________________
८८
कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यगुम्फितं
(अष्टमं पर्व
पाकृष्णोऽपि सह रामेण विभिन्नं रथमास्थितः । जगाम कुण्डिनपुरं स्वैरप्यनुपलक्षितः ॥३३।। तदा तया पितृष्वस्रा सखीभिश्च समावृता । नागपूजाकृते रुक्मिण्युद्यानभुवमाययौ ॥३४॥ अवतीर्य रथात् कृष्णो ज्ञापयित्वा स्वमादितः । नत्वा पितृष्वसारं तामित्यवोचत रुक्मिणीम् ॥३५।। त्वामागां दूरतोऽप्येष द्विरेफ इव मालतीम् । कृष्णोऽहं त्वद्गुणाकृष्टो रथमध्यास्स्व तन्मम ॥३६।। अनुज्ञाता पितृष्वस्रा तया तद्भावविज्ञया । आरुरोह रथं स्वान्तमिव कृष्णस्य रुक्मिणी ॥३७॥ ततः किञ्चिद् गते कृष्णे 'स्वदोषापोहहेतवे । पितृष्वसाऽन्यदास्यश्व तस्याः पूच्चक्रुरुच्चकैः ॥३८॥ रुक्मिन् ! रुक्मिन् ! स्वसा तेऽसौ प्रसह्यं ननु रुक्मिणी । हियते तस्करेणेव सरामेणाऽद्य शाङ्गिणा ॥३९॥ पाञ्चजन्यं सुघोषं च दध्मतुस्तौ च यादवौ । यादौराशिरिवाऽक्षुभ्यदभितो रुक्मिण: पुरम् ॥४०॥ पारुक्मी च शिशुपालश्च महाबाहू महाबलौ । महासैन्यावनुपदं चेलतू राम-कृष्णयोः ॥४१॥
दृष्ट्वा च चकिता रुक्मिण्युवाचाऽङ्कस्थिता हरिम् । क्रूरो महौजा मद्भ्राता शिशुपालश्च तत्समः ॥४२॥ तद्गृह्या बहवोऽन्येऽपि वीराः संवर्मिता इह । युवां त्वेकाकिनावत्र तेन भीताऽस्मि, का गतिः? ॥४३॥ हसित्वा हरिरप्यूचे मा भैषीः क्षत्रिया ह्यसि । केऽमी वराका रुक्म्याद्याः पश्याऽदः सुभ्र ! मद्बलम् ॥४४|| इत्युक्त्वा तत्प्रत्ययार्थमर्धचन्द्रेण शार्ङ्गभृत् । “तालालीमेकघातेन नलपतिमिवाऽच्छिदत् ॥४५॥ अङ्गुलीयकवजं चाऽङ्गुष्ठाङ्गुलिनिपीडनात् । दलयामास "निर्धष्टमसूरकणलीलया ॥४६॥ तेन पत्योजसाऽत्यन्तं रुक्मिणी प्रमदं दधौ । पद्मिनीव प्रभाताळतेजसा विकीनना ॥४७|| रामं बभाषे गोविन्दो गृहीत्वेमां वधू व्रज । अहमेतान् हनिष्यामि रुक्म्यादीननुधावतः ॥४८॥ रामोऽप्युवाच गच्छ त्वं हनिष्याम्यहमेव तान् । रुक्मिण्यप्यवदद् भीता सातव्यः सोदरो मम ॥४९॥ रामोऽपि कृष्णानुमतः प्रत्यपद्यत तद्वचः । योद्धं तत्रैव तस्थौ च जगाम तु जनार्दनः ।।५।। पाअथाऽऽयातं परबलं प्रोत्क्षिप्तमुशलो बलः । मन्थाचल इवाऽम्भोधि ममन्थाऽमन्थरो रणे ॥५१॥ वज्रेणेवाऽद्रय: पेतुस्तस्याऽयोऽग्रेण दन्तिनः । चूर्णसादभवंश्चाऽपि घटकर्परवद् रथाः ॥५२॥ सहैव शिशुपालेन व्यद्रवद् रुक्मिणश्चमः । वीरमानी पुना रुक्मी बलभद्रमदोऽवदत् ॥५३॥ अहो धष्टोऽसि गोपाल ! तिष्ठ तिष्ठाऽग्रतो मम । एषोऽहं ते हरिष्यामि गोपयःपानजं मदम् ॥५४॥ प्रतिपन्नं स्मरन् रामः सन्त्यज्य मुशलं शरैः । तस्याऽभाङ्क्षीद् रथं वर्माऽच्छिदद् रॉन् जघान च ॥५५॥ ततश्च रुक्मिणं रामो वध्यकोटिमुपागतम् । लूनकेशं क्षुरप्रेण कृत्वोवाच हसन्निति ॥५६।। मद्ध्वा बान्धव इति न वध्योऽसि प्रयाहि रे । मण्डोऽपि हि स्वपत्नीभिविलसाऽस्मत्प्रसादतः ॥५७॥ एवमुक्तश्च मुक्तश्च हिया नेयाय कुण्डिनम् । रुक्म्यस्थात् किन्तु तत्रैव न्यस्य भोजकटं पुरम् ॥५८।। पाकष्णोऽपि रुक्मिणीमचे प्रविशन द्वारकापुरीम् । देवीयं देवरचिता पुरी रत्नमयी मम ॥५९॥ सुरद्रुममयोद्यानेष्वस्यां सुभ्र ! मया सह । रंस्यसे त्वमविच्छिन्नसुखा सुरवधूरिव ॥६०॥ बभाषे रुक्मिणी कृष्णं पत्न्यस्तव महर्द्धयः । प्रदत्ताः पितृभिः सन्ति सहाऽऽयातपरिच्छदाः ॥६१॥ एकाकिन्यहमानीता बन्दीव भवता प्रिया । हसनीया यथा तासां न भवामि तथा कुरु ॥६२॥ करिष्ये त्वां तदधिकामित्युक्त्वा रुक्मिणी स्वयम् । सत्यभामागृहाभ्यर्णप्रासादेऽमुञ्चदच्युतः ॥६३।। गान्धर्वेण विवाहेन परिणीयाऽथ रुक्मिणीम् । स्वच्छन्दं रमयामास रजनी तां जनार्दनः ॥६४॥ पाजनप्रवेशं रुक्मिण्या सदनेक्षिदच्युतः । स्वप्रियां मे दर्शयेति तं भामोचे च साग्रहम् ॥६५॥ १. परावृता खं० २, सू० । २. भ्रमरः । ३. स्वदोषच्छादनाय । ४. हठात् । ५. पूरयामासतुः । ६. समुद्रः । ७. अर्धचन्द्रबाणेन । ८. तालवृक्षपङ्कितम् । ९. तृणविशेष, नालपतिमिवाः की० मु० । १०. मुद्रिकाहीरकम् । ११. रन्धितमसूरधान्यकणलीलया । १२. विकसितमुखा । १३. भ्राता खं० २ । १४. अमन्दः शीघ्रः । १५. मुशलेन । १६. दुद्राव मु० । १७. दृष्टोऽसि मु० । १८. हनिष्यामि ला र० । १९. हयान् । २०. बाणेन मुण्डनं कृत्वा । २१. प्राविशन् मु० । २२. द्वारिका० ला० । द्वारकां सू० । २३. न्यषेधत् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org