराज्योऽभूत् पाण्डुम॑गयापरः ॥२६९।। १. कूजन्ती । २. तु ला० । ३. तस्यां पश्यन्त्यां मु० । ४. थुक्कातिकुर्वन्त्या मु० । ५. विरूपा खं० २ । ६. नाम्ना काणाऽभू० खं० १, सू० । ७. पर्वतः । ८. दयालुचित्ता । ९. मुनिः । १०. प्राकृतान् मु०, प्राकृतान् र० । ११. क्षामया० मु० र० । १२. शंवरे० खं० १-२, ला० । १३. शंवरं खं० १, ला० । १४. हस्तितोऽनेकभूपेष्वनन्तवीर्यो पु० सू० । १५. पत्न्यौ । १६. न्यस्तराज्ये मु० २० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org