________________
कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यगुम्फितं
(अष्टमं पर्व
विमृश्येति कुमारस्याऽन्वेषणाय प्रतिद्रुमम् । बभ्रामाऽनीक्षमाणस्तं मूच्छितश्चापतद् भुवि ॥३३०॥ लब्धसंज्ञः समुत्थाय सोऽरोदीत् करुणस्वरम् । कुमार ! दर्शयाऽऽत्मानं किं खेदयसि मां मुधा ? ||३३१॥ नाऽपहर्तुं प्रहर्तुं वा त्वामलं कोऽपि मानवः । न तवाऽदर्शने हेतुरमङ्गलमयः सखे ! ॥३३२॥
एवं विलप्य बहुधा तं गवेषयितुं पुनः । ग्रामादिषु परिभ्राम्यन् सोऽगान्नन्दिपुरं पुरम् ॥३३३।। पामन्त्रिसूर्बहिरुद्याने यावदस्थाच्च दुर्मनाः । उभौ विद्याधरौ तावत् तमुपेत्यैवमूचतुः ॥३३४।। विद्याधरेन्द्रो भुवनभानुर्नाम्ना महावने । आस्ते विकृत्य प्रासादं परमद्धिर्महाबलः ॥३३५।। तस्य च स्त: कमलिनी-कुमुदिन्यावुभे सुते । तयोश्च ज्ञानिनाऽऽख्यातो वरः प्रियसुहृत् स ते ॥३३६।। तस्याऽऽनयनहेतोश्च स्वामिनाऽऽवां नियोजितौ । वने तस्मिन्नागताभ्यामावाभ्यां वीक्षितौ युवाम् ।।३३७।। त्वं जलानयनायाऽगाः कुमारं चापराजितम् । हृत्वाऽऽनयाव भुवनभानोः स्वस्वामिनोऽन्तिके ॥३३८॥ तमभ्युदस्थाद् भुवनभानुर्भानुमिवोदितम् । सम्भ्रमाच्चाऽऽसयामास रत्नभद्रासनोत्तमे ॥३३९॥ सत्ययाऽपि गुणस्तुत्या हेयन्नपराजितम् । पुत्र्योस्तयोविवाहार्थे ययाचे खेचरेश्वरः ॥३४०॥ कुमारस्त्वद्वियोगार्हो न प्रत्युत्तरमप्यदात् । मौनी मुनिरिवाऽस्थाच्च त्वामेव परिचिन्तयन् ॥३४१॥ ततश्च स्वामिनाऽऽदिष्टौ त्वामानेतुमितस्ततः । विमार्गन्ताविहाऽऽयावः दिष्ट्या दृष्टोऽसि सम्प्रति ॥३४२॥ तदुत्तिष्ठ महाभाग ! गन्तुं तत्र चल द्रुतम् । कुमारस्य कुमारीभ्यां विवाहस्त्वयि तिष्ठते ॥३४३।। इत्युक्त्या मुदितस्ताभ्यां सह मन्त्रिसुतो ययौ । सद्योऽभ्यणे कुमारस्य प्रमोद इव मूर्तिमान् ॥३४४|| उपयेमे कुमा? ते कुमारोऽपि शुभेऽहनि । कालं कञ्चिदपि स्थित्वा निर्जगाम च पूर्ववत् ॥३४५।। पाश्रीमन्दिरे प्रापतुश्च पुरे तत्रे च तस्थतुः । सूरकान्तदत्तमणिपूर्यमाणेप्सितौ सर्दी' ॥३४६।।
तस्मिन् पुरेऽन्यदोत्तस्थावतुलस्तुमुलध्वनिः । अदृश्यन्त भ्रमन्तश्च सन्नद्धोदायुधा भटाः ॥३४७|| किमेतदिति पुष्टश्च राजपुत्रेण मन्त्रिसः । ज्ञात्वा लोकाच्छशंसैवमत्र राजाऽस्ति सुप्रभः ॥३४८।। स प्रविश्यैकेन पुंसा हतश्छुरिकया च्छलात् । राज्ञो राज्यधरश्चास्य पुत्रादिर्नास्ति कोऽपि हि ॥३४९॥ आत्मरक्षीभवन्नद्य तेनाऽयमखिले पुरे । भ्राम्यति व्याकुलो लोकस्तस्याऽयं तुमुलो महान् ॥३५०॥ दुःक्षत्रियेण केनापि धिगयं घातितो द्विषा । इत्युक्त्वा करुणाम्लानमुखोऽस्थादपराजितः ॥३५१॥ पाअरोहति प्रहारे तु राज्ञः संरोहणैरपि । प्रधानगणिका कामलताऽऽख्याद् राजमन्त्रिणाम् ॥३५२॥ वैदेशिक: पमानात्मद्वितीयोऽत्रास्ति पत्तने । उदारो धामिकः सत्यो मूर्त्या कश्चिदिवाऽमरः ॥३५३॥ सर्वसम्पद्यमानार्थो निर्व्यापारोऽप्यसौ यतः । महाप्रभावस्तदिह सम्भाव्यं किञ्चिदौषधम् ॥३५४॥ निन्युश्च मन्त्रिणोऽभ्यर्थ्य कुमारमुपपार्थिवम् । राजा तद्दर्शनेनाऽपि सुस्थंमन्यो बभूव सः ॥३५५।। कृपावान् राजपुत्रः प्रागपि घातं विलोक्य तु । कृपाभागधिकं मित्रादाददे मणि-मूलिके ॥३५६॥ मणिप्रक्षालनजलं स भूपतिमपाययत् । मूलिकां तज्जलैघृष्ट्वा नृपघाते न्यधत्त च ॥३५७।। सज्जाङ्गो भूपतिश्चाऽभूद्राजपुत्रमुवाच च । कुतोऽकारणबन्धुस्त्वमिहाऽऽयासीः कृपानिधे ! ॥३५८॥ शशंस मन्त्रिसूः सर्वं राजा भूयोऽप्यभाषत । पुत्रोऽयं मद्वयस्यस्य भूपतेर्हरिणन्दिनः ॥३५९॥ अहो ! प्रमादो नाऽबोधं यद्भातुः पुत्रमप्यमुम् । यद्वा प्रमादस्य फलं प्रहारोऽप्येष मेऽभवत् ॥३६०॥
इत्युक्त्वा कन्यकां रम्भां रूपाद्रम्भामिवाऽपराम् । उपरोध्य ददौ तस्मै गुणकीतो नरेश्वरः ॥३६॥ १. नापकर्तुं मु०, र.स्वी.पाठश्च । २. च. खं० २ । ३. मानद ! खं० १-२, ता.ला०छा.आ. । ४. च सूः मु० । ५. अभिमुखं उत्थितः । ६. संभ्रमात् स्थापयामास ला० । ७. लज्जां प्रापयन् । ८. ०न्ताविहाऽऽयातौ ला० ला १, मु०; खं० २, ला० । ९. तिष्ठति ला० । १०. तत्राऽवत० ला० । ११. च तौ खं० २ । १२. सन्नद्धाः सायुधा ला० । १३. आरोहति खं० १, ला०, मु०, ता.विना च । १४. राजमन्त्रिणम् ला०की.छा.सं.ता. । १५. स्वस्थंमन्यो खं० २ । स्वस्थ इव । १६. मूलिकान्त लै० खं १ । १७. नृपाघाते खं० २। १८. कृपानिधि: खं० २ । १९. ०हरिनन्दिन: खं० १, ला० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org