________________
प्रथमः सर्गः)
श्रीत्रिषष्टिशलाकापुरुषचरितम् ।
उभौ जग्मतुरन्येद्युरुद्यानं तत्र चाऽऽययौ । सुयशाः केवलिमुनिः कल्पद्रुरिव जङ्गमः ॥१७५॥ स्वर्णाब्जस्थं वृतं देवैश्चिरेप्सितसमागमम् । 'तौ तं प्रदक्षिणीकृत्य वन्दित्वा च निषेदतुः ॥ १७६ ॥ श्रुत्वा सुग्रीवराजोऽपि मुनिमेत्याऽभ्यवन्दत । चकार देशनां सोऽपि मोहनिंद्रादिवामुखम् ॥१७७।। देशनान्ते चित्रगतिर्मुनिं नत्वेदमब्रवीत् । साध्वहं बोधितो धर्मं भगवद्भिः कृपापरैः ॥१७८॥ कुल क्रमागतमपि श्रावकत्वमियच्चिरम् । पुरो निधिमिवाऽभाग्यो नाऽज्ञासिषमहं प्रभो ! ॥ १७९ ॥ एषोऽतुल्योपकारी हि सुमित्रो येन मेँ प्रभो ! । ईदृग्धर्मोपदेष्टारो युष्मत्पादाः प्रदर्शिताः ॥ १८० ॥ इत्युदित्वा तस्य मुनेः पुरश्चित्रगतिः सुधीः । गृहिधर्मं प्रत्यपादि सम्यक् सम्यक्त्वपूर्वकम् ॥१८१॥ मुनिं प्रणम्य सुग्रीवः पप्रच्छ भगवन् ! क्व सौ ? । महात्मनोऽस्थ मत्सूनोर्विषं दत्वा ययाविति ॥ १८२ ॥ मुनिः शशंस सा नंष्ट्वा गताऽरण्ये मलिम्लुचैः । भूषणादिकमाच्छिद्य पल्लीभर्तुः समर्पिता ॥१८३॥ पल्लीशेन वणिक्पार्श्वे विक्रीता सा ततोऽपि हि । प्रणश्य यान्ती महता परिप्लुष्टा दवाग्निना ॥ १८४॥ रौद्रध्यानवती मृत्वा प्रथमे नरके ययौ । ततश्चोद्धृत्य चण्डालगृहिणी सा भविष्यति ॥ १८५ ॥ जाते गर्भे सपत्न्या च कलौ कर्त्तिकया हता । तृतीयं नरकं गत्वा तिर्यग्योनौ गमिष्यति ॥ १८६॥ इत्याद्यनन्तसंसारदुःखं साऽनुभविष्यति । सम्यग्दृष्टेर्भवत्सूनोर्विषदानजपाप्मना ॥ १८७॥
[ राजोचे भगवन् ! यस्य कृते सा कृतवत्यदः । सोऽत्र तिष्ठति तत्पुत्रः सैका तु नरकं गता । १८८।। धिग् धिक् तदेष संसारो राग-द्वेषादिदारुणः । आदास्येऽहं परिव्रज्यां तत्परित्यागकारणम् ॥१८९॥ अथ प्रणम्य राजानं सुमित्र इदमभ्यधात् । धिग् धिङ् मां मातुरीदृक्षकर्मबन्धनिबन्धनम् ॥ १९०॥ स्वामिंस्तदनुजानीहि प्रव्रजिष्यामि सम्प्रति । को वस्तुमिच्छेदीदृक्षे संसारेऽत्यन्तदारुणे ॥ १९९॥ इति ब्रुवाणं तनयं प्रतिर्षिध्याऽऽज्ञया नृपः । राज्ये निवेशयामास स्वयं तु व्रतमाददे ॥ १९२॥ समं केवलिना तेन सुग्रीवर्षिर्ययौ ततः । सहैव चित्रगतिना सुमित्रस्तु निजं पुरम् ॥१९३॥ भद्रापुत्राय पद्माय ग्रामान् सोऽदत्त कत्यपि । दुर्मतिस्तैस्त्वसन्तुष्टो निःसृत्याऽगात् स कुत्रचित् ॥ १९४॥ कथञ्चिदपि चाऽऽपृच्छ्य सुमित्रं नृपमन्यदा । पित्रोत्कण्ठितोऽगच्छत् पुरे चित्रगतिर्निजे || १९५ ।। देवपूजा-गुरूपास्ति-तप:- स्वाध्याय - संयमैः । स सदा व्यापृतः पित्रोरभूदत्यन्तशर्मणे ॥१९६॥ इतः सुमित्रभगिनीं कलिङ्गनृपगेहिनीम् । जहे रत्नवतीभ्राता कमलोऽनङ्गसिंहजः ॥ १९७॥ भगिनीहरणेनाथ सुमित्रं शोर्कैबाधितम् । अज्ञासीत् खेचरमुखात् तदा चित्रगतिः सुहृत् ॥१९८॥ अन्वेष्य 'जामिमानेष्याम्यचिरादिति खेचरैः । तमाश्वास्य चित्रगतिरुत्तस्थे स्वसृशुद्धये ॥ १९९ ॥ कैमलेन हता सेति प्रवृत्तिमुपलभ्य सः । ययौ सवार्भिसारेण नगरे शिवमन्दिरे ||२००|| 'कॅमलं तत्र कमलखण्डं द्विप इव क्षणात् । लीलयोन्मूलयामास शूरः सूर्रनृपात्मजः ॥ २०१ || क्रुद्धः सुतपराभूत्याऽनङ्गसिंहोऽथ सिंहवत् । सिंहनादं विदधानो दधावे सह सेनया ॥ २०२ ॥ विद्याबलात् सैन्यबलाद् दोर्बलाच्च तयोश्चिरम् । महान् रणः प्रववृते दारुणो द्युदामपि ॥२०३॥ अनङ्गो दुर्जयं ज्ञात्वा रिपुं जेतुमनाश्च तम् । देवतादत्तमस्मार्षीत् खड्गरत्नं क्रमागतम् ॥२०४॥ ज्वालाशतदुरालोकं द्विषल्लोंकान्तकोपमम् । कृपाणरत्नं तत्पाणावापपात क्षणादपि ॥२०५॥
१. तं त्रिः प्रद० ला० । २. मोहनिद्राभङ्गे प्रातः समानाम् । ३. कृपाकरैः ता० सं० । ४. हे प्रभो ! ला० । ५. भद्रा । ६. 'तस्करैः' ला०सूटि । ७. 'दग्धा' लाटि । ८. गले मु०; कलहे । ९. राज्ञोचे खं २, सू० । १०. निवसितुम् । ११. ०षिद्धाज्ञया खं० २ । १२. दुर्विनीतस्त्वस० पा० ला० १, आ० । दुर्नीतस्तैस्त्वस० खं० १-२, ला०सू० की.पु.छा.ला. २ । १३. पितृमातृमिलनाय । १४. शोकवार्षिकम् की० पु० । १५. 'लघुभगिनी' इति लाटि० । १६. कमलेनाहृता खं० १ । १७. सर्वसैन्येन । १८. ततः स कमलं तत्र पद्मखण्डमिव ला० । १९. शूर० खं० १; चित्रगतिः । २०. महारण: खं० २ । २१. दारणो खं० १ । २२. देवानामपि । २३. वैरिलोकानां यमसदृशम् ।
Jain Education International
For Private Personal Use Only
www.jainelibrary.org