________________
कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यगम्फितं
.
(अष्टमं पर्व
जातिस्मरत्वं 'सम्प्राप्तः स्नुषा माता सुत: पिता । कथं वाच्यो मयेत्यासीज्जन्ममूकः स कैतवात् ॥१६७॥ न चेद् वां प्रत्ययस्तत् तं पृच्छतं मूकहालिकम् । वृत्तान्तमेनं स यथा मौनं मुक्त्वा ब्रवीति वाम् ।।१६८।। लोकेन सद्योऽप्यानीतः स मौनी तत्र हालिकः । उचे च मुनिना ब्रूहि प्राग्जन्म निजोदितः ॥१६९।। पुत्रः पिता पिता पुत्र ईदृक् प्रायो भवस्थितिः । प्राग्जन्मसम्बन्धभवां हियं मौनं च तत् त्यज ॥१७०॥ आत्मसंवादमुदितः स नमस्कृत्य तं मुनिम् । सर्वेषां शृण्वतामाख्यत् प्राग्जन्म स्वं तथैव हि ॥१७॥ प्राव्रजन् बहवस्तत्र प्रबन्ध्य स च हालिकः । हास्यमानौ जनैस्तौ तु विलक्षौ जग्मतर्गहम् ॥१७२॥ पाविप्रौ वैरायमाणौ तौ सासी हन्तुं तु तं मुनिम् । निश्यायातौ सुमनसा यक्षेण स्तम्भितौ क्षणात् ॥१७३।। प्रातश्च ददृशुर्लोकास्तन्माता-पितरौ च तौ । कन्दन्तौ सुमना यक्षः प्रत्यक्षमिदमभ्यधात् ॥१७४॥ एतौ मुनि जिघांसन्तौ दुर्मती स्तम्भितौ मया । प्रव्रज्यां यदि गृह्णीतस्तदा मुञ्चामि नाऽन्यथा ॥१७५॥ दुष्करः साधुधर्मो नौ धर्मं तु श्रावकोचितम् । करिष्याव इति ताभ्यामुक्ते मुक्तौ सुरेण तौ ॥१७६॥ तदादि चक्रतुस्तौ तु जिनधर्मं यथाविधि । नाऽर्हद्धर्मं तत्पितरौ प्रपेदाते मनागपि ॥१७७॥ अग्निभूति-वायुभूती तो मृत्वाऽभवतां सुरौ । षट्पल्यप्रमितायुष्को कल्पे सौधर्मनामनि ॥१७८।। च्युत्वाऽभूतां गजपुरेऽर्हद्दासवणिजः सुतौ । पूर्णभद्र-माणिभद्रौ श्रावको प्राग्भवक्रमात् ॥१७९॥ महेन्द्रो नाम तर्षिरन्यदा समवासरत् । अर्हद्दासः प्रवव्राज श्रुत्वा धर्मं तदन्तिके ॥१८०॥ पूर्णभद्र-माणिभद्रौ महेन्द्रं वन्दितुं मुनिम् । यान्तौ शुनिकां चण्डालं दृष्ट्वा सिष्णिहतुः पथि ॥१८१॥ गत्वा नत्वा महेन्द्रर्षि तौ पप्रच्छतुरेष कः । चण्डाल: का च शुनिका स्नेहो यदर्शनेन नौ ॥१८२॥ स आचख्यावग्निभूति-वायुभूतिभवे हि वा । पिता विप्रः सोमदेवोऽभवन्माताऽग्निलाभिधा ॥१८३॥ पिता स मृत्वा भरतेऽत्रैव शङ्खपुरेऽभवत् । जितशत्रुर्नाम नृपः परदाररतः सदा ॥१८४॥ मृत्वाऽग्निला तु तत्रैव पुरे शङ्कपुरेऽजनि । सोमभूतेब्राह्मणस्य रुक्मिणी नाम गेहिनी ॥१८५ तां स्वगेहाङ्गणगतां जितशत्रुनृपोऽन्यदा । व्रजन् ददर्श सद्योऽपि जज्ञे" कामवशेश्च सः ॥१८६॥ उत्पाद्याऽगः सोमभूतेस्तां राजाऽन्तःपुरे न्यधात् । सोऽग्निमग्न इवाऽस्थात् तु द्विजस्तद्विरहातुरः ॥१८७॥ जितशत्रुस्तया रन्त्वा सहस्रं शरदामथ । मृत्वा बभूव नरके त्रिपल्योपमजीवितः ॥१८८॥ ततश्च हरिण: सोऽभूद्धतो मृगयुणा पुनः । जज्ञे श्रेष्ठिसुतो मायी सोऽपि मृत्वाऽभवद् गजः ॥१८९॥ दैवाज्जातिस्मरः सोऽभूत् प्रायं कृत्वा मृतोऽहनि । अष्टादशे त्रिपल्यायुर्वैमानिकसुरोऽभवत् ॥१९०|| ततश्च्युत्वैष चण्डालः सोऽभूत् सा रुक्मिणी पुनः । भवं भ्रान्त्वाऽभूच्छुनीयं तेन वां स्नेह एतयोः ॥१९१॥ इति श्रुत्वा पूर्णभद्र-माणिभद्रौ तदाऽऽप्तया । जातिस्मृत्याऽबोधयतां चण्डालं शुनिकां च ताम् ॥१९२॥ ततो विरक्तश्चण्डालो मासं सोऽनशने स्थितः । मृत्वा नन्दीश्वरद्वीपे त्रिदशः समजायत ॥१९३।। प्रबुद्धा शुनिकों साऽपि विहितानशना मृता । तत्रैवाऽभूत् शङ्खपुरे राजपुत्री सुदर्शना ।।१९४।। पुनरप्यागतस्तत्र महेन्द्रर्षिः शशंस ताम् । पृष्टोऽर्हद्दासपुत्राभ्यां शुनी-चण्डालसद्गतिम् ॥१९५॥ ताभ्यां भूयोऽपि सा राजहिता प्रतिबोधिता । उपादाय परिव्रज्यां देवलोकमुपाययौ ॥१९६।। पापूर्णभद्र-माणिभद्रौ गृहिधर्मं तु तौ तदा । कृत्वा मृत्वा च सौधर्मेऽभूतां सामानिको सुरौ ॥१९७।। च्युत्वा च हास्तिनपुरे विष्वक्सेनस्य भूपतेः । मधु-कैटभनामानावभूतां तनयावुभौ ॥१९८॥
नन्दीश्वरसुरः सोऽपि च्युत्वा भ्रान्त्वा भवं चिरम् । अभूद् वटपुरे राजा नामतः कनकप्रभः ॥१९९।। १. स प्राप्त: खं० सू० । २. स्वकमादित: खं० १, । ३. असिना सहितौ । ४. सुमना यक्षः प्रत्यक्षं क्रन्दन्ताविदमभ्यधात् की। ५. तौ विपद्य बभूवतुः खं० १, सू० । ६. माहेन्द्रो मु० । ७. आवयोः । ८. युवयोः । ९. सोमदेवो द्वितीयभवे जितशत्रुनृपः । १०. अग्निला द्वितीयभवे रुक्मिणी । ११. जहे खं० २ । १२. कामवशंवद: मु० । १३. अपराधम्। १४. वर्षाणाम् । १५. इतश्च खं० २। १६. व्याधेन। १७. अनशनम् । १८. शुनकी र० । १९. चाण्डाल खं० १, ला०, चण्डालयोर्गतिम् सू० । २०. हस्तिना० खं० २, हस्तिन० मु०।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org