________________
षष्ठः सर्गः)
श्रीत्रिषष्टिशलाकापुरुषचरितम् ।
लीलोद्याने श्रीगृहे श्रीप्रतिमां सज्जनच्छलात् । हरिरुत्सारयामास निपुणैश्चित्रकारकैः ॥६६।। तत्रैत्य कृष्णः श्रीस्थाने स्थापयामास रुक्मिणीम् । देवीनामागमे तिष्ठेनिश्चलेत्यशिषच्च ताम् ॥६७|| गतोऽथ कष्णः स्वं स्थानं प्रप्रच्छे चेति भामया। कुत्र स्थाने त्वया मुक्ता विद्यते हन्त वल्लभा ॥६८॥ अस्ति सा श्रीगृहे मुक्तेत्याख्याते शाधन्वनो । सपत्नीभिः समं सत्यभामा श्रीसदनं ययौ ॥६९।। श्रीस्थानस्थां तत्र दृष्ट्वा रुक्मिणी साऽब्रवीदिति । अहो ! रूपं श्रियो देव्याः कौशलं शिल्पिनामहो ! ॥७॥ इत्युक्त्वा तां प्रणम्योचे लक्ष्मि ! देवि ! तथा कुरु । यथा नव्यां हरेः पत्नी रूपलक्ष्म्या जयाम्यहम् ॥७१।। एवं जाते च ते पूजां करिष्यामीत्युदीर्य सा । जगाम पार्वे कृष्णस्य प्रिया ते क्वेत्युवाच च ॥७२॥ सत्ययाऽथाऽपराभिश्च सहाऽगाच्छीगृहे हरिः । रुक्मिणी तत्र चोत्थाय कां नमामीत्यवोचैत ॥७३॥ कृष्णेन दर्शिता तस्याः सत्यभामाऽब्रवीदिति । कथं वन्दिष्यतेऽसौ मामज्ञानाद् वन्दिता मया ॥७४॥ हसित्वा हरिरप्यूचे को दोषः स्वसृवन्दने । सत्या विलक्षा गेहेऽगाद् रुक्मिणी नंतपूर्विणी ॥७५॥ रुक्मिण्यै महतीमृद्धिं ददौ कंसनिषूदनः । प्रेमपीयूषनिर्मग्नो रेमे च सहितस्तया ॥७६।। पाकृष्णेनाऽन्येधुरायातो नारदोऽभ्यर्च्य भाषितः । कि दृष्टं किञ्चिदाश्चर्यं भ्रमसि त्वं हि तत्कृते ॥७७|| नारदोऽप्यब्रवीद दृष्टं शण वैताढ्यपर्वते । जाम्बवान खेचरेन्द्रोऽस्ति शिवचन्द्रा च तत्प्रिया ॥७८।। विष्वक्सेनस्तयोः सूनुः कन्या जाम्बवती पुनः । रूपेण तस्याः सदृशी न काऽपि त्रिजगत्यपि ॥७९॥ क्रीडार्थं सा च गङ्गायां नित्यं हंसीव गच्छति । आश्चर्यभूतां तां दृष्ट्वा तवाऽऽख्यातुमिहाऽऽगमम् ॥८०॥ तच्छ्रुत्वा शाईभृत् तत्र ययौ सबलवाहनः । सखीवृतां जाम्बवती रममाणां ददर्श च ॥८१॥ यथोक्ता नारदेनेयं तथैवेति विदन् हरिः । अपाहरज्जाम्बवतीं जज्ञे च तुमुलो महान् ॥८२॥ खड्ग-खेटकभृच्चाऽऽगाज्जाम्बवान् क्रोधमुद्वहन् । जिग्येऽनाधृष्टिना चाऽऽशु निन्येऽभ्यर्णे च शाङ्गिणः ॥८३।। तां जाम्बवान् जाम्बवती ततश्चाऽदत्त शार्डिणे । अपमानाद् विरक्तस्तु प्रव्रज्यां स्वयमाददे ॥८४॥ जाम्बवत्सूनुना विषक्सेनेन सहितो हरिः । आदाय तां जाम्बवती जगाम द्वारकापुरीम् ॥८५॥ रुक्मिणीसदनाभ्यर्णे तस्या हर्म्यं ददौ हरिः । योग्यमन्यच्च सा त्वासीद्रुक्मिण्या सह सख्यभाक् ॥८६॥ अन्यदा सिंहलेशस्य श्लक्ष्णरोम्णोऽन्तिके गतः । निवृत्य चाऽऽगतो दूतः कृष्णायेति व्यजिज्ञपत् ।।८७।। नोऽभ्यनन्दत् तवाऽऽदेशं श्लक्ष्णरोमास्ति तस्य तु । कन्यका लक्ष्मणा नाम तवैवाऽर्हति लक्षणैः ॥८८।। द्रुमसेनेन सेनान्या रक्षिता स्नातुमर्णवे । सेदानीमाययौ सप्तरात्रं स्नास्यति तत्र च ॥८९॥ श्रुत्वेति सह रामेण कृष्णस्तत्र जगाम च । निहत्य तं च सेनान्यमगादादाय लक्ष्मणाम् ॥९०॥ उदुह्य लक्ष्मणां कृष्णो जाम्बवत्योकसोऽन्तिके | निदधे रत्नसदने प्रददौ च परिच्छदम् ॥११॥
स्खरीपुर्यां सुराष्ट्राराष्ट्रभूपतिः । राष्ट्रवर्धन इत्यासीद् विनया तस्य तु प्रिया ॥९२।। तयोश्च नमुचिः सूनुर्युवराजो महाभुजः । दुहिता तु सुसीमेति निःसीमा रूपसम्पदा ॥९३॥ नमुचि: सिद्धदिव्यास्त्र: कृष्णाज्ञां न ह्यमन्यत । स्नातुं प्रभासे सोऽन्येधुर्ययौ सह सुसीमया ॥९४।। निवेश्य शिबिरं तत्र स्थितं विज्ञाय तं हरिः । जघान सबलोऽभ्येत्य सुसीमामाददे च ताम् ॥१५॥ तोमप्युदुह्य गोविन्दो लक्ष्मणासदनान्तिके । मुमोच हर्ये तस्यै च प्रक्रियां महतीं ददौ ॥९६।।
राष्ट्रवर्धनराजोऽपि सुसीमायै परिच्छदम् । प्राहिणोत् कृष्णहेतोश्च विवाहाहँ गजादिकम् ॥९७॥ पामरौ वीतभयेशस्य गौरी कन्यामुपायत । हरिः सुसीमागेहस्योपान्तगेहे मुमोच च ॥९८॥ १. सज्जीकरणमिषात्, मज्जनच्छलात् पु० ला० २। २. धन्विना मु० र०. । ३. त्युवाच च मु० २ । ४. नतपूर्विणीम् पा० ला० सं० आ० । ५. निसूदन: खं० १, २, ला० सू० । ६. मत्कृते ता० सं० । ७. वदन् मु० । ८. शाङ्गिणः मु०र० । ९. अङ्गीकृतवान्। १०. इतश्चाय:खुरीपुर्याम् ला० की. ला० १, इतश्वायुस्खुरी० खं० २, ला० सू०, इतवाजस्तुरी० खं० १, इतश्चाजस्करीपुर्याम् ता० सं० पा० पु० । ११. प्रभासतीर्थे । १२. तामप्युद्वाह्य खं० १-२, ला० सू० मु० । १३. ऋद्धिपरिवारम् । १४. विवाहार्थम् ता० सं० मु० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org