________________
प्रथमः सर्गः )
श्रीत्रिषष्टिशलाकापुरुषचरितम् ।
रममाणस्तया कालं कञ्चिदप्यतिवाह्य सः । पूर्ववन्निर्ययौ राजपुत्रो मन्त्रिसुतान्वितः ॥३६२॥ ||पुरे कुण्डपुरेऽगाच्च तत्रोद्याने महामुनिम् । दिव्यस्वर्णाम्बुजासीनं स केवलिनमैक्षत || ३६३ || तं त्रिः प्रदक्षिणीकृत्य नमस्कृत्य निषद्य च । शुश्राव देशनां तस्मात् श्रुत्योः पीयूषवर्षिणीम् || ३६४|| देशनान्ते 'तु तं नत्वा पप्रच्छेत्यपराजितः । किं भव्योऽहमुताऽभव्यः ? आचख्यौ चेति केवली ॥ ३६५॥ भव्योऽसि भविता चाऽर्हन् द्वाविंशः पञ्चमे भवे । त्वन्मित्रं गणभृच्चाऽयं जम्बूद्वीपस्य भारते ||३६६|| श्रुत्वेति मुमुदाते तौ सेवमानौ च तं मुनिम् । धर्मस्थौ तस्थतुः सुस्थौ तत्र कत्यपि वासरान् ॥३६७॥ गते विहर्तुमन्यत्र मुनौ तत्र तु तावपि । स्थाने स्थाने च चैत्यानि वन्दमानौ विचेरतुः || ३६८ ॥ [[इतश्चाऽऽसीज्जनानन्दे जितशत्रुर्नृपः पुरे । तस्याऽभूत् महिषी नाम्ना धारिणी शीलधारिणी ॥३६९|| स्वर्गाच्च्युत्वा रत्नवती तस्याः कुक्षाववातरत् । पूर्णे च काले साऽसूत नाम्ना प्रीतिमतीं सुताम् ॥३७०॥ ववृधे सा क्रमेणोपाददे च सकलाः कलाः । आसादयामास चोच्चैर्यौवनं स्मरजीवनम् ॥३७१॥ तस्याश्चाऽतिकलाज्ञाया विज्ञोऽप्यज्ञः पुरोऽभवत् । दृष्टिर्न तस्याः कुत्राऽपि तदरंस्त मनागपि ॥३७२॥ पिताऽपि दध्यौ यद्येतां विदग्धां येन केनचित् । वरेणोद्वाहयिष्यामि प्राणांस्त्यक्ष्यत्यसौ तदा || ३७३|| ध्यात्वैवं तां रहऽपृच्छत् पुत्रि ! कस्ते वरो मतः । साऽप्यूचे स वरो मेऽस्तु यो विजेता कलासु माम् ||३७४|| तत्प्रत्यपादि राजाऽपि सा प्रतिज्ञा च पप्रथे । राजानो राजपुत्राश्च कलाभ्यासं भृशं व्यधुः || ३७५॥ [[जितशत्रुर्नृपोऽन्येद्युर्बहिर्मञ्चानकारयत् । राज्ञश्च राजपुत्रांश्चाऽऽजूहवत् तत्स्वयंवरे ॥३८६॥ भूचराः खेचराश्चेयुः कुमारैः सह भूभुजः । स्वनन्दनवियोगार्तं विनैकं हरिणंन्दिनम् ||३७७|| निषेदु॑स्ते च मञ्चेषु विमानेष्विव नाकिनः । इतश्च पर्यटन् दैवात् तत्राऽऽगादपराजितः || ३७८|| सोऽवोचद् विमलबोधं समये स्म समागताः । कलाविचारं तज्ज्ञानां द्रक्ष्यामस्तां च कन्यकाम् ||३७९ ॥ मा नः परिचितोऽज्ञासीदिति तेन सहैव सः । गुटिकायाः प्रयोगेण प्राकृतं रूपमादधे ||३८० ॥ तावुभौ जग्मतुस्तत्र स्वयंवरणमण्डपे । क्रीडया विकृताकारधारिणौ त्रिदशाविव ॥ ३८१|| अनर्घ्यनेपथ्यधरा धरामिव गताऽमरी । चामराभ्यां वीज्यमाना सखी - दासीजनावृता ॥ ३८२॥ आत्मरक्ष-प्रतीहारोत्सार्यमाणपुरोजना । देवी लक्ष्मीरपरेव तत्राऽऽगात् प्रीतिमत्यद्य || ३८३॥ युग्मम् ॥ [ऊचे च मालतीनामाऽङ्गुल्या निर्दिशती सखी । भूचराः खेचराश्चाऽमी गुणिमन्या इहाऽऽययुः ॥३८४|| असौ कदम्बदेशस्य राजा भुवनविश्रुतः । वीरो भुवनचन्द्राख्यः पूर्वदिग्मुखमण्डनम् ॥३८५|| प्रकृत्या दक्षिणश्चाऽयं दक्षिणाशाविशेषकः । नामतः समरकेतुर्मीनकेतुर्वपुः श्रिया ||३८६|| उत्तराशाकुबेरोऽयं कुबेर इति नामतः । वैरीनारीजनास्त्राम्भः-स्फीत कीर्तिलतावनः ||३८७|| अयं सोमप्रभः कीर्त्या जितसोमप्रभो नृपः । अन्येऽपि धवल - शूर - भीमाद्या पार्थिवा अमी ||३८८॥ अयं च खेचराधीशो मणिचूडो महाभुजः । रत्नचूडस्त्वसावेष महाबाहुर्मणिप्रभः ||३८९|| एते च सुमन:- सो-सूराद्याः खेचरेश्वराः । तदीक्षस्व परीक्षस्व सर्वेऽप्येते कलाविदः ||३९०॥ तयेत्युक्ता प्रीतिमती यं यमैक्षिष्ट चक्षुषा । तयाऽऽदिष्ट इवाऽनङ्गस्तं तं बाणैरताडयत् ॥३९१ ॥ मधुमत्तान्यपुष्टस्त्रीस्वरमालम्ब्य साऽकरोत् । विचारं पूर्वपक्षस्था वाग्देवीव विवदिनी ॥ ३९२ ॥ निहतप्रतिभाः सर्वे भूचराः खेचरा अपि । गले गृहीता इव ते नाऽशकन् दातुमुत्तरम् ॥३९३॥
१. ०न्ते मुनिं नत्वा खं० २ । २. स्वस्थौ खं० २, सं.ता.की. । ३. ०भूद् गेहिनी ना० खं० २ । ४. पूर्णे काले च खं० २ । ५. विज्ञोऽप्यविदुरोऽभ० खं० १ । ६. रहे० खं० २ । ७. ०वच्च स्वयं० मु० । ८. ० नन्दिनम् ला० । ९. निषेदुस्तत्र खं० १ । १०. देवाः । ११. आत्मरक्षा मु० । १२. स्मरकेतुर्यो मीन० ला० । १३. जनाश्रान्तः मु० । १४. ०स्फीति० ला०सू० । १५. ०सूर० खं० १-२ । धवलभीमसूरा० ला० । १६. ०सूरसोमा० ला० । १७. यमैषिष्ट खं० १ । १८. वसन्तोन्मत्ता अन्यपुष्टस्त्री- कोकिला, तस्याः स्वरम् । पुष्टास्त्री मु० । १९. प्रवादिनी ला० । २० निहित० खं० २ ।
o
Jain Education International
For Private Personal Use Only
१३
www.jainelibrary.org