________________
तृतीयः सर्गः)
श्रीत्रिषष्टिशलाकापुरुषचरितम् ।
तद् गृहाण रथं नाथ ! प्रसीदाऽनुगृहाण नः । देव्या सममिहाऽऽरोह क्षेमोऽध्वा स्वस्ति चाऽस्तु वः ॥४६९।। प्रधानपुरुषैरेवं प्रार्थ्यमानो मुहुर्मुहुः । दवदन्त्या सह नलो रथमारुह्य निर्ययौ ।।४७०।। एकवस्त्रां दवदन्ती दृष्ट्वा स्नानोद्यतामिव । नागर्यो रुरुदुर्बाष्पजलक्लेदितकञ्चकाः ॥४७१।। पागच्छंश्च पुरमध्येन हस्तपञ्चशतोन्नतम् । ददशैकं नलः स्तम्भं दिग्गजालानसन्निभम् ।।४७२॥ राज्यभ्रंशोद्भवं दुःखमविदन्निव कौतुकात् । तं नलो लीलयोद्दधे कदलीमिव वारणः ।।४७३।। पुनरारोपयमास स्तम्भं तत्रैव तं नलः । उत्खोत-प्रतिरोपाख्यं शंसन्निव नृपव्रतम् ॥४७४।। दृष्ट्वा च नागरा: प्रोचुर्नलस्याहो ! महद्बलम् । व्यसनं बलिनोऽप्यस्य प्रमाणं नियतिः खलु ॥४७५।। क्रीडतोऽस्य नगोद्याने कूबरेण समं पुरा । महर्षिराजगामैको ज्ञानरत्नमहानिधिः ॥४७६। स आख्यद् भाव्यसौ योम्यभरतार्धपतिर्नल: । पूर्वस्मिन् जन्मनि मुनेः क्षीरदानप्रभावतः ॥४७७।। पुरीमध्ये महास्तम्भं हस्तपञ्चशतोन्नतम् । चौलयिष्यति योऽवश्यं भरतार्धपतिः स हि ॥४७८।। द्वयं संवाद्यभूदेतद् भरतार्धपतिर्नलः । स्तम्भश्च चालितोऽनेन दृष्टः स्वैरेव लोचनैः ॥४७९।। नले जीवति न ह्यन्य: कोशलोयां महीपतिः । भावीति यत् त्ववादीत् स विसंवादि बभूव तत् ॥४८०॥ वाग् दृष्टप्रत्यया तस्य भवित्री नाऽन्यथाऽथवा । किं ज्ञायते यदि पुनर्न नन्दिष्यति कूबरः ? ॥४८१।। कदाचित् स्याद् यदि पुनर्नल एवात्र भूपतिः । नलस्य पुण्यश्लोकस्य सर्वथा पुण्यमेधताम् ॥४८२॥ एवं लोकवचः शृण्वन् पुरी तत्याज कोशलाम् । रुदाँ दवदन्त्याऽत्रैः स्नाप्यमानरथो नलः ॥४८३।। अभ्यधान्नैषधिः पत्नी क्व यामो देवि ! सम्प्रति ? । न हि स्थानमनुद्दिश्य प्रवृत्तिश्चेतनावताम् ॥४८४|| वैदर्युवाच दर्भाग्रतीक्ष्णधीर्देव ! गम्यताम् । कुण्डिने तत्र मे तातोऽतिथीभूयाऽनुगृह्येताम् ॥४८५।। तथैवाऽथ नलादिष्टः सव्येष्ठा प्रेरयन् हयान् । आशिश्रायाऽऽश्रयो भक्तेर्दिशं कुण्डिनमण्डिताम् ।।४८६।। व्याघ्रघूत्कारघोराद्रिगुहामुरगदारुणाम् । दुःश्वापदशताकीर्णा सङ्कीर्णा भिल्ल-लुब्धकैः ॥४८७॥ सिंहमारितवन्येभदन्तदन्तुरभूतलाम् । क्रीडास्थानं यमस्येव नलः प्रापदथाऽटवीम् ॥४८८।। युग्मम् ।।
आकर्णाकृष्टकोदण्डान् प्रचण्डानभिसर्पतः । यमदूतोपमान् भिल्लान् गच्छन्नग्रे ददर्श सः ॥४८९।। भिल्लास्ते ननृतुः केऽपि पानगोष्ठीपरा इव । केऽपि चाऽ वादयन् शृङ्गमेकदन्तद्विपोपमाः ॥४९०।। केचित् कलकलं चक्रू रङ्गादाविव नर्तकाः । केचिच्च ववृषुर्बाणान् धारासारानिवाऽम्बुदाः ॥४९१॥ करास्फोटं व्यधुः केऽपि मल्ला इवनियोधिनः । सर्वे सम्भूय रुरुधुर्नलं श्वान इव द्विपम् ॥४९२।। त्रिभिविशेषकम् ॥ द्रुतं रथादथोत्तीर्य कोशादाकृष्य नैषधिः । अनर्तयन्मुष्टिरङ्गेऽसियष्टि नर्तकीमिव ॥४९३।। भीमजाऽपि रथं मक्त्वा बाहौ धत्वाऽवदन्नलम । क एतेषु तवाऽऽक्षेपः सिंहस्य शशकेष्विव ॥४९४। व्यापार्यमाणश्चैतेषु पशुमात्रेषु नैषधेः । हेष्यत्यसौ भरतार्धजयश्रीवासभूरसिः ॥४९५।। इत्युक्त्वा भीमतनया हुङ्कारानमुचन् मुहुः । मान्त्रिकी मण्डलस्येव स्वसमीहितसिद्धये ॥४९६।। मुच्यमानास्तु ते भैम्या हुङ्कारास्तत्प्रभावतः । विशन्तो भिल्लकर्णेषु तीक्ष्णायःसूचितां ययुः ॥४९७।। भिल्लास्तु ते ययुः सर्वे कान्दिशीका दिशो दिशम् । तौ तु तानभिधावन्तौ रथाद् दूरे बभूवतुः ॥४९८।। पाइतश्च भिल्लैरपरैरपजहे तयो रथः । कुर्यात् पुरुषकारः किं दैवें वक्रत्वमीयुषि ? ॥४९९।। तस्यामटव्यां भीमायां भैमीमादाय पाणिना । पाणिग्रहोत्सवं तस्याः स्मौरयन्नभ्रमन्नलः ॥५००।। वैदर्भी दर्भविद्धांहिक्षरद्रुधिरबिन्दुभिः । चकाराऽरण्यवसुधामिन्द्रगोपाङ्कितामिव ॥५०१॥ पट्टबन्धः पुरा मूर्धन्यभूद् भैम्यास्तदा पुनः । नलेन पादयोश्चक्रे दारं दारं स्वमंशुकम् ।।५०२।। १. उत्पाट्य प्रति० खं० २ । २. 'दक्षिण' लाटि० । ३. चलयि० खं० १, सू० । ४. ०द्यभूदेतै० खं० २ । ५. चलितो येन ता०सं०। ६. कोशलाया० पा० मु० । ७. स्यादिदं पुन० खं० १ । ८. रुदन्त्या मु० । ९. ०नुगृह्यत खं० २ । १०. ०दिष्टसव्येष्टा मु० । सव्येष्ठा सारथिः । ११. व्याघ्रपूत्कार० ला० २ । व्याघ्रबूत्कार० ता०सं०म० । १२. नियोगिनः खं०१। च योधिन: खं० २। द्वन्द्वयुद्धं कुर्वाणाः । १३. मुष्टिरेव रङ्ग-नाट्यशाला तत्र । १४. नैषधिः खं० १ । नैषधे ! ला० । १५. देववक्रत्व० ख० १-२ । १६. स्मर० खं० १, सू० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org