________________
प्रथमः सर्गः)
श्रीत्रिषष्टिशलाकापुरुषचरितम् । श्रुत्वा वृत्तान्तमेतं ते सम्यग् ज्ञातुमहं प्रभो ! | प्रेषितोऽद्यापि पितरौ न खेदयितुमर्हसि ॥४२३॥ कुमारोऽप्यश्रुपूर्णाक्षः सगद्गदमभाषत । ईदृग्दुःखप्रदं पित्रोधिग् धिग् मामधर्म सुतम् ॥४२४॥ पाजितशत्रुमथाऽऽपृच्छ्य प्राचालीदपराजितः । आगाच्च भुवनभानुः सुताद्वययुतस्तदा ॥४२५।।
अन्याश्च तेन पूर्वोढास्तत्राऽऽनिन्युः स्वनन्दनाः । राजानः सूरकान्तोऽपि तत्राऽऽगादर्भयार्जितः ॥४२६। प्रीतिमत्या तथाऽन्याभिः प्रनीभिरपराजितः । भूचरैः खेचरैश्चापि राजभिः परिवारितः ॥४२७।। रोदसी छादयन् सैन्येर्भूचरैः खेचरैरपि । स्तोकैरपि दिनैरुत्कः प्राप सिंहपुरं पुरम् ॥४२८॥ युग्मम् ।। हरिणन्दी तमभ्येत्य लुठन्तमवनीतले । परिरभ्याऽङ्कमारोप्य Djचुम्बन् मुहुर्मुहुः ॥४२९॥ माताऽपि प्रणमन्तं तं बाष्पायितविलोचना । पृष्ठे पस्पर्श पाणिभ्यां चचुम्ब च शिरस्तले ॥४३०॥ पादान् श्वशुरयोर्नेमु; प्रीतिमत्यादयोऽपि ताः । स्नुषा विमलबोधेन नामग्राहं प्रदर्शिताः ॥४३१।। भूचरान् खेचरांश्चाथ विससर्जाऽपराजितः । पित्रोर्नेत्रोत्सवं कुर्वन् चाऽस्थात् क्रीडन् यथासुखम् ॥४३२॥ तौ मनोगति-चपलगती माहेन्द्रतश्च्युतौ । अभूतामनुजौ तस्य सूरः सोमश्च नामतः ॥४३३॥
अथाऽन्यदा हरिणन्दी राज्यं न्यस्याऽपराजिते । प्रवव्राज तपस्तप्त्वा प्रपेदे च परं पदम् ॥४३४।। पाअपराजितराजस्य महिषी प्रीतिमत्यभूत् । मन्त्री विमलबोधश्च तौ बन्धू मण्डलेश्वरौ ॥४३५।। पुराऽप्याक्रान्तभूपालः पृथ्वी सुखमपालयत् । भोगांश्चाऽभुक्तं निर्विघ्नमपराजितभूपतिः ॥४३६॥
चैत्यानि च विचित्राणि रथयात्राश्च लक्षशः । कुर्वाणोऽगमत् कालं स पर्मथैरवञ्चितः ॥४३७।। पास गतोऽन्येधुरुद्याने ददशैकं महर्टिकम् । मूर्त्याऽनङ्गमिवाऽनङ्गदेवं सार्थपतेः सुतम् ।।४३८॥ तैमावृतं सर्वंयोभिर्दिव्यनेपथ्यधारिभिः । क्रीडन्तं रमणीयाभी रमणीभिश्च भूरिशः ॥४३९।। ददानमर्थिनामर्थं स्तूयमानं च बन्दिभिः । गीतासक्तं प्रेक्ष्य राजाऽपृच्छत् कोऽसाविति स्वकान् ? ॥४४०॥युग्मम्।। असौ समुद्रपालस्य सार्थवाहस्य नन्दनः । महेभ्योऽनङ्गदेवाख्य इत्याख्यन् पार्थिवाय ते ॥४४१॥ धन्योऽस्मि यस्य वणिजोऽपीत्युदारा महर्द्धयः । एवं प्रशंसन् वेश्माऽऽगात् पुनरप्यपराजितः ॥४४२॥ पाद्वितीयेऽह्नि बहिर्गच्छन् सोऽपश्यन् मृतकं वेजत् । नृभिश्चतुर्भिरुत्क्षिप्तं रसद्विरसडिण्डिमम् ॥४४३॥ अन्वीयमानं रामाभिराघ्नानाभिरुरःस्थलम् । मुक्तकेशं रुदन्तीभिर्मूर्च्छन्तीभिः पदे पदे ॥४४४॥ युग्मम् ॥ कोऽयं मृत इति राज्ञा पृष्टेऽशंसंश्च सेवकाः । स एवाऽनङ्गदेवोऽयं द्राग् विसूचिकतया मृतः ॥४४५।। अहो ! असारः संसारो धिग् धिग् विश्वस्तध्रुग् विधिः । हा प्रमादः प्राणभाजां मोहनिद्रान्धचेतसाम् ।।४४६।। एवं महान्तं संवेगं धारयन्नपराजितः । जगाम स्वगृहं खिन्नस्तस्थौ चाऽहानि कत्यपि ॥४४७॥ पायः प्राक् कुण्डपुरे दृष्टः केवली तत्र सोऽन्यदा । आगात् तस्योपकाराय योग्यं ज्ञानेन तं विदन् ॥४४८॥ श्रुत्वा धर्मं च तत्पाद्यं पुत्रं प्रीतिमतीभवम् । पद्मं निधाय राज्ये स्वे प्रावाजीदपराजितः ॥४४९।। सा च प्रिया प्रीतिमती सूरः सोमश्च बान्धवौ । मन्त्री विमलबोधश्च सर्वेऽनुप्राव्रजस्तदा ॥४५०।। ते सर्वेऽपि तपस्तत्त्वा मृत्वा कल्पेऽयुरारणे । इन्द्रसामानिकाः प्रीतिभाजोऽभूवन् परस्परम् ॥४५१।। पाइतश्च जम्बूद्वीपेऽस्मिन् वर्षे च भैरते पुरम् । इहाऽस्ति हास्तिनपुरं कुरुमण्डलमण्डनम् ॥४५२।।
श्रीषेणस्तत्र राजाऽभूद् रजनीजानिसन्निभः । श्रीरिव श्रीमती नाम्ना महिषी तस्य चाऽभवत् ॥४५३।। १. ०मेतत् ते ला० । ०मेवं ते खं० १ । २. कुमारोऽथाश्रु० ला० । ३. समं स्वसुतया तया सू० । ४. ०दभयोजितः ला० । अभयदानेन सेवकत्वेन अर्जितः । ५. खेचरैर्भूचरै० खं० २ । ६. आकाश-पृथिव्यौ । ७. दिनैर्दक्षः खं० २ । उत्कण्ठितः । ८. मूर्जाऽचुम्बन् खं० १ । ९. चुचुम्ब शिरसस्तले मु० । १०. पुत्रवध्वः । ११. ०श्चाभुङ्क्त खं० २ । १२. धर्मार्थकामैः पुरुषार्थैः । १३. समन्वितं ला० । १४. मित्रैः । १५. व्रजन् मु०, २. । १६. राजघ्नाभि० खं० २ । राजन्तीभि० सू० । १७. ०रुरुस्थलम ला० । १८. रुदती० खं० १, सू० । १९. विश्वस्तद्रु० खं० २ । विश्वस्तद्रोही । २०. धिग् चेष्टितं की. पु. । २१. ते च सर्वे खं० १ । २२. 'पञ्चमभवः समाप्तः' लाटि. । २३. 'षष्ठो भव:' लाटि. । २४. भारते ला० । २५. हस्तिन० ला० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org