________________
कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यगुम्फितं
(अष्टमं पर्व
पत्नी शशिमुखी तस्य नामतोऽभूच्छशिप्रभा । च्युत्वा धनवतीजीवस्तस्याः कुक्षाववातरत् ॥१४४।। समये सुषुवे पुत्रीं पवित्राङ्गी शशिप्रभा । जाता बहूनां पुत्राणां पश्चादित्यतिवल्लभा ॥१४५।। तस्या रत्नवतीत्याख्यां पिता चके शुभेऽहनि । 'सजलस्थानवल्लीव क्रमेण ववृधे च सा ||१४६॥ अचिरेणाऽपि जग्राह सा कलाः स्त्रीजनोचिताः । यौवनं चाऽऽसदत् पुण्यममूर्तं देहमण्डनम् ॥१४७।। अस्या योग्यो वरः कः स्यादिति पित्राऽन्यदा स्वयम् । पृष्टो नैमत्तिकः किञ्चिच्चिन्तयित्वाऽब्रवीदिति ॥१४८।। योऽसिरत्नं तवाऽऽच्छेत्ता यस्योपरि भविष्यति । सिद्धायतनवन्दारोः पुष्पवृष्टिः सुरैः कृता ॥१४९।। नरलोकशिरोरत्नं स ते रत्नवतीमिमाम् । परिणेता दुहितरमनुरूपसमागमात् ॥१५०॥ युग्मम् । ममाऽपि खड्गरत्नं य आच्छेत्ता सोऽद्भुतैकभूः । जामाता स्यादिति प्रीतो व्यसृजत् ज्ञानिनं नृपः ॥१५१॥ पाइतश्चाऽत्रैव भरते पुरे चक्रपुराभिधे । सुग्रीवनामा राजाऽभूदनुद्ग्रीवों गुणैरपि ॥१५२।। तस्य पत्न्यां यशस्विन्यां सुमित्रस्तनयोऽभवत् । पद्मनामा तु भद्रायामग्रजाऽवरजौ क्रमात् ॥१५३।। सुमित्रस्तत्र गम्भीरो विनयी नतर्वत्सलः । कृतज्ञोऽर्हच्छासनस्थः पद्मस्त्वपरथाऽभवत् ॥१५४।। अस्मिन् जीवति मत्सूनो राज्यं नैव भवेदिति । अभद्रधीर्ददौ भद्रा सुमित्रायोत्कटं विषम् ॥१५५।। विषेण मूच्छितस्तेन सुमित्रो न्यपतद् भुवि । विषवेगा: प्रससृपुर्लहर्य इव वारिधेः ॥१५६॥
आगात् तत्र च सुग्रीवः सम्भ्रमात् सह मन्त्रिभिः । अकारयन्मन्त्र-तन्त्रैश्चोपचारमनेकशः ॥१५७|| विषवेगोपशान्तिस्तु तस्य नाऽभून् मनागपि । भद्रा ददौ विषमिति प्रवादश्चोत्थितः पुरे ॥१५८॥ नंष्ट्वा च क्वाऽप्यगाद् भद्रा स्वदोषपरिशङ्किता । राजाऽप्यकार्षीत् पुत्रार्थे जिनाक़ शान्तिकादि च ॥१५९॥ स्मारं स्मारं सुतगुणान् व्यलपच्च निरन्तरम् । सामन्ता मन्त्रिणोऽन्येऽपि निरुपायास्तथैव च ॥१६०॥ पाअत्रान्तरे चित्रगतिः क्रीडया विचरन् दिवि । विमानेनाऽऽगतस्तत्राऽपश्यच्छोकातुरं पुरम् ॥१६१।। विषव्यतिकरं तं च ज्ञात्वोत्तीर्यविमानतः । सोऽभ्यषिञ्चत् तं कुमारं जलैविद्याभिमन्त्रितैः ।।१६२।। किमेतदिति पृच्छंश्च कुमारः स्फारितेक्षणः । उत्तस्थौ स्वच्छहदयो मन्त्रशक्तेहि नाऽवधिः ॥१६३।। राजाऽऽख्यात् ते विष मात्रा वैरिण्या भद्रया ददे । शमितं चाऽमुना वत्स ! सद्योऽकारणबन्धुना ॥१६४।। कृताञ्जलिः सुमित्रोऽपि प्रोचे चित्रगति प्रति । परोपकारबुद्धयैव मया ज्ञातं कुलं हि वः ॥१६५।। तथाप्यनुगृहाण त्वं स्वकुलाख्यानतोऽद्य माम् । महतामन्वयं श्रोतुं कस्य नोत्कण्ठते मनः ? ॥१६६॥ अथ चित्रगते: पारिपौश्विक: सचिवात्मजः । सर्वं शशंस वंशादि सर्वेषां श्रुतिशर्मदम् ॥१६७|| हृष्टोऽवोचत् सुमित्रस्तं विषदेन विषेण च । ममोपकृतमेवाऽद्य त्वया योगः कुतोऽन्यथा ? ॥१६८॥ नाऽदा जीवितमात्रं मे किं त्वहं रक्षितोऽस्मि च । प्रत्याख्यान-नमस्कारहीनमृत्यूत्थदुर्गतेः ॥१६९।। किं प्रत्युपकरोम्येष तवाऽतुल्योपकारिणः ? । प्रावृषेण्याम्बुदस्येव जीवलोककृपानिधेः ॥१७०।। इत्युक्त्वा स्थितवन्तं तं सुमित्रं मित्रतां गतम् । आपप्रच्छे चित्रगतिर्गन्तुं निजपुरं प्रति ।।१७१॥ सुमित्रोऽप्यब्रवीद् भ्रातः ! सुयशा नाम केवली । अत्राऽऽसन्नप्रदेशेषु विहरन्नस्ति सम्प्रति ।।१७२।। क्रमेण तमिहाऽऽयातं वन्दित्वा गन्तुमर्हसि । तदागमनकालं तदत्रैव परिपालय ।।१७३।। आमेत्युक्त्वा चित्रगतिः क्रीडंस्तेन समं सुखम
इवाऽनैषीत् कियतोऽपि हि वासरान् ॥१७४।। १. तस्य पत्नी शशिमुखी ला० । २. पश्चादत्यन्तवल्लभा मु० । ३. सज्जल० खं० २।४. आहर्ता-अपहर्ता । ५. सिद्धायतनं वन्दमानस्य । ६. नररत्नशिरो० खं० २ । ७. असिरत्नं खं० २ । ८. अद्भुतानामद्वितीयं स्थानम् । ९. अनुद्धतः । १०. तस्यां खं० १ । ११. यशस्वत्यां ला० ला० १, पु. खं० १, सू०म० । १२. सुभद्रायामग्र० ला० ला० १ । १३. ज्येष्ठ-लघुभ्रातरौ । १४. नयवत्सलः खं १, ला०, मु० । १५. विपरीतः । १६. प्रसत्रुवु० मु० । १७. आगाच्च तत्र ला० । १८. ०तन्त्रैरुपचारानने० ला० । १९. स्फुरिते० ला० । २०. स्वस्थ० खं० २ विना। २१. तं विषं ला० । २२. पार्श्वकः मु० 'र'स्वीकृतपाठश्च। २३. कर्णसुखदम् । २४. विषदात्रा । २५. जीवलोकं कृपानिधे ! मु० । २६. इत्युक्त्वोत्थितवन्तं ला० १ । २७. "तिष्ठ' इति लाटि. । २८. युगलिकः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org