________________
कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यगुम्फितं
स्त्रीसम्बन्धात् पक्षमस्याश्चक्रे 'वाग्देव्यतो वयम् । अनया निर्जिता नूनं पुरा केनाऽप्यनिर्जिताः ॥३९४॥ इत्यादि विविधं प्रोचुर्विले क्षास्ते परस्परम् । राजानो राजपुत्राश्च त्रपाऽवनमदाननाः || ३९५ ॥ युग्मम् 11 दध्यौ च जितशत्रुः किं सर्वायासादिमां विधिः । विधाय खिन्नः ? एतस्या नाऽनुरूपं पतिं व्यधात् ? || ३९६ ॥ इयन्त एव राजानो मत्पुत्र्या एषु वौचितः । न कोऽपि कोऽपि हीनोऽन्यो भावी चेत् का गतिस्तदा ? ||३९७।। तन्मन्त्र्यूचे च भावज्ञो विषादेन कृतं प्रभो ! । प्रकृष्टेभ्यः प्रकृष्टाः स्युर्बहुरत्ना हि भूरियम् ॥ ३९८ ॥ राजा वा राजपुत्रो वा "परो वा य इमां जयेत् । स एव हि वरोऽमुष्या घोषणा कार्यतामियम् ॥ ३९९ ॥ साध्वेतदिति जल्पंश्च तथैवाऽकारयन्नृपः । आकर्ण्य घोषणां तां च दध्यावित्यपराजितः ||४००|| स्त्रिया सह विवादे स्यान्नोत्कर्षो विजयेऽपि हि । पुंस्पक्षो विजितः सर्वोऽप्यविवादे भवेत् पुनः ॥ ४०२ ॥ तदुत्कर्षोऽस्तु वास्तु जेतव्या सर्वथाऽप्यसौ । विमृश्येति कुमारो द्राक् प्रीतिमत्याः पुरोऽभवत् ॥४०२॥ अभ्रच्छन्नमिवाऽऽदित्यं दुर्वेषमपि वीक्ष्य तम् । प्राग्जन्मस्नेहसम्बन्धात् प्रीतिं प्रीतिमती दधौ ॥ ४०३॥ पूर्वपक्षं प्रीतिमती प्राग् जग्राह तथैव हि । तां द्राग् निरुत्तरीकृत्य पराजिग्येऽपराजितः ॥४०४॥ स्वयंवरस्रजं सद्यः सा चिक्षेपाऽपराजिते । चुकुपुश्च नृपास्तस्मै भूचराः खेचराश्च ते ॥४०५॥ क एष वाचा वातूलस्तूलवल्लाघवास्पदम् । इमां "कार्पटिकोऽस्मासु सत्तूंद्वोढेति भाषिणः ||४०६ || भूँपा: "संवर्मयामासुः समं सादि - निषादिना । उदस्तशस्त्राः सङ्ग्रामं संरम्भादारभन्त च ||४०७ ॥ युग्मम् ॥ कुमारोऽपि समुत्पत्य हत्वा कञ्चिन्निषादिनम् । तत्कुञ्जरस्थो युयुधे तदस्त्रैः शारिर्वर्तिभिः ॥ ४०८ ॥ क्षणाच्च रथिनं हत्वा प्राहरत् तद्रथस्थितः । क्षणाद् भूमौ क्षणाद् भूयोऽपीभस्थः स युधं व्यधात् ॥ ४०९॥ एकोऽप्यनेकधाभूत इवाऽशनिरिवँ स्फुरन् । अभाङ्क्षीद् विद्विषत्सैन्यमुन्मे॑न्युरपराजितः ॥ ४१० ॥ स्त्रियाऽपि प्राग्जिताः शास्त्रैः शस्त्रैरेकाकिनाऽधुना । इति हीण नृपा योद्धुं सम्भूयाऽपिं डुढौकिरे ||४११॥ [अथ सोमप्रभस्येभमारुरोहाऽपराजितः । तं चोपालक्षयत् सोमो लक्षणैस्तिलकेन च ॥४१२॥ भुजोपपीडं तं सोमः परिरेभे महाभुजम् । दिष्ट्या ज्ञातोऽसि जामेयाऽमेयवीर्येत्युवाच च ॥४१३॥ आख्यच्च राज्ञां सर्वेषां ते सर्वे व्यरमन् रणात् । तैरेव स्वजनीभूतैरध्यास्युद्वाहमण्डपः ॥ ४१४।। ततोऽपराजित-प्रीतिमत्योरन्योऽन्यरक्तयोः । चक्रे विवाहः पुण्येऽह्नि भूभुजा जितशत्रुणा ||४१५ ॥ चक्रे नैसर्गिकं रूपं मनोज्ञमपराजितः । विक्रमेण च रूपेण तस्याऽरे ज्यज्जनोऽखिलः ॥४१६॥ सत्कृत्य व्यसृजत् सर्वान् जितशत्रुर्महीपतीन् । रममाणः प्रीतिमत्या तत्राऽस्थाच्चापराजितः ||४१७|| जितशत्रुनृपामात्यः कन्यां रूपवर्ती निजाम् । ददौ विमलबोधाय सोऽपि रेमे तया सह ||४१८ || [अन्येद्युराययौ तत्र दूतः श्रीहरिन्दिनः । ददृशे च कुमारेण पेरिरेभे च सम्भ्रमात् ॥४१९॥ कुशलं तातपादानामम्बायाश्चेति तेन सः । पृष्टो दूतो जगादैवमश्रुपूर्णविलोचनः ॥४२०॥ शरीरधारणामात्रं कुशलं केवलं तयोः । त्वत्प्रवासदिनादेव तौ ह्यनुद्वानलोचन ॥४२१॥
I
श्रुत्वा श्रुत्वा जनश्रुत्या त्वच्चरित्रं नवं नवम् । प्रेमोदेते क्षणं तौ त्वद्वियोगेन च मूर्च्छतः ॥४२२॥ युग्मम् ॥ १. वाग्देवता स्वयम् खं० १ । २. ०र्विलक्ष्या० खं० १ । ३. ०दिना विधिः खं० २ । विधिः सर्वायासाद् इमां विधाय किं खिन: ? ४. चोचितः खं० १, ला० । ५. नरो न कोऽपि ही० मु०, खं० १, ला० । ६. पौरो सू० । पुरो खं० २ । ७. साधु साध्विति मु०, खं० १ । ८. ०यघोषणां खं० २, सू० । ९ वा माऽस्तु खं० २ । १०. च ला० । ११. भिक्षुकः । १२. सत्सु वोढे० खं० १ । १३. नृपाः खं० १-२, ला० सू०मु० । १४. युद्धार्थं सज्जीबभूवुः । १५. निषादिभिः खं० १, ला०, मु० | १६. उदस्त्र० खं० २ । १७. कोपात् । १८. तद्गजस्थोऽपि युयुधे खं० २, मु० । १९. शारवर्ति० ला० । शारि: गजकवचम् । २०. ०रिवाऽस्फुरत् मु०, र स्वीकृतपाठश्च । २१. अतिकोपवान् । २२. लज्जिताः । २३. सम्भूयाऽथ खं० २ । २४. महाभुजः ला० । २५. विवाहं मु०, र स्वीकृतपाठश्च । २६. ०णेव रू० खं० १-२, सू० । २७ तस्याऽरञ्जज्जनो० मु०, र स्वीकृतपाठश्च । २८. ०नन्दिनः ला० । २९. आलिलिङ्गे । ३०. अनुद्वान्तलोचनौ ला० २ । 'आर्द्रनयनौ' इति लाटि । ३१. त्वच्चरितं खं० १, सू० र स्वीकृतपाठः । ३२. प्रमोदेन सू० ।
१४
Jain Education International
For Private & Personal Use Only
(अष्टमं पर्व
www.jainelibrary.org