________________
प्रथमः सर्गः)
श्रीत्रिषष्टिशलाकापुरुषचरितम् ।
रत्नवाश्चाऽनुरूपो वरोऽयं ज्ञानिनोदितः । श्लाघ्योऽस्म्यमभ्यां दुहित-जामातृभ्यां जगत्यपि ॥२३८।। देवस्थानेऽत्र सम्बन्धादिकं वक्तुं न युज्यते । चिन्तयित्वेति सपरिवारः स स्वगृहं ययौ ।।२३९।।
सुमित्रदेवं सत्कृत्य व्यसृजत् खेचरानपि । ततश्चित्रगति: पित्रा समं निजगृहं ययौ ।।२४०।। पाप्रहितोऽनङ्गसिंहेन मन्त्र्येक: सूरचक्रिणम् । प्रणम्य व्याजहारैवमव्याजविनयक्रमः ॥२४१॥ स्वामिश्चित्रगतिस्तेऽसौ कुमारो मारसन्निभः । अतुल्यरूप-लावण्यः कस्य चित्रीयते न हि ? ॥२४२।। पुत्री चाऽनङ्गसिंहस्य रत्नं रत्नवती प्रभो ! । रत्नेन चित्रगतिना युज्यतां भवदाज्ञया ॥२४३।। द्वयोरपि त्वमीशोऽसि विवाहाय तदेतयोः । अनङ्गसिंहं मन्यस्व नृसिंह ! विसृजाऽद्य माम् ॥२४४।। सूरोऽप्युचितयोगेच्छुः प्रत्यपद्यत तद्वचः । तयोविवाह चाऽकार्षीन् महोत्सवपुर:सरम् ॥२४५।। तया समं चित्रगतिर्भेजे वैषयिकं सुखम् । अर्हत्पूजादिकं धर्मं चकार च तया सह ॥२४६।। धनदेव-धनदत्तजीवौ च्युत्वा बभूवतुः । मनोगति-चपलगत्याख्यौ तस्याऽनुजावुभौ ॥२४७।। ताभ्यां च रत्नवत्या च समं नन्दीश्वरादिषु । चक्रे चित्रगतिर्यात्रामतिमात्रां सुरेन्द्रवत् ॥२४८॥ अर्हतामन्तिके धर्मं शुश्राव च समाहितः । कलत्र-भ्रातृसहितः साधुशुश्रूषणोद्यतः ॥२४९।। तमन्यदा न्यधाद्राज्ये सूरचकी स्वयं पुनः । उपाददे परिव्रज्यां प्रपेदे च परं पदम् ॥२५०।। पास साधितानेकविद्यः सूरचक्रीव नूतनः । शशास खेचरपतीन् पत्तीकुर्वन्ननेकशः ।।२५१॥ अन्यदा तस्य सामन्तो मणिचूलो व्यपद्यत । शशि-शूरावयुध्येतां राज्यार्थे तत्सुतावथ ॥२५२॥ तयोविभज्य तद्राज्यं चक्री चित्रगतिर्ददौ । पथि च स्थापयामास धर्मवाग्भिः स युक्तिभिः ॥२५३।। तौ तथाऽप्यन्यदा यदध्वा विपेदाते 'वनेभवत । पाश्रुत्वा चित्रगतिस्तच्च दध्याविति महामतिः ॥२५४।। विनश्वर्याः श्रियोऽर्थेऽमी धिग जना मन्दबुद्धयः । युध्यन्तेऽथ विपद्यन्ते निपतन्ति च दुर्गतौ ॥२५५।। श्रिये यथोत्सहन्तेऽमी निरपेक्षा वपुष्यपि । तथोत्सहेरन्मोक्षाय चेत् किं न्यूनं तदा भवेत् ? ॥२५६।। विमृश्यैवं भवोद्विग्नः सुतं रत्नवतीभवम् । ज्येष्ठं पुरन्दरं नाम राज्ये चित्रगतिय॑धात् ॥२५७॥ रत्नवत्या कनिष्ठाभ्यां ताभ्यां च स समाददे । व्रतं दमधराचार्यपार्श्वे चित्रगतिस्ततः ॥२५८॥ चिरं तप्त्वा विधायाऽन्ते पादपोपगमं च सः । विपद्य कल्पे माहेन्द्रे सुरोऽभूत् परमद्धिकः ॥२५९॥ रत्नवत्यपि तत्रैव कनिष्ठौ तौ च बान्धवौ । संजज्ञिरे सरवराः प्रीतिभाजः परस्परम ॥२६०॥ पाइतश्च प्रत्यंग्विदेहे विजये पद्मनामनि । अस्ति सिंहपुरं नाम पुरं सुरपुरोपमम् ॥२६१।। तत्राऽऽसीज्जगदानन्दी हरिणन्दीति भूपतिः । मन्दीकृतान्यतेजस्कोऽधिपतिस्तेजसामिव ।।२६२।। बभूव महिषी तस्य नामतः प्रियदर्शना । दर्शनेनाऽपि पीयूषस्यन्दिनी कौमुदीव या ॥२६३॥ जीवश्चित्रगतेः सोऽथ च्युत्वा माहेन्द्रकल्पतः । कुक्षाववातरत् तस्या महास्वप्नोपसूचितः ॥२६४॥ पूर्णे च काले सुषुवे सा देवी प्रियदर्शना । पाण्डुको»व कल्प तनयं प्रियदर्शनम् ॥२६५।। अपराजित इत्याख्यां तस्य चक्रे महीपतिः । धात्रीभिाल्यमानश्च स क्रमेण व्यवर्धत ।।२६६।।। क्रमात् कलाः स जग्राह यौवनं प्राप च क्रमात् । मूर्त्या मीनध्वजः पुण्यलावण्यजलवारिधिः ॥२६७||
सहपांशुक्रीडितश्च सहाध्यायी च वल्लभः । अभूद् विमलबोधाख्यस्तस्याऽमात्यसुतः सुहृत् ॥२६८॥ १. ०वत्या अनु० ला० । २. ०स्थाने च स० सू० । ३. स्वभवनं पु० । ४. उवाच । ५. निष्कपटविनयान्वितः । ६. कामसदृशः । ७. तदीशो० खं० १-२, ला० सू० सं. । ८. विवाहमका० सू० । ९. मणिचूडो मु० । १०. ०सूरा० खं० १-२, ला० सू० । ११. सुयुक्ति० र०स्वीकृतपाठः, मु० । १२. वनगजवत् । १३. भ्रातृभ्यां सममाददे खं० २।०च सममाददे सू० । ०चाऽथ समा० ला० । १४. दमवरा० ला०पा.ला० १, पु. छा. सं. ता. । १५. स सुरोऽभून्मद्धिकः खं० १ । १६. 'तृतीय: भव:' इति लाटि. । १७. 'चतुर्थः भवः' इति लाटि. । १८. पश्चिम-विदेहक्षेत्रे । १९. सूर्यः । २०. स्पन्दिनी मु०, र०स्वीकृतपाठश्च । स्यन्दनी खं० २ । २१. पाण्डकोर्वीव खं० १-२, सू०ला० ला १-२, पा. सं. ता. । पण्डको. ला० । पाण्डुकवनभूमिः । २२. दर्शिनम् मु० । २३. कामः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org