________________
५४
कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यगुम्फितं
(अष्टमं पर्व
भीमजां वीजयामास श्रान्तासीनां तरोस्तले । तालवृन्तीकृतनिजपरिधानाञ्चलो नलः ॥५०३।। नल: पलाशै: पालाशैः पुटं कृत्वाऽऽहृतं पयः । तामपीप्यत् पञ्जरस्थां शारिकामिव तर्षिताम् ॥५०४॥ पप्रच्छ भीमजाऽप्येवं कियैत्यद्याऽप्यटव्यसौ । इह द्विधैव भवितुं कम्पते हृदयं मम ॥५०५॥ नलोऽप्याख्यदटव्येषा योजनानां शतं प्रिये ! । पञ्चैव योजनान्यस्या गतान्याश्रय धीरताम् ॥५०६।। एवं वार्तयतोस्तस्मिन्नरण्ये गच्छतोस्तयोः । सूर्योऽस्तमाप, कथयन्निव सम्पदनित्यताम् ॥५०७|| पाअथाऽवचित्य निवृन्तीकृत्य चाऽशोकपल्लवान् । दवदन्त्याः कृते चके नलस्तल्पमनल्पधीः ।।५०८।। उवाच च प्रियां तल्पं शयित्वा त्वमलङ्करु । निद्रायाः समयं देहि दुःखविस्मृतिसख्यसौ ॥५०९॥ भैम्यभ्यधादितो देव ! पश्चिमायामदूरतः । अस्ति संवसथो मन्ये गवां हम्भारवं शृणु ॥५१०॥ किञ्चिदग्रे परिक्रम्य तदिहाऽऽवसथे वयम् । यामो यामवंती तत्र सुखसुप्तैनिगम्यताम् ।।५११।। नलः प्रोवाच हे भीरु ! तापसानामिहाऽऽश्रमः । अशुभोदर्कसम्पर्कास्ते च मिथ्यादृशः सदा ॥५१२॥ अपि तापससङ्गत्या सम्यक्त्वं हि विनाश्यते । मनोरमं क्षीरमिवाऽऽरनालेन कृशोदरि ! ॥५१३।। तदत्रैव सुखं शेष्व मा कृथास्तन्मुखं मनः । भवामि यामिकोऽहं ते सौविदल्ल इव स्वयम् ॥५१४।। तत्र पल्लवतल्पे स्वं संव्यानार्धमथाऽक्षिपत् । तूलिकां प्रच्छदवतीं प्रेयस्याः स्मरयन्नलः ॥५१५॥ वन्दित्वा देवमहन्तं स्मृत्वा पञ्चनमस्कृतिम् । वैदर्भी तत्र चाऽशेत गाङ्गे हंसीव रोधसि ॥५१६॥ पनिद्रामुद्रितनेत्रायां वैदा कोशलेश्वरः । चिन्तां चक्रे महावर्तमिव व्यसनवारिधेः ।।५१७॥ श्वशुरः शरणं येषां नराणां ते नराधमाः । दवदन्त्याः पितुर्गेहं तत्कथं यात्वसौ नल: ? ॥५१८॥ हृदयं वज्रसात्कृत्वा तत् त्यक्त्वा प्रेयसीमपि । गच्छामि स्वेच्छयाऽन्यत्राऽऽत्मानमादाय रङ्कवत् ॥५१९।। शीलप्रभावाद् भैम्याश्च न स्यात् कश्चिदुपद्रवः । शीलं सतीनां सर्वाङ्गरक्षामन्त्री हि शाश्वतः ॥५२०॥ इत्याकृष्य छुरी राजा स्वसंव्यानार्धमच्छिदत् । भैम्या वस्त्रे स्वरुधिरेणाऽक्षराणि लिलेख च ॥५२१।। 'विदर्भेष्वेष यात्यध्वा वटालङ्कतया दिशा । कोशलेषु च तद्वामस्तयोरेकेन केनचित् ।।५२२।। गच्छेः स्वच्छाशये ! वेश्म पितुर्वा श्वशुरस्य वा । अहं तु क्वाऽपि न स्थातुमुत्सहे "हे विवेकिनि !' ।।५२३॥ युग्मम् ।। अक्षराणि लिखित्वैवमशब्दं प्ररुदन्नलः । अग्रतो गन्तुमारेभे चौरवन्निभृतक्रमः ॥५२४।। प्रसुप्तां प्रेयसीं पश्यन्नलो वलितकन्धरः । तावदग्रे ययौ यावददृश्यत्वमियाय सा ॥५२५।। अचिन्तयच्च तां बालामनाथां शयितां वने । क्षुत्क्षामो भक्षयेद् व्याघ्रः सिंहो वा यदि का गतिः ॥५२६।। तदृष्टिविषयीकृत्य तां रक्षामि निशामहम् । प्रातः स्वरुचि यात्वेषा मया कथितयोः पथोः ॥५२७॥ युग्मम् ॥ तैरेव पादैर्वलितः पतितार्थः पुमानिव । दृष्ट्वा भूलुठितां जायां नल: पुनरचिन्तयत् ॥५२८॥ दवदन्त्येकवस्त्रेयमेका स्वपिति वर्त्मनि । अहो ! नलस्य शुद्धान्तमसूर्यपश्यमीदृशम् ।।५२९।। अहो ! मत्कर्मदोषेण कुलीनेयं सुलोचना । प्रविवेश दशामेव हताशः किं करोम्यहम् ? ॥५३०॥ मयि सत्यपि पार्श्वस्थेऽप्युन्मत्तवदनाथवत् । भूमौ शेते वरारोहा जीवत्यद्याऽपि ही नलः ॥५३१।। १. पलासपालाशैः खं० २। पलाशवृक्षस्य पत्रैः । २. कृत्वा द्रुतं मु० र० । ३. कियत्यन्थाऽप्य० पा० । ४. न्याधेहि खं० २, ला० । ५. अवचित्याथ खं० १-२, ला० सू० मु० । ६. ग्रामः । ७. रात्रिः । ८. ०श्रय: खं० २ । ९. अति ला० । १०. विनश्यति मु० र०। ११. स्मारयन्नत: खं० २ । १२. कथं यातु त्वसौ ला० । १३. ५१८ पद्यानन्तरं पु. प्रतावधिकोऽयं श्लोको दृश्यते
"यतः- उत्तमाः स्वगुणैः ख्याता मध्यमास्तु पितुर्गुणैः । अधमा मातुलैः ख्याताः श्वसुरैश्चाधमाधमाः ॥" १४. 'वज्रसदृशं' लाटि, । १५. "वडरुक्खि दाहिणि दिसिं जाइ विदभि मग्ग । वामदिसिं पुण कोसलहिं जहिं भावइ तिहां लग्ग" ॥ इति की० प्रतौ टि० । १६. हि खं० २ । १७. मन्दपदः । १८. क्षुत्क्षामां ला० । १९. कल्पितयोः खं० १ । २०. पतितधनः । २१. ०वेशाटवीमेव ला० । २२. श्रेष्ठा स्त्री।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org