________________
॥ षष्ठः सर्गः ॥
तत्र कृष्णः सरामोऽपि दशार्हानंनुवर्तयन् । रममाणः सुखं तस्थौ यदुभिः परिवारितः ॥१॥ तन्वन्मुदं दशार्हाणां भ्रात्रोश्च हलि-कृष्णयोः । अरिष्टनेमिर्भगवान् ववृधे तत्र च क्रमात् ।।२।। ज्यायांसोऽपि लघूभूय चिक्रीडुः स्वामिना समम् । सर्वेऽपि भ्रातरः क्रीडाशैलोद्यानादिभूमिषु ॥३॥ स्वामी दशधनुस्तुङ्गः क्रमात् प्राप च यौवनम् । आजन्म कामविजयी तेनाऽविकृतमानस: ॥४॥ पितृभ्यां राम-कृष्णाद्यैर्धातृभिश्च दिने दिने । अyमानोऽपि कन्यानामुद्वाहं न ह्यमन्यत ॥५॥
राम-कृष्णौ च तौ भूपान् समाचक्रमतुर्बहून् । शकेशानाविव युतौ पर्यपातामुभौ प्रजाः ॥६।। पपर्यटन्नारदोऽन्येद्युः कृष्णौकसि समाययौ । कृष्णेन च सरामेण स्वयं विधिवदर्चितः ॥७॥
सोऽथ कृष्णान्तःपुरेऽगात् तत्र स्वं सत्यभामया । पश्यन्त्या दर्पणे नाऽचि व्यग्रत्वाद्विष्टरादिना ।।८।। ततः स निरगात् कुद्धो विरुद्धं चेत्यचिन्तयत् । केशवान्तःपुरैः सर्वैरचिंता नारदाः सदा ॥९॥ इयं तु पतिवाल्लभ्याद् रूप-यौवनगर्विता । अभ्युत्थानं दूरतोऽस्तु दृग्मात्रमपि न ह्यदात् ॥१०॥ ततोऽमूमतिरूपायाः सपत्न्याः प्राप्तिसङ्कटे । पातयामीति विमृशन् स ययौ कुण्डिनं पुरम् ॥११॥ पाताऽभूद् भीष्मको राजा तस्य पत्नी यशोमती । तयो रुक्मी सुतः कन्या रुक्मिणी रूपशालिनी ॥१२।। गतश्च नारदस्तत्र रुक्मिण्या च नमस्कृतः । वरोऽर्धभरतेशस्ते कृष्ण: स्तादित्युवाच च ॥१३॥ कृष्णः कोऽसाविति तया पृष्ट आख्यच्च नारदः । अद्वैतान् रूप-सौभाग्य-शौर्यादीन् कृष्णगान् गुणान् ॥१४|| तच्छ्रुत्वा रुक्मिणी कृष्णे सानुरागाऽभवत् क्षणात् । कृष्णमेवाऽभिलष्यन्ती तस्थौ मन्मथविह्वला ॥१५॥ पटे लिखित्वा तद्रूपं द्वारिकामेत्य नारदः । दर्शयामास कृष्णस्य सुधावतिनिभं दृशोः ।।१६।। दृष्ट्वा च कृष्णः पप्रच्छ नारदं भगवन्नियम् । का नाम देवताऽलेखि पटेऽस्मिन् भवता वद ॥१७॥ स्मित्वोचे नारदो नेयं देवता किन्तु मानुषी । कुमारी रुक्मिणी जामिः कुण्डिनेशस्य रुक्मिणः ।।१८।। तद्रूपविस्मितः कृष्णः सद्योऽपि प्रेष्य पूरूषम् । रुक्मिणी रुक्मिण: पार्वे ययाचे प्रियया गिरा ॥१९।। हसित्वोवाच रुक्म्येवं गोपो हीनकुलोऽप्यहो । मज्जामि याचते मूढः कोऽयं तस्य मनोरथः ॥२०॥ दास्ये मैथुनिकायाऽमूं शिशुपालाय भूभुजे । उचितो ह्यनयोर्योगो रोहिणी-शशिनोरिव ॥२१॥ इति श्रुत्वा स दूतोऽपि तद्वाचं परुषाक्षराम् । आँगम्य कथयामास स्वामिने पीतवाससे ॥२२।। पतं च व्यतिकरं ज्ञात्वा नीत्वा रहसिं रुक्मिणीम् । ऊचे पितृष्वसा धात्री गिरा प्रेमपवित्रया ॥२३॥
शैशवे त्वां ममाऽङ्कस्थां प्रेक्ष्यर्षिरतिमुक्तकः । आख्याद् यदग्रमहिषी कृष्णस्यैषा भविष्यति ॥२४॥ कथं कृष्णः परिज्ञेय इति पृष्टस्तु सोऽवदत् । ज्ञेयः कृष्णोऽपराम्भोधौ द्वारकासन्निवेशनात् ॥२५।। कृष्णाय याचमानायाऽप्यसि दत्ता न रुक्मिणा । शिशुपालाय किन्तु त्वं प्रदत्ता दामघोषये ॥२६।। रुक्मिण्यूचे किमृषीणां विसंवदति भाषितम् । प्रातःस्तनितमब्धानां किं वा भवति निष्फलम् ॥२७॥ पाकृष्णेऽभिलाषां रुक्मिण्या ज्ञात्वैवं सा पितृष्वसा । सद्यः प्रच्छन्नदूतेन कृष्णायैवमजिज्ञपत् ॥२८॥ माघमासे सिताष्टम्यां नागपूजामिषादहम् । रुक्मिण्या सह निर्गत्य यास्याम्युद्यानवीथिकाम् ॥२९॥
आगन्तव्यं त्वया तत्र रुक्मिण्या चेत् प्रयोजनम् । अन्यथा शिशुपालोऽमूं परिणेष्यति मानद ! ॥३०॥ पाइतश्च शिशुपालः स आहूतस्तेन रुक्मिणा । उद्वोढुं रुक्मिणीमागात् ससैन्यः कुण्डिनं पुरम् ॥३१॥
तत्राऽऽयातं शिशपालं रुक्मिणीवरणोद्यतम् । ज्ञापयामास कृष्णाय नारदः कलिकौतुकी ॥३२।। १. अनुसरन् । २. बलदेव । ३. अरक्षताम् । ४. तत्रासीत् की. ला० । ५. मद्भगिनीम् । ६. विवाहाय । ७. आगत्य ला० मु० । ८. कृष्णाय । ९. एकान्ते । १०. पश्चिमसमुद्रे । ११. दमघोषपुत्राय । १२. प्रातः मेघानां गर्जितम् । १३. शिशुपालोऽयम् ता० सं० । १४. ०पालोऽपि खं० २ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org