________________
षष्ठः सर्गः)
श्रीत्रिषष्टिशलाकापुरुषचरितम् ।
च्युत्वा सुदर्शना साऽपि भवं भ्रान्त्वा च भूरिशः । कनकप्रभराजस्य चन्द्राभेति महिष्यभूत् ।।२००॥ विष्वक्सेनो मधुं राज्ये यौवराज्ये च कैटभम् । निधाय व्रतमादाय ब्रह्मलोकमुपागतः ॥२०१।। वशीकृताशेषभुवोर्मधु-कैटभयोस्तयोः । पल्लीपतिश्छलात् श्वेव भीमो देशमुपाद्रवत् ॥२०२॥ मधः प्रतस्थे तं हन्तुं मार्गे वटपरेऽथ सः । अभ्यचितो भोजनाद्यैः कनकप्रभभूभुजा ॥२०३॥ स सेवक: स्वामिभक्त्या पत्न्या चन्द्राभया समम् । उपतस्थे भोजनान्ते प्राभृतेन मधुं नृपम् ॥२०४।। मधुं प्रणम्य चन्द्रामा भूयोऽप्यन्तःपुरं ययौ । तदैवाऽऽदित्सति मधुः कामार्तस्तां बलादपि ॥२०५।। तदा निषिद्धोऽमात्येन ययौ मधुनपोऽग्रतः । भीमं पल्लीपति जित्वा निवृत्तस्तत्र चाऽऽययौ ॥२०६।। कनकप्रभराजेन भूयोऽपि मधुरर्चितः । उवाच प्राभृतैस्तेऽलं चन्द्राभैव ममाऽर्प्यताम् ॥२०७॥ याच्यमानोऽपि कनकप्रभस्तां न ददौ यदा । तदाऽऽच्छिद्यापि चन्द्राभां निनाय स्वपुरे मधुः ।।२०८।। पपात मूर्छितः पृथ्व्यां विधुरः कनकप्रभः । उत्थाय विललापोच्चैरुन्मत्त इव चाऽभ्रमत् ॥२०९।। पाव्यवहारे सहाऽमात्यैस्तस्थौ मधनपोऽन्यदा । तन्निर्णयमकृत्वाऽपि चन्द्राभासदनं ययौ ॥२१०॥ चिरायितं किमद्येति पृष्ठश्चन्द्राभया मधुः । पारादारिकवादेऽस्थामहमद्येत्यवोचत ॥२११॥ तं स्मित्वोवाच चन्द्राभा स पूज्य: पारदारिकः । मधुरूचे कथं पूज्यो ? निग्राह्याः पारदारिकाः ॥२१२॥ भूयोऽप्युवाच चन्द्राभा यद्येवं न्यायनिष्ठुरः । आत्मानं किं न जानीषे प्रथमं पारदारिकम् ? ॥२१३॥ तच्छ्रुत्वा प्रतिबुद्धः स लज्जितोऽस्थादथाऽऽययौ । गायन्नृत्यन् राजमार्गे वृतोऽभैः कनकप्रभः ॥२१४|| दध्यौ तं प्रेक्ष्य चन्द्राभा मद्वियोगे दशामिमाम् । मत्पतिः प्राप्तवानेष धिग् मां परवशामिमाम् ॥२१५।। सा विचिन्त्येति मधवे तमायातमदर्शयत् । स्वेन दुष्कर्मणा तेन मधुरप्यन्वतप्यत ॥२१६॥ मधुर्बन्धुसुतं राज्ये न्यस्य कैटभसंयुतः । व्रतं जग्राह विमलवाहनस्याऽन्तिके गुरोः ॥२१७।। तौ तेपाते तपोऽत्युग्रं सहस्रान् शरदां बहून् । द्वादशाङ्गधरौ साधुवैयावृत्त्यकरौ सदा ॥२१८॥ विधायाऽनशने प्राप्ते विहितालोचनावुभौ । मृत्वाऽभूतां महाशुक्रे तौ सामानिकनाकिनौ ॥२१९॥ पाकनकप्रभराजोऽपि क्षुत्तृषादिभिरदितः । समासहस्रत्रितयं क्षपयित्वा व्यपद्यत ।।२२०॥ स नामतो धूमकेतुर्योतिष्केषु सुरोऽभवत् । ज्ञात्वाऽवधेः पूर्ववैरं मधुजीवं ममार्ग च ॥२२१।। मधुं महद्धिदेवत्वादपश्यन्नैव सोऽमरः । च्युत्वा प्राप्य च मर्त्यत्वं तापसः समजायत ।।२२२।। कृत्वा बालतपो मृत्वा सोऽथ वैमानिकोऽभवत् । मधुं महद्धि तत्राऽपि नैह्यभूद् द्रष्टुमीश्वरः ॥२२३॥ च्युत्वा ततोऽपि संसारं भ्रान्त्वा कर्मवशात् पुनः । धूमकेतुरिति नाम्ना ज्योतिष्केषु सुरोऽभवत् ॥ २२४॥ पाअत्राऽन्तरे मधुजीवो महाशुक्रात् परिच्युतः । रुक्मिण्या वासुदेवस्य महिष्या उदरेऽभवत् ॥२२५।। धूमकेतुः पूर्ववैराज्जातमात्रं तमर्भकम् । जहे जिघांसुश्चाऽक्षैप्सीद् दुष्टष्टङ्कशिलोपरि ॥२२६।। स्वप्रभावादक्षताङ्गः संवरेणाऽऽददे च सः । रुक्मिण्याः षोडशाब्दान्ते भविता तस्य सङ्गमः ॥२२७
एवं वियोगः पत्रेण रुक्मिण्याः केन कर्मणा ? । इति पृष्टो नारदेन प्रभुः सीमन्धरोऽवदत् ॥२२८|| पाजम्बूद्वीपस्य भरतक्षेत्रे मगधमण्डले । लक्ष्मीग्रामाभिधे ग्रामे सोमदेवोऽभवद् द्विजः ।२२९।। तस्य लक्ष्मीवती भार्या कदाऽप्युपवने गता । दृष्ट्वाऽस्पृशन् मयूराण्डं कुङ्कमाक्तेन पाणिना ॥२३०|| तत्स्पर्शेन तदण्डं तु वर्ण-गन्धान्तरं गतम् । मात्रा स्वमित्यजानत्या घटिकाषोडशोज्झितम् ॥२३१।। ततो वष्टाब्दतोयेन स्वभावस्थं तदण्डकम् । दृष्ट्वा सङ्गोपितं मात्रा कालेनाऽभून्मयूरकः ॥२३२॥ भूयो लक्ष्मीवती तत्राऽऽयाता तं केकिबालकम् । दृष्ट्वाऽतिरम्यं जग्राह रुदैत्यामपि मातरि ॥२३३।। स्वगृहे पञ्जरे न्यस्य प्रीणाति पान-भोजनैः । तं तथा साऽशिषन्नृत्यं यथा चारु ननर्त सः ॥२३४।। १. देवलोक खं० २, ता० सं० ला० पा० आ० । २. पल्लीपतिच्छलादेव मु० । ३. आदातुमैच्छत् । ४. प्राभृतेनालं० ला० । ५. न्याये। ६. चिरायातं खं० १, ला० सू० । ७. तमायान्त० मु० र० । ८. मधुर्धन्धुसुतम् मु० र० । ९. पीडितः । १०. वर्ष । ११. न ह्यमुं मु०। १२. त्यजानन्त्या मु० र० । १३. ०षोडशोज्झ्य तम् खं० १ । १४. ततोऽदृष्टाब्द० मु० । १५. रुदन्त्या० मु० र० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org