________________
षष्ठः सर्गः)
श्रीत्रिषष्टिशलाकापुरुषचरितम् ।
सोऽर्भश्चरमदेहत्वान्निरुपक्रमजीवितः । 'बहुपर्णाञ्चिते देशे निपपाताऽविबाधितम् ॥१३३॥ प्रातश्चाऽग्निज्वालपुरात् स्वपुरं गच्छतः सतः । यानं तत्राऽस्खलत् कालसंवरस्य खचारिणः ।।१३४॥ विमानस्खलने हेतुं खेचरेन्द्रः स चिन्तयन् । अधस्तादुत्तताराऽर्भं तं चाऽपश्यन् महाद्युतिम् ॥१३५।। विमानस्खलने हेतुर्महात्मा कोऽप्यसाविति । पत्न्यै कनकमालायै पुत्रत्वेनाऽऽपयत् सं तम् ॥१३६। स्वपुरे मेघकूटाख्ये स गत्वा खेचरोऽवदत् । मम पत्नी गूढगर्भाऽऽसीत् तनयं सुषुवेऽधुना ॥१३७।।
पुत्रजन्मोत्सवं कृत्वा संवरः सुदिनेऽकरोत् । दिशां प्रद्योतनात् तस्य प्रद्युम्न इति चाऽभिधाम् ॥१३८।। पाइतश्च कृष्णो रुक्मिण्योपेत्याऽप्रच्छि व ते सुतः । सम्प्रत्येव त्वया नीत इत्यूचे सा च विष्णुना ॥१३९।। प्रतारयसि किं नाथेत्युक्तः कृष्णस्तया पुनः । केनाऽपि च्छलितोऽस्मीति बहुधाऽन्वैषयत् सुतम् ॥१४०॥ सुतोदन्ते त्वसम्प्राप्ते रुक्मिणी मूच्छिताऽपतत् । रुरोद लब्धसंज्ञा तु तारं परिजनैः समम् ॥१४१|| यदवो यदुपत्न्यश्च तस्थुः सर्वेऽपि दुःखिताः । सत्यभामां विमुच्यैकां तदीयं च परिच्छदम् ॥१४२।। प्रभविष्णोर्न किं विष्णोः पुत्रोदन्तोऽधुनाऽपि हि । रुक्मिण्येवं ब्रुवाणाऽदाद् दुःखं कृष्णस्य दुःखिनः ॥१४३।। अशेषैर्यदुभिः सार्धं तत्रोद्विग्नस्य शाङ्गिणः । सभायां नारदोऽभ्यागात् किमेतदिति चावदत् ॥१४४॥ कृष्णो बभाषे रुक्मिण्या जातमात्रः करान्मम । हृतः केनाऽपि तनयः शुद्धि जानासि तस्य किम् ॥१४५।। उवाच नारदोऽत्राऽऽसीन्महाज्ञान्यतिमुक्तकः । स गतो मोक्षमधुना न ज्ञानी कोऽपि भारते ॥१४६।। सीमन्धरतीर्थकरः सर्वसंशयनाशनः । साम्प्रतं प्राग्विदेहेषु गत्वा प्रक्ष्यामि तं हरे ! ॥१४७॥ कृष्णेन यदुभिश्चान्यैरभ्याभ्यर्थितो ययौ । नारदस्त्वरितं तत्र यत्र सीमन्धरः प्रभुः ॥१४८।। स्थितं समवसरणे तं जिनेन्द्रं प्रणम्य सः । पप्रच्छ कृष्ण-रुक्मिण्योर्भगवन् ! क्व सुतोऽधुना? ॥१४९।। स्वाम्याख्यद् धुसदा धूमकेतुना प्राग्भवारिणा । हृतश्छलेन कृष्णस्य प्रद्युम्नो नाम नन्दनः ॥१५०॥ मक्तस्तेनोपवैताढ्यं शिलायां न त सोऽमत । हन्तं चरमदेहत्वात् स केनाऽपि न शक्यते ।।१५१।। प्रातश्च गच्छता दृष्टः संवरेण खचारिणा । पुत्रत्वेनाऽर्पितः पत्यै वर्धमानोऽस्ति सम्प्रति ॥१५२॥ कथं वैरं धूमकेतोस्तेनाऽभूत् पूर्वजन्मनि? । भूयोऽपि नारदेनैवं पृष्टः स्वामीत्यवोचत् ॥१५३।। पाजम्बूद्वीपस्य भरते मगधेषु महद्धिके । शालिग्रामेऽस्त्युपवनं ख्यातं नाम्ना मनोरमम् ॥१५४॥ तस्योद्यानस्याऽधिपतिर्यक्षोऽभूत् सुमना इति । अवात्सीत् तत्र च ग्रामे सोमदेव इति द्विजः ॥१५५॥ सोमदेवस्याऽग्निलायां पत्न्यामभवतां सुतौ । अग्निभूतिर्वायुभूतिश्चौभौ वेदार्थकोविदौ ॥१५६।। विद्यया विश्रुतौ तत्र द्वावपि प्राप्तयौवनौ । भुञ्जानौ विविधान् भोगांस्तस्थतुस्तौ मदोद्धरौ ॥१५७।। तस्मिन् मनोरमोद्यानेऽपरेधुर्नन्दिवर्धनः । आचार्यः समवासार्षील्लोकेनैत्य च वन्दितः ॥१५८॥ अग्निभूति-वायुभूती दृप्तौ त्वेत्यैवमूचतुः । शास्त्रार्थं वेत्सि चेत् कञ्चित् तद् भो ! वद सिताम्बर ! ॥१५९।। नन्दिवर्धनशिष्यस्तौ सत्योऽवोचत् कुतो युवाम् । समायातौ शालिग्रामादिति तावप्यशंसताम् ॥१६०॥ भूयः सत्योऽवदत् प्राप्तौ मानुष्यं भोः ! कुतो भवात् । इति पृच्छामि तद् ब्रूतं जानीथो यदि किञ्चन ॥१६१॥ ततस्तौ तस्थतुर्लज्जाधोमुखौ ज्ञानवर्जितौ । आख्यातुं तद्भवं सद्यो मुनिरेवं प्रचक्रमे ॥१६२॥ ग्रामस्याऽस्य वनस्थल्यां शृगालौ पललाशिनौ । युवां पूर्वभवेऽभूतमहो ! ब्राह्मणसत्तमौ ! ॥१६३।। क्षेत्रे कुटुम्बिनैकेन चर्मरज्ज्वादिकं निशि । मुंक्तं वृष्ट्याऽऽीकृतं तत् ताभ्यां सर्वमभक्ष्यत ॥१६४॥ अत्याहाराद् विपद्योभौ तौ युवां निजकर्मणा । सोमदेवद्विजसुतौ सञ्जाताविह जन्मनि ॥१६५॥ पाप्रभाते हालिक: सोऽपि सर्वं तत्प्रेक्ष्य भक्षितम् । गतः स्वगेहे कालेन मृत्वाऽभूत् स्वर्गुषासुतः ॥१६६।। १. बहुपर्णाचिते ता० सं० ला०, बहुपर्णचिते खं०१। २. नि:पपाता० मु० । ३. विद्याधरस्य । ४. सुतम् मु० र० । ५. बहुत्रा० खं० २, बहु चा० ला० । ६. ०न्वेषयत् खं० १-२, मु० र० । ७. समर्थस्य । ८. पूर्वविदेहेषु । ९. पृच्छामि मु० । १०. रत्यर्थाभ्यर्चितो खं० २ । ११. स्वाम्याख्याद् मु० र० । १२. गत्वैव० ख० १ । १३. किञ्चित् खं० २, ला० सू० । १४. प्राप्तं खं० १ । १५. तद्भूत खं० २ । तदवृत्तं जानीषे ला० । १६. सत्यो मु० । १७. पूर्वभवेऽभूता० ता० पा० ला० मु० । १८. पृक्तं ला० । १९. स्वपुत्रवधूसुतः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org