Book Title: Trishashtishalakapurushcharitammahakavyam Parva 8 9
Author(s): Hemchandracharya, Ramnikvijay Gani
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text ________________
कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यगम्फितं
(अष्टमं पर्व
शनकैहारयन्न
। कबरस्तु
तत्राऽऽगा
द्यूतासक्तिनलस्याऽभूत् सदा न्यायवतोऽपि हि । चन्द्रस्याऽपि कलङ्कोऽस्ति क्व रत्नमनुपद्रवम् ? ॥४३७|| जयामि मेदिनीमेनामिति कराशयो हृदि । कूबरो रमयामास सर्वदा देवेनेर्नलम् ॥४३८।। रेमाते तो बहं कालं देवनातलीलया । सञ्चचार डमरुकग्रन्थिवच्च जयों द्वयोः ॥४३९।। अन्यदाऽनुगम-चर-बन्ध-मोक्षक्षमोऽपि हि । नलो नाऽलमभूज्जेतुं कूबरं दैवदोषेतः ॥४४०।। अनुकूलो नलस्याऽक्षः कोक्ष्यमाणोऽपि नाऽपतत् । तच्छाराँन् कूबरः क्रूरो मुहुर्मुहुरमारयत् ॥४४१।। ग्राम-कर्बट-खेटादि शनकैरियन्नलः । हीयमानोऽभवल्लक्ष्म्या ग्रीष्मे सर इवाऽम्भसा ॥४४२॥ विषसादाऽखिलो लोको नले द्यूतममुञ्चति । कूबरस्तु जहर्षोच्चैः पूर्यमाणसमीहितः ॥४४३।। नलानुरक्तो लोकश्च हा हा ! कर्तुं प्रचक्रमे । हाहाकारं तमाकर्ण्य तत्राऽऽगाद् दवदन्त्यपि ॥४४४॥ उवाच च नलं नाथ ! नाथामि त्वां प्रसीद मे । मुञ्च द्यूतं द्रोहको ते वैरिणाविव देवनौ ॥४४५|| वेश्यागमनवद् द्यूतं क्रीडामात्रं मनीषिणः । सेवन्ते नाथ ! न त्वेवमन्धङ्करणमात्मनः ॥४४६।। वरं राज्यं स्वयं देहि कुबरायाऽनुजन्मने । श्रीरत्ताऽस्मात् प्रसह्येति प्रवादं माऽऽत्मनः कृथाः ॥४४७|| उपार्जिता युद्धशतैर्दूतोंत्तीर्णा मही तव । दुनोति देवाऽत्यन्तं मामश्रोतोगतर्सिक्थवत् ॥४४८॥ तद्वाचं न हि शुश्राव ददर्शाऽपि न तां नलः । अध्यारूढो मदावस्थां दर्शमीमिव वारणः ॥४४९॥ पत्या भृशमवज्ञाता रुदैती दवदन्त्यथ । कुलामात्यादिकानूचे नलं द्यूतान्निषेधत ॥४५०।। तेषामपि वचो नैव प्रबभूव मनागपि । नैषधेरौषधमिव सन्निपातवतो भृशम् ।।४५१॥ नलोऽनलस एवाऽभूद् द्यूते हारितभूरपि । ततः सार्धं, दवदन्त्याऽप्यन्तःपुरमहारयत् ॥४५२॥ नलो हारितसर्वस्वस्ततश्चाऽमुञ्चदङ्गतः । परिविव्रजिषुरिव सर्वमाभरणादिकम् ॥४५३॥ कुबरोऽथ नलं प्रोचे मेह स्थास्त्यज मद्भवम् । पित्रा राज्यं तवाऽदायि ममाऽदायि तु देवनैः ॥४५४।। न लक्ष्मीर्दोष्मतां दूरे मा द्रोप्सीरिति तं ब्रुवन् । संव्यानमात्रोपात्तस्वः प्रचचाल नलस्ततः ॥४५५।। नलानुलग्नां भैमी तु भीमवाक् कूबरोऽवदत् । द्यूते जिताऽसि मा गास्त्वं मच्छुद्धान्तमलङ्करु ॥४५६।। अथाऽमात्यादयः प्रोचुः कूबरं तु दुराशयम् । न स्पृशत्यन्यपुंश्छायामपि भैमी महासती ॥४५७॥ अवरोधे निधा मेमा ज्येष्ठपत्नी हि मातृवत् । शिशवोऽपि पठन्त्येवं ज्येष्ठो भ्राता पिता यथा ॥४५८॥ कुरुषे चेत् प्रसदैवं तदा भीमसुता सती । करिष्यते भस्मसात् त्वां सतीनां नाऽस्ति दुष्करम् ॥४५९।। अनर्थं मा प्रपद्येथाः कोपयित्वा सतीमिमाम् । भर्तारमनुगच्छन्ती प्रत्युतोत्साह्यतामियम् ॥४६०॥ ग्राम-खेटादिदानेन पर्याप्तं ते नलं प्रति । तदर्पय सपाथेयं रथमेकं ससारथिम् ॥४६१॥ इत्युक्तो व्यसृजद् भैमी नलेन संह कूबरः । अर्पयामास च रथं सपाथेयं ससारथिम् ॥४६२॥ नलोऽवदन मया लक्ष्मीर्भरतार्धजयाजिता । क्रीडया त्यज्यते येन तस्य मे का रथस्पृहा ? ॥४६३।। पानलं प्रधानपुरुषाः प्रोचिरे चिरसेवकाः । वयमप्यनुयामस्त्वां कूबरस्तु निषेधति ॥४६४॥ तवाऽनुजस्त्वया दैत्तराज्यस्त्याज्यश्च नैष नः । अस्मिन् वंशे हि यो राजा स सेव्यो नः क्रमो ह्यसौ ॥४६५।। ततो नाऽऽगन्तुमर्हामस्त्वया सह महाभुज ! । भार्या मन्त्री सखा पत्तिर्दवदन्त्येव तेऽधुना ॥४६६॥ शिरीषसुकुमाराङ्गीमङ्गीकृतसतीक्रमाम् । भीमजां पादचारेण कथं नेष्यसि वर्त्मनि ? ॥४६७।।
मार्ग तपनसन्तापस्फुलिङ्गद्वालुकाकणम् । चुम्बेदेषा कथं पादैः कमलोदरसोदरैः ? ॥४६८॥ १. मेतामिति खं० २ । २. पाशैः । ३. बहुकालं मु० र० । ४. द्वयोर्जयः मु० । ५. दैवमोहितः मु० । ६. कांक्षमाणो० खं० २, ला० । ७. तच्छारीन् पा०आ०ला० । तच्छारीः । शारिः-शारः 'सोगठी' । ८. प्रार्थयामि । ९. श्रीर्गता० ला० । १०. द्यूतेन गता। ११. नासिकारन्ध्रगतान्नकणवत् । १२. ०सिक्थुवत् मु० । १३. ददर्श च न खं० २ । १४. गजस्य मदावस्थाप्रकारः । १५. रुदन्ती मु० । १६. प्रावर्तत ला० । १७. ०पातभृतो० खं० २ । १८, ०श्चामुच० खं० १-२, ला० सू० । १९. दर्प मा कार्षीः । २०. उत्तरीयवस्त्रमात्रधनः । २१. कूबरं तुबराशयम् खं० १-२, ला० सू० । २२. अन्त:पुरे । २३. मैनाम्, ता०ला० । २४. अलम् । २५. दत्तराज्यश्चैषोऽपि नैषधि: पु० ला० २ । दत्तराज्यस्त्याज्य श्च नैषधिः खं० १, सू० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282