________________
कलिकालसर्वज्ञ श्रीहेमचन्द्राचार्यगुम्फितं
अथाऽरिष्टपुरे कृष्णः प्रययौ हलिना सह । हिरण्यनाभदुहितुः पद्मावत्याः स्वयंवरे ॥ ९९ ॥ राज्ञा हिरण्यनाभेन रोहिणीसोदरेण तौ । पूजितौ विधिवद्वीरौ जामेयाविति सम्मदात् ॥१००॥ हिरण्यनाभनृपते रैवतो नामतोऽग्रजः । प्रवव्राज समं पित्रा तीर्थे भगवतो नमः ||१०१ || तत्सुता रेवती रामा सीता बन्धुमतीति च । पुरा प्रदत्ता रामाय रोहिणीतनुजन्मने ॥ १०२ ।। सर्वेषां पश्यतां राज्ञां जह्रे पद्मावतीं हरिः । स्वयंवरागतान् राज्ञो युध्यमानान् जिगाय च ॥१०३॥ पत्नीयुतौ राम-कृष्णावीयतुर्द्वारकां ततः । कृष्णो गौरीगृहाभ्यर्णे गृहे पद्मावतीं न्यधात् ॥१०४॥ ||इतश्च पुष्कलावत्यां पुर्यां गान्धारनीवृति । नग्नजित्तनयश्चारुदत्तो नामाऽभवन्नृपः ॥१०५॥ गान्धारी नाम तस्याऽऽसीद् भगिनी सुभगाकृतिः । दत्तपत्रेव लावण्यसम्पदा खेचरीष्वपि ॥१०६॥ मृते पितरि दायादैश्चारुदत्तः पराजितः । दूतेन शिश्रिये कृष्णं शरण्यं शरणाय सः ॥ १०७ ॥ गन्धारेषु हरिर्गत्वा तद्दायादान् रणेऽवधीत् । चारुदत्तप्रदत्तां च तां गान्धारीमुपायत ॥ १०८ ॥ पद्मावतीगृहाभ्यर्णे तस्या वेश्म ददौ हरिः । इत्यभूवन्महिष्योऽष्टौ कृष्णस्य क्रमवेश्मगाः ||१०९|| ||रुक्मिण्याश्च गृहेऽन्येद्युरतिमुक्तर्षिरागतः । तं दृष्ट्वा सत्यभामाऽपि तत्रैवाऽऽशु समाययौ ॥११०॥ रुक्मिण्याऽप्रच्छि स मुनिः किं मे स्यात् तनयो न वा । भावी कृष्णसमः पुत्रस्तवेत्युक्त्वा ययौ च सः ॥ १११ ॥ सत्यभामा मुनिवचो मन्यमाना तदात्मगम् । उवाच रुक्मिणीं सूनुर्भावी कृष्णसमो मम ॥ ११२ ॥ प्रत्यूचे रुक्मिणी नर्षिवचनं फलति च्छलात् । एवं विवदमाने ते कृष्णाभ्यर्णमुपेयतुः ॥११३॥ तदा दुर्योधनो राजा तत्राऽऽयातः स्वसोदरः । भामयोचे मम सुतो जामाता ते भविष्यति ॥ ११४॥ रुक्मिण्याऽपि तथोक्तः स स्माऽऽह दास्ये सुतामहम् । तस्मै यं युवयोरेका तनयं प्रसविष्यते ॥११५॥ भामोवाच सुतो यस्याः प्रथमं परिणेष्यते । तद्विवाहेऽन्यया केशा देयास्तस्याः स्वकाः खलु ॥ ११६॥ साक्षिणः प्रतिभुवश्च रामपादा जनार्दनः । दुर्योधनश्चेत्युदित्वा स्वौको द्वे अपि जग्मतुः ॥११७॥ [अन्यदा रुक्मिणी स्वप्ने वलक्षवृषभस्थिते । विमाने स्वं समारूढं ददर्श प्रत्यबोधि च ॥११८॥ तदानीमेव च सुरो महाशुक्रान्महर्द्धिकः । प्रच्युतो रुक्मिणीदेव्या उदरे समवातरत् ॥११९॥ तं च स्वप्नं हरे रुक्मिण्याचख्यौ प्रातरुत्थिता । विश्वैकवीरस्ते सूनुर्भावीति व्याकरोच्च सः ॥१२०॥ तदा च दासी भामायाः स्वप्नव्याख्यां निशम्य ताम् । गत्वा शशंस भामायै तस्याः श्रवणदुःखदम् ॥१२१॥ साऽपि स्वप्नं कल्पयित्वोपेत्याऽऽख्याच्छार्ङ्गपाणये । हस्तिमल्लोपमो हस्ती स्वप्नेऽद्य ददृशे मया ॥१२२॥ . तत्कूटर्मिङ्गतैर्ज्ञात्वाऽप्यसौ मा कुप्यदित्यथ । व्याख्यात् कृष्णस्तव सुतो भविष्यति शुभः खलु ॥१२३॥ दैवात् तदाऽभवत् त गर्भोऽवर्धिष्ट चोदरम् । रुक्मिण्युत्तमगर्भत्वाद् यथावस्थोदरा त्वभूत् ॥ १२४ ॥ सत्यभामाऽन्यदा विष्णुमुवाच तव पत्न्यसौ । शशंस मायया गर्भं निरीक्षस्वोदरं द्वयोः ॥ १२५ ॥ तदा चाऽवर्धयत् कृष्णं दास्येका यत् सुतोऽधुना । सुषुवे रुक्मिणीदेव्या महात्मा काञ्चनप्रभः ॥ १२६ ॥ सत्यभामाऽपि तच्छ्रुत्वा विलक्षा क्रोधविह्वला । गृहं यान्त्येव सुषुवे भानुकं नामतः सुतम् ॥१२७॥ कृष्णोऽपि मुदितोऽगच्छदुक्मिण्याः सदने तदा । अर्वाक्सिंहासनासीन आनाय्याऽपश्यदात्मजम् ॥१२८॥ प्रद्योतयन् दिशः सर्वाः प्रद्युम्नोऽस्त्वेष नामतः । तमित्युल्लापर्यैन् बालं क्षणमस्थाज्जनार्दनः ॥ १२९ ॥ |[प्राग्वैराद् रुक्मिणीवेषो धूमकेतुः सुरस्तदा । एत्य कृष्णाद् गृहीत्वाऽर्भं प्रति वैताढ्यमभ्यगात् ॥ १३०॥ ययौ च भूतरमणोद्याने टङ्कशिलोपरि । दध्यौ चैनं किमास्फाल्य हन्मि नैवं हि दुःखभाक् ॥१३१॥ तन्मुञ्चामि शिलापृष्ठे निराहारः क्षुधातुरः । क्रन्दन्नेष म्रियेतेति तं तत्रोत्सृज्य सोऽगमत् ॥१३२॥
९०
१. विधिवत् पूजयामास पा० । २. ०भ्यर्णगृहे खं. २, सू० । ३. गान्धारभूषणे खं० १ सू० ला० र०, गान्धारदेशे । ४. दत्तं पत्रं प्रशस्तिपत्रं यस्याः सा । ५. गोत्रिभिः । ६. कृष्णस्य अष्टौ पट्टराज्ञ्यः (१. सत्यभामा, २. रुक्मिणी, ३. लक्ष्मणा ४. जाम्बवती ५. सुसीमा ६. गौरी ७. पद्मावती ८. गान्धारी) । ७. परिणेष्यति मु० । ८. स्वगृहम् । ९. शुभ्र । १०. ऐरावतोपमः । ११. चेष्टाभिः । १२. सत्यभामायाः १३. पूर्व । १४. ०पयित्वा स क्षण० ला । १५. बालकम् । १६. स मु० ।
Jain Education International
(अष्टमं पर्व
For Private Personal Use Only
www.jainelibrary.org