________________
कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यगुम्फितं
(अष्टमं पर्व
पातावन्यदा हयारूढौ क्रीडया जग्मतुर्बहिः । हृत्वाऽश्वाभ्यां च निन्याते महारण्ये दवीयर्सि ॥२६९।। तत्राऽश्वयोः श्रान्तयोस्तौ वृक्षमूलेऽवतेरतुः । ऊचे विमलबोधं च राजपुत्रोऽपराजित: ॥२७०।। दिष्ट्याऽश्वाभ्यामपहृतावावामाभ्यां कुतोऽन्यथा । अनेकाचर्यपूर्णेयं द्रष्टव्या स्याद् वसुन्धरा ॥२७१॥ गन्तुमापृच्छ्यमानौ हि पितरौ विरहासहौ । विसृजेतां न नौ जातु जातं सम्प्रति साध्विदम् ॥२७२।।
आवयोरश्वहृतयोः पित्रोर्दुःखमभूदिदम् । तेनैव विहरिष्यावो विसोढं पतितं हि तत् ॥२७३॥ पाएवमस्त्वित्यभाषिष्ट यावत् स सचिवात्मजः । तावन्ना तत्र कोऽप्यागाद् रक्ष रक्षेत्युदीरयन् ॥२७४| प्रवेपमानसर्वाङ्गमस्थिरीभूतलोचनम् । मा भैषीरिति तं प्रोचे कुमारः शरणागतम् ॥२७५॥ कुमारं मन्त्रिसूः स्माऽऽह नाऽविमृश्यैवमभ्यधाः । अन्यायकारी यद्येष तदा स्यान्न हि शोभनम् ॥२७६।। ऊचेऽपराजितोऽप्युच्चैः क्षत्रधर्मो ह्यसौ सदा । अन्यायी यदि वा न्यायी त्रातव्यः शरणागतः ॥२७७|| एवं कुमारे वदति हत हतेति वादिनः । एयुरारक्षपुरुषा आकृष्टनिशितासयः ॥२७८।। अपयातं युवां पान्थौ ! मुषिताशेषपत्तनम् । हनिष्यामोऽमुमित्यूचुरारक्षा दूरतोऽपि ते ॥२७९॥ स्मित्वा स्माऽऽह कुमारोऽपि शरणं मामुपागतः । शक्रेणाऽपि न शक्योऽसौ हन्तुमन्यैस्तु का कथा ? ॥२८०॥ कुद्धाः प्रजहूरारक्षा यावत् तावदधावत । आकृष्टासिः कुमारस्तान्निघ्नन् द्वीपी" मृगानिव ॥२८॥ पानंष्ट्वा कोसलराजायाऽऽचख्युः स्वस्वामिने च ते । राजाऽपि सैन्यं स प्रैषीद् वधैषी चोररक्षिणः ॥२८२॥ तदप्यनीकं तरसी पराजिग्येऽपराजितः । आययौ च स्वयं राजा वृत्तः सार्दि-निषादिना ॥२८३॥ तस्करं मन्त्रिपुत्राय समाऽथाऽपराजितः । द्रढयित्वा परिकरमभ्यमित्रो[त्र्यो]ऽभवद् युधि ।।२८४॥ एकस्य दन्तिनो दन्ते पादं न्यस्य स सिंहवत् । आरुह्य कुम्भमवधीत् स्कन्धारूढं निषादिनम् ॥२८५।। तमेवाऽऽरुह्य करिणं युयुधे चापराजितः । उपलक्ष्य नृपायैकेनाऽऽचख्ये मन्त्रिणाथै सः ॥२८६॥ निषिध्य स्वाज्ञया युद्धात् सैनिकान् कोसलेश्वरः । तमूचे मद्वयस्यस्य सुतोऽसि हरिणन्दिनः ।।२८७।। साधु मन्मित्रपुत्रोऽसि विक्रमेणाऽमुना खलु । विना सिंहकिशोरेण को ह्यलं हन्त दन्तिने ? ॥२८८।। स्वगृहात् स्वगृहं दिष्ट्या त्वमायासीर्महाभुजः । इत्युक्त्वा परिरेभे स गजस्थस्तं गजस्थितम् ॥२८९॥ लज्जाविनमदास्याब्जं राजा स्वेभेऽधिरोह्य तम् । निजे निनाय सदने स्वपुत्रमिव वत्सलः ॥२९०॥ विसृज्य तस्करं मन्त्रिपुत्रोऽप्यन्वपराजितम् । आययौ तस्थतुश्चोभौ सुखं कोसलवेश्मनि ॥२९१॥
कन्यां कनकमालाख्यां स्वां कोसैलमहीपतिः । जातानन्दो हरिणन्दिनन्दनायाऽन्यदा ददौ ॥२९२।। पादिनानि कत्यपि स्थित्वा मा भूद् विघ्नो गतेरिति । अनाख्यायाऽन्यदा रात्रौ समित्रोऽपि स निर्ययौ ॥२९३॥ व्रजंश्च कालिकादेव्यायतनस्याऽविरतः । हो हा ! निष्पुरुषो:ति शश्राव रुदितं निशि ॥२९४|| काऽप्येषा रोदिति स्त्रीति निश्चित्य स कृपानिधिः । अनुशब्दं ययौ वीरः शब्दापातीव सायकः ॥२९५॥ ज्वलितज्वलनाभ्यणे स्त्रियमेकां निषादिनी । आकृष्टतीक्ष्णैनिस्त्रिंशं पुरुषं च ददर्श सः ॥२९६।। विद्याधराधमादस्मात् पातु मां कोऽपि यः पुमान् । इति भूयोऽपि चक्रन्द सौनिकौन्तच्छ(श्छ)गीन सा ॥२९७||
आचिक्षेप कुमारस्तमुत्तिष्ठस्व रणाय रे ! । अबलायां किमेतत् ते पुरुषाधम ! पौरुषम् ? ॥२९८॥ १. दूरतरे । २. तौ ला २. । मु० ३. रिष्यामो ला०पा.ला १, की. आ. | ४. विसोढुं सं. मु० । ५. यत् खं० २ । ६. नानरः । ७. प्रकम्पमानसर्वाङ्गं छा० । ८. मन्त्रिसूरुचे माऽवि० पु० । ९. आकृष्टतीक्ष्णखड्गाः । १०. अर्पयत खं० २ । ११. मामेष शरणागत: ला० । १२. शक्योऽयं पु० । १३. 'चित्रक:'-'चित्तो' । १४. पराक्रमेण वेगेन वा । १५. सादि-निषादिभिः मु०, खं० १, ला० । १६. कटिवेष्टनम् । १७. शत्रुसन्मुखः । १८. हस्तिपकम् । १९. मन्त्रिणा च सः खं० १ । २०. कौसले० ला० । २१. लज्जाविनम्रमुखकमलम्। २२. ०धिरुह्य खं० २ । २३. वत्सलम् खं० २ । २४-२५. कोशल० खं० १-२, सू० । कौसल० ला० । २६. ०स्याऽतिदूर० खं० २, ला० । २७. हहा ! खं० २, सू० । २८. निःपु० मु० । २९. शब्दवेधी बाण इव ॥ ३०. निषादितां खं० १-२, सू० ता.सं. ला० २। विषादिनी पु० । विषादितां ला० । ३१. खड्ग । ३२. सौनिकं-सूनास्थानं, तस्यान्तः मध्ये छगी-अजा इव ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org