________________
प्रथमः सर्गः)
श्रीत्रिषष्टिशलाकापुरुषचरितम् ।
स्फुटत्पादाब्जरुधिरसिक्तोर्वीको विमूर्छितः । धनवत्या मुनिः कोऽपि पतन् पत्युः प्रदर्शितः ॥११३।। युग्मम् ।। सम्भ्रमादभिसृत्योभौ मुनि तमुपचेरतुः । शिशिरैरुपचारैस्तौ चक्रतुश्चाऽऽप्तचेतनम् ।।११४॥ तं च स्वस्थं प्रणम्योचे धनो धन्योऽस्मि सर्वथा । कल्पद्रुम इवाऽवन्यां मया प्राप्तोऽसि सम्प्रति ॥११५।। पर्यन्तदेशे वसतामस्माकं त्वादृशैः समम् । संसर्गो दुर्लभश्छायाद्रुमैर्मरुनृणामिव ।।११६।। पृच्छ्यसे किन्तु भगवन्नवस्थेयं कुतोऽभवत् ? । न चेत् ते जायते खेदो न गोप्यं चाऽस्ति शंस तत् ॥११७|| पासोऽब्रवीद् भववासेन खेदो मे परमार्थतः । खेदस्त्वेष शुभोदर्को विहारक्रमसम्भवः ॥११८॥ नामतो मुनिचन्द्रोऽहं गुरु-गच्छेन संयुतः । पुरोऽचलं विहारेण साधूनां नैकतः स्थितिः ॥११९॥ सार्थाद् भ्रष्टोऽन्यदाऽरण्ये दिङ्मोहीतस्ततो भ्रमन् । इहाऽऽगां क्षुत्तृषाक्रान्तो मूच्छितश्चाऽपतं भुवि ॥१२०॥ ततः परं यद् भवद्भिः कृतं तेनाऽऽप्सचेतनः । भूयोऽभूवं महाभाग ! धर्मलाभोऽस्तु तेऽनघः ॥१२१॥ यथा क्षणान्नष्टसंज्ञोऽभूवं सर्वं तथा भवे । ईदृगेव ततो धर्मः करणीयः शुभैषिणा ॥१२२॥ इत्युदित्वा तदुचितं गृहिधर्मं जिनोदितम् । सम्यक्त्वमूलं तस्याऽऽख्यन् मुनिचन्द्रो मुनीश्वरः ॥१२३॥ धनवत्या समं सोऽथ मुनिचन्द्रमुनेः पुरः । गृहस्थधर्मं सम्यक्त्वप्रधानं प्रत्यपद्यत ॥१२४॥ गृहे च नीत्वा तेनर्षिः पाना-ऽन्नैः प्रत्यलाभि सः । तत्रैव धर्मशिक्षार्थं कञ्चित्कालं च वासितः ।।१२५।। धनं मुनिरनुज्ञाप्य स्वगच्छेनाऽमिलत् पुनः । सम्यक् श्रावकधौं चाऽभूतां धनवती-धनौ ॥१२६।। तौ पुराऽपि मिथः प्रीतिभाजौ धनवती-धनौ । एकधर्मरतत्वाच्च विशेषेण बभूवतुः ॥१२७॥ पापित्राउन्तकाले स्वे राज्येऽभिषिक्तोऽथ स्वयं धनः । समं श्रावकधर्मेणाऽपालयद् विधिवन्महीम् ॥१२८॥ तस्याऽन्यदोद्यानपाल आख्यादुद्यानगह्वरे । आयातपूर्व्यायातोऽस्ति वसुन्धरमहामुनिः ॥१२९॥ गत्वा ववन्दे सद्यस्तं धनवत्यन्वितो धनः । देशनां चाऽशृणोत् तस्माद् भवाम्भोधिर्महातरीम् ॥१३०॥ .
भवोद्विग्नो धनो राज्ये सुतं धनवतीभवम् । जयन्तं नाम पुण्येऽह्नि न्यधत्त तदनन्तरम् ॥१३१॥ पावसुन्धराद् धनो दीक्षां धनवत्या सहाऽऽददे । धनभ्राता धनदत्तो धनदेवश्च पृष्ठतः ॥१३२॥ धनर्षिर्गुरुपादान्ते तपस्तेपे सुदुस्तपम् । गीतार्थः सन् गुरुणा 'चाऽऽचार्यके स्थापितः क्रमात् ॥१३३॥ प्रतिबोध्य बहून् राज्ञो दीक्षया चाऽनुगृह्य सः । धनवत्या सहाऽऽदत्त पर्यन्तेऽनशनं सुधीः ॥१३४॥ मासान्ते तौ विपद्योभौ कल्पे सौधर्मनामनि । शकसामानिकौ देवावजायेतां महद्धिकौ ॥१३५॥ धनबन्धू धनदेव-धनदत्तौ तथाऽपरे । अखण्डितव्रता मृत्वा सौधर्मे स्वर्गिणोऽभवन् ॥१३६॥ पाइतोऽत्र भरते वैताढ्योत्तर श्रेणिभूषणे । सूरतेजःपुरे सूर इति खेचरचक्यभूत् ॥१३७॥ तस्य विद्युद् घनस्येव विद्युन्मत्यभिधानतः । अतिमात्रप्रेमपात्रं बभूव सहचारिणी ॥१३८॥ आयुः प्रपूर्य सौधर्माद् धनजीवश्च्युतोऽथ सः । विद्युन्मत्याः सूरपल्या उदरे समवातरत् ॥१३९।। पूर्णे च समयेऽसूत देवी विद्युन्मती सुतम् । शुभलक्षणसम्पूर्ण पूर्णेन्दुमिव पूर्णिमा ॥१४०॥ - पुण्येऽहनि ददौ चित्रगतिरित्यभिधां पिता । तस्य सूनोरनूनेनोत्सवेनाऽऽनन्ददायिना ॥१४१।।
वर्धमान: क्रमेणोंपाचार्यं स सकलाः कलाः । जग्राह यौवनं चाऽऽप पुष्पं चाप इवाऽपरः ॥१४२॥ पाइतश्चाऽत्रैव वैताढ्य-दक्षिणश्रेणिवर्तिनि । अनङ्गसिंहो राजाऽभून्नगरे शिवमन्दिरे ॥१४३॥ १. दतिसृत्यो० खं० १ । २. उपचारं चक्रतुः । ३. दुर्लभच्छाया० मु० । ४. प्रच्छ्यसे मु० । ५. सार्थभ्रष्टो मु०, 'र' सत्कप्रतिषु च। ६. दिग्मोही० खं० १-२, ला० । ७. तेऽनघ ! 'र' स्वीकृतपाठे, खं०१, सू०म० । ८. समपद्यत ला०२, आ० । ९. प्रत्यलाभितः खं० २ । प्रतिलाभितः ला० । १०. स्वराज्ये खं० २ । ११. ०पालश्चाख्या० खं० २ । १२. पूर्वमायातः । १३. महानावम् । १४. गुरुणाऽऽचार्यकेऽपि स्था० खं० २ । सूरिपदे स्था० ला० । १५. च खं० २ । १६. अत्र 'प्रथमभवः सम्पूर्णः' इति लाटि. । १७. "द्वितीयो भवः' लाटि. । १८. ०मात्रं प्रेम० मु० । १९. क्रमेणाथोपाचार्यं खं० २ । २०. कामदेवः । २१. अनङ्गसेनो की० ला०२, आ० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org