________________
कलिकालसर्वज्ञ श्रीहेमचन्द्राचार्यगुम्फितं
शङ्खावदातं पूर्णेन्दुं सा विशन्तं मुखाम्बुजे । स्वप्नेऽपश्यन्निशाशेषे पत्ये चाऽख्याद् दिवामुखे ||४५४|| नृपो निर्णीतवांस्तज्ज्ञैः स्वप्नेनाऽनेन चन्द्रवत् । ध्वस्ताशेषद्विषद्ध्वान्तो देव्यां सूनुर्भविष्यति ||४५५॥ ||ईतोऽपराजितजीवश्च्युत्वा तत्कुक्षिमागमत् । काले च साऽसूत सुतं पवित्रं सर्वलक्षणैः ॥४५६॥ पिता तस्याऽकरोच्छ इत्याख्यां पूर्वजाख्यया । धात्रीभिः पञ्चभिः सोऽथ लाल्यमानो व्यवर्धत ||४५७|| साक्षिमात्रीकृत्य गुरुं लीलया चाऽऽददे कलाः । प्रतिजन्म समभ्यस्तास्तस्य सन्निहिता हि ताः ॥ ४५८।। मतिप्रभो नाम गुणनिधिः श्रीषेणमन्त्रिणः । सुतोऽभूद् विमलबोधजीवः प्रच्युत आरणात् ॥४५९॥ सहपांशुक्रीडितश्च सहाध्यायी च सोऽभवत् । स्निग्धः शङ्खकुमारस्य मन्मथस्येव माधवः ॥ ४६० || स तेन सुहृदा सार्धं राजपुत्रैस्तथाऽपरैः । नानाविधाभिः क्रीडाभिः क्रीडन् यौवनमासदत् ||४६१॥ |अथ श्रीषेणमन्येद्युरुच्चैः पूत्कारकारिणः । एत्य विज्ञपयामासुर्दूराज्जानपदा जनाः ||४६२|| अस्ति त्वद्देशसीमायामत्यन्तविषमोन्नतिः । विशालशृङ्गोऽद्रिश्चन्द्रेशिशिरासरिताङ्कितः ॥४६३॥
दुर्गे समरकेतुः पल्लीपतिः स्थित: । अस्मांल्लुण्टति निःशङ्कस्तस्मात् त्रायस्व नः प्रभो ! ||४६४|| तद्बधाय प्रतिष्ठाँसू राजा भम्भामवीवदत् । नत्वा शङ्खकुमारस्तं सप्रश्रयमुवाच च ॥ ४६५ ॥ क एष स्वयमाक्षेपस्तत्र पल्लीशमात्रके । नेभः प्रहन्या (ण्या) मशकं शशकं चं हरिः क्वचित् ॥ ४६६॥ त्वदाज्ञयाऽहं तं बद्ध्वा ताताऽऽनेष्ये ममाऽऽदिश । स्वयं प्रयाणाद् विरम त्रपाकरमिदं हि वः ||४६७ || राज्ञाऽपि तद्वचः श्रुत्वा तदैव सह सेनया । विसृष्टः शङ्खकुमारस्तां पल्लीं निषा ययौ ॥४६८ || श्रुत्वा कुमारमायान्तं दुर्गं शून्यं विमुच्य सः । पल्लीशो गह्वरेऽन्यत्र प्राविशन् मायिनां वरः ||४६९ || कुशाग्रीयमतिः शङ्खकुमारो दुर्गपत्तने । एकं प्रवेशयामास सामन्तं सारसैनिकम् ॥४७०|| स्वयं निकुञ्जे चैकस्मिन्निलीयाऽस्थात् ससैनिकः । पल्लीपतिस्तु तं दुर्गं रुरोध च्छ्लकृत् सदा ॥४७१॥ क्व भो: कुमार ! यासीति यावत् तत्र जगर्ज सः । तावत् कुमारस्तं सैन्यैरववेष्टदनेकशः ॥ ४७२ ॥ इतश्च दुर्गवप्रस्थै राजसैन्यैरघनि सः । इतः कुमारसैन्यैश्च पल्लीनाथोऽन्तरास्थितः ॥४७३|| कण्ठे कुठारं स क्षिप्त्वा कुमारं शरणं ययौ । ऊचे च मायामन्त्राणां प्रतिकर्ता त्वमेव मे || ४७४ स्वामिन् ! दासीभविष्यामि सिद्धो भूर्त इवैष ते । सर्वं मम गृहाणेदं प्रसत्त्याऽनुगृहाण माम् ||४७५|| ततः कुमारस्तेनाऽऽत्तं लप्त्रं यद्यस्य तस्य तत् । सर्वं समार्पयत् तस्माद्दण्डं च स्वयमग्रहीत् ॥४७६॥ पल्लीपतिं 'र्तमादाय कुमारोऽपि न्यवर्तत । पथि सायमवात्सीच्च स्कन्धावारं निवेश्य सः ||४७७ || सोऽथाऽर्धरात्रे तल्पस्थः शुश्राव करुणस्वरम् । ययौ चाऽसिसखा तस्य स्वरस्यैवाऽनुसारतः ॥४७८|| ददर्श चाऽग्रे रुदतीं महिलामर्धवार्धकाम् । ऊचे च मृदु मा रोदीब्रूहि दुःखस्य कारणम् ||४७९॥ तस्य मूर्त्या च वाचा च लब्धाश्वासा जगाद सा । अस्त्यङ्गदेशे चम्पायां जितारिर्नाम भूपतिः ॥४८० || तस्य कीर्तिमतीपत्न्यां पश्चाद् बह्वत्मजन्मनाम् । जाता यशोमती नाम सुताऽस्ति स्त्रीशिरोमणिः ||४८१॥ स्वानुरूपं वरं तस्या अपश्यन्त्या मनागपि । अरोचकिन्या नोऽरंस्त दृष्टिः कुत्रापि रुषे ||४८२ ॥ कदाऽप्यगात् कर्णपथं शङ्खः श्रीषेणनन्दनः । तस्याश्चक्रे हृदि पदं युगपन्मन्मथोऽपि च ॥४८३ ॥ मां शङ्ख एवोद्वोढेति प्रत्यज्ञासीद् यशोमती । स्थानेऽनुरक्तेयमिति मुमुदे चाऽति तत्पिता ॥४८४||
१६
१. इतोऽपराजितश्च्युत्वा तस्याः कुक्षाववातरत् मु० । २. गुणनिधेः खं० १ सू० । ३. वसन्तऋतुः । ४. ०मोन्नतः मु० ला०, २०
५. चन्द्रशिशिरा नाम्नी सरित्, तयाऽङ्कितः । ६. तत्रास्ति दुर्गे मु० २० । ७. गन्तुकामः । ८. न्मशके शशके ता. सं. पु., विना । ९. वा खं० १-२, ला० सू० । १०. समीपे । ११. सैन्यैरविवेष्टदने० की ० पु० ला० । सैन्यैरवेष्टयदने० मु० । १२. ०रघाति खं० १, ला०, मु०, २० । १३. भूतमिवैक्षते खं० २ । भूतमिवैष खं० १, ला० । १४. प्रसीदाऽनु० पु० । १५. चौर्येण संगृहीतं धनम् । १६. समादाय सं० । १७. असि: खड्गः सखा यस्य, खड्गमात्रेण सहेत्यर्थः । चासिसखस्तस्य खं० १ । १८. ०वाद्धिकाम् खं० २ । १९. बहूनां पुत्राणां पश्चात् । २०. अरोचिकिन्या खं० १-२, ला०सू० । २१. नो रेमे मु० । २२. पौरुषे ला० । २३. चापि मु० ।
Jain Education International
(अष्टमं पर्व
For Private Personal Use Only
www.jainelibrary.org