________________
कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यगुम्फितं
(अष्टमं पर्व
कृपाणपाणिः स प्रोचे रे रेऽपसर बालक ! । पुरतस्तिष्ठतश्छेत्स्ये शिरस्ते 'बिसकाण्डवत् ॥२०६॥ ऊचे चित्रगतिश्चित्रमन्यादृगिव वीक्ष्यसे । बलेन लोहखण्डस्य धिक् त्वां स्वबलवर्जितम् ॥२०७॥ इत्युक्त्वा विद्यया ध्वान्तं विचक्रे तत्र सर्वतः । पुरःस्थमप्यपश्यन्तो द्विषोऽस्थुलिखिता इव ॥२०८॥ अथाऽऽच्छिदच्चित्रगतिस्तं खड्गं तत्कराद् द्रुतम् । द्राक् सुमित्रस्य भगिनी जग्राह च जगाम च ॥२०९।। क्षणान्तरेण चाऽनङ्गो जातालोको विलोकयन् । पाणौ कृपाणं नाऽपश्यत् पुरस्तान्न च तं द्विषम् ।।२१०॥ क्षणं विषादं स प्राप स्मृत्वा च ज्ञानिनो वचः । मत्खड्गहर्ता जामाता भावीति मुमुदे च सः ॥२११॥ कथं स ज्ञास्यते ? यद्वा सिद्धायतनवन्दने । ज्ञेयः कुसुमवृष्ट्येति विमृशन् स्वगृहं ययौ ॥२१२॥ पाअखण्डशीलां तां जामिं सुमित्रपृथिवीपतेः । नीत्वा समर्पयामास कृती चित्रगतिः स्वयम् ॥२१३॥ पुराऽपि हि भवोद्विग्नः सुमित्र: स्वविवेकतः । जातस्वस्रपहारादिवैधुर्यान्नितरामभूत् ॥२१४।। राज्यं न्यस्य सुते गत्वा सुयशोमुनिसन्निधौ । सुमित्रराट् चित्रगतेः समक्षं व्रतमाददे ॥२१५।। पापुरे चित्रगति: स्वेऽगात् 'सुमित्रस्त्वन्तिके गुरोः । किञ्चिदूनानि पूर्वाणि नवाऽधीते स्म बुद्धिमान् ॥२१६।। गुर्वनुज्ञां गृहीत्वैकः सुमित्रो विहरन् गतः । मगधेषु बहिर्गामात् कार्योत्सर्गेण तस्थिवान् ॥२१७॥ वैमात्रेयो भ्रमन् पद्मस्तत्राऽऽयातो ददर्श तम् । सर्वजीवहितं ध्यानस्थितं गिरिमिव स्थिरम् ॥२१८॥ आकर्णाकृष्टबाणेन हृदि पद्मो जघान तम् । स्वमातुर्मिलनायेव नरकाभिमुखः कुधीः ॥२१९।। धर्मभ्रंशो ममाऽनेन न कृतो निघ्नताऽपि हि । कर्मच्छेदसखित्वेन प्रत्युतैष हितावहः ॥२२०॥ अस्मै मया चाऽपकृतं राज्यं दत्तं न यत् तदा । तत् क्षाम्यत्वेष मे सर्वे क्षाम्यन्त्वन्येऽपि जन्तवः ॥२२१।। । एवं ध्यायन कृतप्रत्याख्यानः स्मृतेनमस्कृतिः । मृत्वा सुमित्रोऽभूद ब्रह्मलोके सामानिकः सरः प्रणश्य गच्छन् पद्मोऽपि दष्टः कृष्णाहिना निशि । विपद्य नारको जज्ञे सप्तम्यां नरकावनौ ॥२२३॥ पासुमित्रमृत्युना शोकं कृत्वा चित्रगतिश्चिरम् । जगाम सिद्धायतने यात्रां कर्तुं महामतिः ॥२२४॥
अमिलंस्तत्र यात्रायां बहवः खेचरेश्वराः । रत्नवत्या समं पुत्र्याऽनङ्गसिंहोऽपि चाऽऽययौ ॥२२५॥ चक्रे चित्रगतिश्चित्रां तत्राऽर्चा शाश्वतार्हताम् । रोमाञ्चिताङ्गः स्तोत्रं च गिरा भक्तिविचित्रया ॥२२६।। ज्ञात्वा चाऽवधिना'तत्र समित्रः सर आययौ । तस्योपरि च पष्पाणि ववर्ष स्वामरैः सह ॥२२॥ हृष्टाश्च तुष्टवश्चित्रगतिं सर्वेऽपि खेचराः । अनसिंहोऽप्यज्ञासीत तमेव दैहितवरम ॥२२८॥ पासुमित्रदेव: प्रत्यक्षीभूय हर्षेण भूयसा । किं मां प्रत्यभिजानासीत्यूचे चित्रगतिं तदा ॥२२९।।
त्वं महद्धिः सुर इति चित्रगत्युदिते सुरः । सुमित्ररूपं चक्रे स स्वोपलक्षणहेतवे ॥२३०॥ तं चित्रगतिरालिङ्गच जगादेति मया ह्ययम् । धर्मः प्राप्तस्त्वत्प्रसादादनवद्यो महामते ! ॥२३१।। सुमित्रोऽप्यब्रवीदेवमियमृद्धिर्मयाऽपि हि । आसेदे त्वत्प्रसादेन तदा जीवितदानतः ॥२३२।। प्रत्याख्यान-नमस्कारविहीनोऽहं तदा मृतः । नाऽभविष्यं मनुष्योऽपि प्राणयिष्यो न चेद्धि माम् ।।२३३॥ तयोः कृतज्ञयोरेवं मिथः सुकृतशंसिनोः । श्रीसूरचक्रिप्रमुखा जहषुः खेचरेश्वराः ॥२३४।। पातत्र चित्रगतिं रूप-चरित्राभ्यामनुत्तरम् । प्रेक्षमाणा रत्नवती "विविधे मन्मथेषुभिः ॥२३५।। स्वपुत्रीं विधुरां प्रेक्ष्याऽनङ्गसिंहो व्यचिन्तयत् । ज्ञानिनः संवदैत्येतत् तत्पूर्वकथितं वचः ॥२३६॥
ममाऽसिरत्नं जहेऽसौ पुष्पवृष्टिरिहाऽभवत् । इहाऽभवन्मत्सुताया अनुरागश्च तत्क्षणात् ॥२३७॥ १. विश० ला०पा.की.पु.सं.ता.; कमलनालवत् । २. स्वबलगवितम् मु०, खं० १, ला० सू० । ३. जातप्रकाशदर्शनः । ४. व्यलोकयत् ला० । ५. 'जातः स्वस्त्र०' इति मुद्रितः पाठः । स च न योग्य: प्रतिभाति । ६. वैधुर्यं-दुःखम् । ७. अपरमातुः पुत्रः । ८. हितध्यान० खं० २।९. क्रुधा ला० । १०. अस्मिन् मया मु० । ११. सर्वं खं० १ । १२. स्मृतनवकारमन्त्रः । १३. अवधिज्ञानेन । १४. च सुरैः ला० । चामरैः मु० । १५. दुहितुः पतिम्, पु० । १६. स्वस्योपल० ला० । १७. प्राणयिष्ये खं० २ । क्रियातिपत्तौ द्वितीयपुरुषैकवचन रूपमिदम्। १८. श्रेष्ठम् । १९. विव्यधे ला०सू० । २०. 'मिलति' इति लाटि. । २१. त्येव तत्पूर्वं० ला० । ०पूर्वं क० मु० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org