________________
प्रथमः सर्गः)
श्रीत्रिषष्टिशलाकापुरुषचरितम् ।
त्वय्यप्यस्यामि चेदं मे पौरुषं नन्विति ब्रुवन् । आकृष्टासिरढौकिष्ट समराय स खेचरः ॥२९९।। वञ्चयमानावन्योऽन्यघातांस्तौ कुशलावुभौ । खड्गाखड्गि चिरं कृत्वाऽयुध्येतां दोर्युधोद्धतौ ॥३००।। दोर्युद्धेऽप्यपराजय्यं मन्यमानोऽपराजितम् । बबन्ध नागपाशेन स विद्याधरकुञ्जरः ॥३०१।। कुमारस्त्रोटयामास तं पाशमपराजितः । 'व्यालद्विप इवाऽऽलानरज्जु कोपेन भूयसा ॥३०२।। विद्याप्रभावतो विद्याधरः स विविधायुधैः । प्रजहार कुमाराय क्रुद्धोऽसुरकुमारवत् ॥३०३॥ पूर्वपुण्यप्रभावाच्च देहसामर्थ्यतोऽपि च । कुमारे प्राभवंस्तस्य प्रहारा न मनागपि ॥३०४|| अत्रान्तरे च मार्तण्डो ययावुदयमूर्धनि । मूर्ति चाऽताडयद् राजपुत्रः खड्गेन खेचरम् ॥३०५।। पपात मूच्छितः पृथ्व्यां तेन घातेन खेचरः । कुमारस्पर्द्धयेव स्त्री तां जघान स्मरः शरैः ॥३०६।। भूयः प्रापय्य चैतन्यमुपचारैर्नभश्चरम् । ऊचे कुमारो युध्यस्व सोऽसि यदि सम्प्रति ॥३०७।। विद्याधरोऽप्यभाषिष्ट सुष्ठ्वहं निजितस्त्वया । रक्षितः स्त्रीवधात् साधु नरकाच्चापि तद्भवात् ॥३०८॥ मम वस्त्राञ्चलग्रन्थौ विद्येते मणि-मूलिके । मणेस्तस्याऽम्भसा घृष्ट्वा मूलिकां देहि मवणे ॥३०९॥ तथा चक्रे कुमारेण सज्जाङ्गोऽभूच्च खेचरः । कुमारपृष्टश्चाऽऽचख्यावेवं व्यतिकरं निजम् ॥३१०॥ पारथनूपुरनाथस्य विद्याधरपतेरियम् । दुहिताऽमृतसेनस्य रत्नमालेति नामतः ॥३१॥ वरोऽस्या ज्ञानिनाऽऽचख्ये हरिणन्दिनृपात्मजः । युवाऽपराजितो नाम गुणरत्नैकसागरः ॥३१२।। तङ्क्षाऽप्यनुरक्ताऽभून्नाऽन्यस्मिन्नकरोन्मनः । मया च वीक्षिताऽन्येधुर्विवाहाय च याचिता ॥३१३।। एषाऽप्युवाच मत्पाणिं गृह्णीयादपराजितः । दहेद् वा दहनो मेऽङ्गं नाऽपरा काऽप्यतो गतिः ॥३१४।। इत्यस्या वचसा कुप्यन्नहं श्रीषेणनन्दनः । सूर्यकान्ताभिधानोऽस्याः पाणिग्रह कृताग्रहः ॥३१५।। निर्गत्य नगैरान विद्या दुःसाध्या अप्यसाधयम् । भूयोऽपि विविधोपायैरमूमर्थितवानहम् ॥३१६।। युग्मम् ॥ नैषा केनाऽप्युपायेन मामियेष यदा तदा । हृत्वाऽऽनीता मयोऽप्यत्र कामान्धाः किं न कुर्वते ? ॥३१७॥ अग्निरङ्गे लगत्वस्याः पूर्यतां स प्रतिश्रवः । इत्यमूं खण्डयित्वाऽहमग्नौ प्रक्षेप्तुमुद्यतः ॥३१८॥ मत्तस्त्वया रक्षितेयं रक्षितोऽहं च दुर्गतेः । द्वयोरप्युपकर्ताऽसि शंस कोऽसि महाभुज ?? ॥३१९।। पाआख्यच्च मन्त्रिसूस्तस्मै कुमारस्य कुलादिकम् । मुमुदे रत्नमालाऽपि सद्योऽभीष्टसमागमात् ॥३२०॥ पितरौ रत्नमालायाः पृष्ठतश्च प्रधाविनौ । कीर्तिमत्यमृतसेनौ तदानीं तत्र चेयतुः ॥३२१॥ पृष्टश्चाऽऽख्यन् मन्त्रिपुत्रो यथावृत्तं तयोरपि । त्राताऽभूत् परि णेतैवेत्यमोदेतामुभावपि ॥३२२॥ ताभ्यां दत्तां रत्नमालामुपयेमेऽपराजितः । तयोरेव गिरोऽदत्त सूरकान्ताय चाऽभयम् ॥३२३।। कुमारे निःस्पृहे सूरकान्तस्ते मणि-मूलिके । आर्पयन् मन्त्रिपुत्रस्य गुटिकाश्चाऽन्यवेषदाः ॥३२४।। आनेतव्या स्वपुत्रीयं निजस्थाने गतस्य मे । इत्युदीर्याऽमृतसेनं प्राचालीदपराजितः ॥३२५।। समं पुत्र्याऽमृतसेनः सूरकान्तश्च खेचरः । स्वं स्वं प्रययतुः स्थानं स्मरन्तावपराजितम् ॥३२६॥ पाकुमारोऽप्यग्रतो गच्छन्नटव्यां विधुरस्तृषा । उपाविशच्चूततले मन्त्रिपुत्रोऽम्भसेऽन्वगात् ॥३२७||
दूरे गत्वा गृहीत्वाऽम्भो यावदागादमात्यसूः । तस्मिश्चततले तावन्नाऽपश्यदपराजितम् ॥३२८॥ दध्यौ च नेदं तत्स्थानं भ्रान्त्याऽन्यत्र किमागमम् ? । किं वा कुमारोऽतितृषा स्वयमप्यम्भसे ययौ ? ॥३२९।। १. ननु त्वय्यपि (विषये) इदं मे पौरुषं अस्यामि-क्षिपामि-काकुः । २. न त्विति मु० । ३. दुष्टगजः । ४. ०वुदयमूनि च ता.सं.छा.ला २; उदयाचले । ५. ०स्पर्धया नूनं तां ला० । ६. समर्थः । ७. स्त्रीवधप्रभवात् । ८. तत्रैवात्यन्तरक्ता० ता० सं० । ९. एतस्या सू० । १०. वचसाऽकुप्यमहं मु० । ११. ग्रहकृतादरः ला० ला १ । पाणिग्राह० खं० २ । १२. विविधा विद्या सू० । १३. दुःसाधा खं-२, सू० । १४. ०नीत्वा मयात्र क्षुत्कामा० खं० १-२, ला० सू० । १५. मया त्वत्र ला० । १६. प्रतिज्ञा । १७.
भुजः खं० १-२ । १८. पृष्ठे तस्य खं० २ । १९. प्रधावितौ मु०, र.स्वीकृतपाठश्च । २०. परिणेता चे० ला० । २१. गिरा दत्तं मु०, र.स्वीकृतपाठश्च । २२. वेषपरावर्तनगुटिकाः । २३. प्रजग्मतुः ता० | २४. त्वगात् मु० ।
For Private & Personal Use Only
-
Jain Education International
www.jainelibrary.org