________________
४
कलिकालसर्वज्ञ श्रीहेमचन्द्राचार्यगुम्फितं
||धनेनापि विसृष्टः सन् स दूतः शीघ्रमाययौ । आख्यच्च विक्रमेणाऽर्थं प्रतिपन्नं महीपतेः ॥८१॥ गत्वा नत्वा धनवत्यै लेखं हारं च सोऽर्पयन् । ऊचे तुभ्यं धनेनैतौ स्वहस्तलिखितार्पितौ ॥८२॥ गृह्णती पाणिपद्मेन हारमिन्दुकरामलम् । प्रस्फोट्य मुद्रां तं लेखं धनवत्यप्यवाचयत् ॥८३॥ 'यत् प्रमोदयते सूर्यः पद्मिनीं करपीडनात् । सोऽर्थः स्वभावसंसिद्धो न हि यांच्यामपेक्षते' ॥८४॥ वाचयित्वेति सा हृष्टा दध्यौ पुलकमालिनी । अन्वज्ञासीन् ममाऽर्थं स श्लोकार्थेनाऽमुना खलु ॥८५॥ अयं हि कण्ठे न्यासाय मुक्ताहारः सुधोज्ज्वलः । तेन स्वदोर्लता श्लेषसत्यङ्कारो ममाऽर्पितः ॥८६॥ एवं विचिन्त्य सा हारं निदधे कण्ठकन्दले । द्राक् पारितोषिकं दत्त्वा तं दूतं विससर्ज च ॥८७॥ [राजाऽथ तां दिने पुण्ये सहितां वृद्धमन्त्रिभिः । प्रजिघायाऽचलपुरे परमर्द्धिसमन्विताम् ॥८८॥ तां यान्तमशिषन् माता विमला विमलाशया । भूयाः सदा श्वसुरयोर्भक्ता पत्यौ च देववत् ॥८९॥ सपत्नीष्वप्यनुकूला दक्षिणा च परिच्छदे । पत्युः प्रसादेऽनुत्सिक्ताऽपमानेऽप्यविकार भाक् ||९०|| युग्मम् || एवमाद्यनुशिष्याऽश्रुमुखी सा तां कथञ्चन । व्यसृजत् पौनरुक्त्येनं परीरम्भं वितन्वती ॥९१॥ धनवत्यपि तां नत्वाऽध्यारुह्य शिबिकां वराम् । चचाल सपरीवारा छत्र - चामरमण्डिता ॥ ९२ ॥ * साक्रमेणाचलपुरे पौरैः साश्चर्यमीक्षिता । साक्षाद्धनकुमारस्य श्रीरिवाऽऽगात् स्वयंवरा ॥९३॥ अवात्सीद् बहिरुद्याने शिबिरं विनिवेश्य सा । ऋद्ध्या महत्या ववृते विवाहश्च शुभेऽहनि ॥९४॥ मुको नागवल्ल्येव तडितेव नवाम्बुदः । तया नवोढया रेजे धनोऽभिनवयौवनः ॥ ९५ ॥ रत्या स्मर इव स्वैरं धनवत्या समं धनः । रममाणोऽनयत् कालं कमप्येकमुहूर्त्तवत् ॥९६॥ शृप्रत्यक्ष इव रैर्वैन्तश्चलत्काञ्चनकुण्डलः । "से विक्रमयमाणोऽश्वं ययावुद्यानमन्यदा ॥९७॥ चतुर्ज्ञानधरं तत्र पवित्रितवसुन्धरम् । वसुन्धरं नाम मुनिं सोऽद्राक्षीद् देशनापरम् ॥९८॥ स प्रणम्य यथास्थानमुपविश्य च भक्तिभाक् । शुश्राव देशनां तस्मात् कर्णामृतरसायनम् ॥९९॥ आगाच्च विक्रमधनो धारिणी धनवत्यपि । सर्वेऽपि तं मुनिं नत्वा शुश्रुवुर्धर्मदेशनाम् ||१००|| देशनान्ते व्यज्ञपयत् तं विक्रमधनो नृपः । धने गर्भस्थिते माता स्वप्ने चूतद्रुमैक्षत ॥ १०१ ॥ तस्योत्कृष्टोत्कृष्टफलस्याऽन्यत्राऽन्यत्र रोपणम् । भविष्यति नवकृत्व इत्याख्यात् तत्र कोऽपि न ||१०२।। नववारारोपणस्य कथयाऽर्थं प्रसीद नः । कुमारजन्मनाऽप्यन्यज्ज्ञातं स्वप्नफलं मया ॥१०३॥ सम्यग्ज्ञानायोपयुज्य मनसा सोऽपि कुत्रचित् । दूरे स्थितं केवलिनं पृच्छति स्म समाहितः ॥ १०४॥ केवल्यपि हि विज्ञाय तत्प्रश्नं केवलश्रिया । अरिष्टनेमिचरितमाख्यन् नवभवात्मकम् ॥१०५॥ मनोऽवधिभ्यां स मुनिर्ज्ञात्वाऽऽख्यत् ते सुतो धनः । भवेनाऽनेनैष नवोत्कृष्टोत्कृष्टान् भवान् गमी ॥ १०६ ॥ भवे च नवमेऽरिष्टनेमिर्नाम्नेह भारते । द्वाविंशस्तीर्थकृद् भावी यदुवंशसमुद्भवः ॥ १०७॥ श्रुत्वा च तन्मुनिवचः सर्वे मुमुदिरेतराम् | जिनधर्मे च सर्वेषां भावोऽभूद् भद्रकस्तदा ॥ १०८॥ तं नत्वा विक्रमो वेश्म ययौ सह धनादिभिः । विहारक्रमनिरतः सूरिरप्यन्यतोऽगमत् ॥१०९॥ [[ऋतूचिताभिः क्रीडाभिर्धनवत्या समं धनः । अन्वभूद् विषयसुखं दोगुन्दकें इवामरः ॥ ११० ॥
सोऽन्यदा मज्जनक्रीडां कर्तुं क्रीडासरस्यगात् । धनवत्या समं पल्या श्रीसपल्येव रूपतः ॥ १११ ॥ तत्राऽशोकतरोर्मूले शान्तो रस इवाऽङ्गवान् । घर्म - श्रम - तृषाक्रान्तः शुष्कतालोष्ठपल्लवः ॥११२॥
( अष्टमं पर्व
१. सोऽर्पयत् खं० २, ला० । २. धनेनैव खं० १ । ३. प्रार्थनाम् । ४. रोमाञ्चिता । ५. अर्हति कण्ठे न्यासं मे खं० १ । अयं हि कण्ठन्यासाय खं० २, ला० सू० मु० । ६. शिक्षामदात् । ७. उदारा । ८. परिवारे । ९. अगर्वा । १०. पौनरुक्तेन खं० २, ला० सू० मु० । ११. परि० पु० आ० मु० । 'आलिङ्गनं' लाटि० । १२. 'अभूत्' लाटि० । १३. पूगवृक्ष: । 'सोपारी' । १४. सूर्यपुत्रः । १५. धन: खेलयन् । १६. 'नरः ' लाटि० । १७. मनः पर्यवाऽवधिज्ञानाभ्याम् । १८. दोगंगुद खं० १ । दोगुन्दुग खं० २, ला० । १९. श्रीपल्येव स्वरूपतः खं० २ ।
२०.
मूर्त्तिमान् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org