________________
प्रथमः सर्गः)
श्रीत्रिषष्टिशलाकापुरुषचरितम् ।
१७
यावत् तदर्थे श्रीषेणान्तिके प्रैषीन्नरान् नृपः । तावद् ययाचे तां विद्याधरेन्द्रो मणिशेखरः ॥४८५।। नेच्छत्येषा विना शङ्कमित्यूचे तं जितारिराट् । ततोऽन्येधुरहार्षीत् तां स विद्याधरपांशनः ।।४८६।। अहं तु धात्रिका तस्यास्तद्दोर्लग्ना समागता । इहोज्झिता तेन दुष्टखेचरेण बलादपि ॥४८७॥ संसारसारभूतां तां बालां कुत्राऽपि सोऽनयत् । तेनाऽहं विलपाम्येवं जीविष्यति कथं हि सा ? ||४८८।। धीरा भवाऽऽनयाम्येष तां कुमारी विजित्य तम् । इत्युक्त्वाऽन्वेष्टुमारेभे कुमारोऽटन् महाटवीम् ॥४८९।। पाअत्रान्तरे च चण्डांशुरारुरोहोदयाचलम् । विशालशृङमचलं कुमारोऽप्याससाद सः ॥४९०।। एकस्मिन् गह्वरे तस्य तां सोऽपश्यद् यशोमतीम् । 'विवाहायाऽर्थयन्तं च खेचरं ब्रुवतीमिति ॥४९१।। शकोज्ज्वलगुणः शङ्को भर्ता मे नाऽपरः पुनः । अप्रार्थितप्रार्थक ! रे ! स्वं खेदयसि किं मधा ? ॥४९२।। ताभ्यां दृष्टः कुमारोऽपि दुष्टश्चोवाच खेचरः । कालाकृष्टोऽयमायातस्त्वत्प्रियो मद्वशं जडे ! ॥४९३।। अमुं त्वदाशया सार्धं हत्वा बाले ! बलादपि । एष त्वां परिणेष्यामि नेष्यामि च निजौकसि ॥४९४।। इत्युक्तवन्तं तं शङ्कोऽप्युवाचोत्तिष्ठ पाप ! रे ! । परनारीहर ! हराम्येष खड्गेन ते शिरः ।।४९५।। पाउद्यतासी ततश्चोभौ युयुधाते महाभुजौ । वल्गन्तौ चारुचारीभिः कम्पयन्ताविवाचलम् ॥४९६।। कुमारं दोर्बलाज्जेतुं नाऽशकत् स यदा तदा । तप्तायोगोलमुख्यास्त्रैर्युयुधे विद्यया कृतैः ॥४९७।। पुण्योत्कर्षात् कुमारस्य कानिचित् प्राभवन्नाहि । कुमारः खण्डयामास खड्गेनाऽस्त्राणि कानिचित् ॥४९८।। तत: खिन्नानिषण्णाच्च खेचराद्धनुराच्छिदत् । कुमारस्तच्छरेणैव तं विव्याध च वक्षसि ॥४९९।। मूच्छितः सोऽपतत् पृथ्व्यां कृतँबुध्न इव द्रुमः । शङ्खो वातादिना सज्जीकृत्याऽऽह्वत युधे पुनः ॥५००॥ उवाच खेचरेन्द्रस्तमनिर्जितचरो ह्यहम् । निर्जितोऽस्मि त्वया दोष्मन्नसामान्योऽसि सर्वथा ॥५०१॥ इयं यथा त्वया वीर ! गुणक्रीता यशोमती । तथा पराक्रमक्रीतोऽस्म्यपराधं सहस्व मे ||५०२॥ कुमारोऽप्यब्रवीत् ते दोर्वीर्येण विनयेन च । रञ्जितोऽस्मि महाभाग ! ब्रूहि किं करवाणि ते ? ॥५०३।। सोऽप्यूचे चेत् प्रसन्नोऽसि वैताढ्ये तर्हि गम्यताम् । सिद्धायतनयात्रा ते" मम च स्यादनुग्रहः ।।५०४।। शङ्कोऽनुमेने तद्वाचं मुमुदे च यशोमती । एवंविधो मया ववे वर इयुच्छसन्मनाः ।।५०५॥ खेचराश्च तदाऽभ्येयुर्मणिशेखरपत्तयः । ज्ञातोदन्ता नमश्चक्रुः कुमारमुपकारिणम् ॥५०६।। प्रेष्य द्वौ खेचरौ सैन्ये स्ववृत्तान्तमजिज्ञपत् । कुमारः प्राहिणोच्चाशु तत्सैन्यं हस्तिनापुरे ॥५०७।। तां च धात्री यशोमत्यास्तत्राऽऽनाय्य नभश्चरैः । धात्री-यशोमतीयुक्तः शङ्खो वैताढ्यमभ्यगात् ।।५०८।। तत्र सिद्धायतनस्थान् ववन्दे शाश्वतार्हतः । चक्रे च विविधाः पूजा यशोमत्या सहैव सः ।।५०९।। पानिन्ये च कनकपुरे कुमारं मणिशेखरः । देवतामिव चाऽऽनर्थोपवेश्य निजवेश्मनि ॥५१०॥ वैताढ्यवासिनः सर्वेऽप्याश्चर्यमिव चाऽऽगतम् । एत्य शङ्ख-यशोमत्यौ भूयो भूयो व्यलोकयन् ।।५११।। द्विषज्जयादिमूल्येन प्रीतास्तत्राऽपरेऽपि हि । खेचराः पसयोऽभूवन कुमारस्य महर्द्धयः ।।५१२॥ तेऽदुर्निजनिजाः पुत्रीस्तस्मै स प्रत्यवोचत । परिणेष्याम्यमूरेतां परिणीय यशोमतीम् ॥५१३।। मणिशेखरमुख्यास्ते गृहीत्वा स्वस्वकन्यकाः । शङ्ख सह यशोमत्या चम्पायां निन्यिरे तदा ।।५१४४ जितारितिवृत्तान्तो वरं पुत्र्या सहाऽऽगतम् । समावृतं खेचरेन्द्रैरभ्यागान् मुदितो भृशम् ।।५१५।।
सम्भ्रमाच्छङ्खमाश्लिष्य पुर्यां प्रावेशयन्नृपः । पुत्र्या चोद्वाहयामास महोत्सवपुरःसरम् ॥५१६।। १. अधमविद्याधरः । २. तम् सू० । ३. विवाहार्थार्थयन्तं खं० १ । विवाहायार्थकं ता. सं. ला० १, छा० । ४. त्वं खेद० ख० २, ला० सू० । ४. त्वं खेद० मु० । ५. महाबलौ ता०सं० । ६. मनोज्ञगतिभिः । ७. छिन्नमूल मु० । ८. ०निर्जितवरो० मु० । निर्जितपुरो० खं० २। ९. गुणक्रीती खं० १-२, सू० । १०. वो मम खं०१ । ११. मया भर्ता वृत० खं०२, पा०सं०ता०की ला१, आ० । १२. इत्युच्चसत् पुनः ला० । इत्युत्थसन्मना: मु०, र. । १३. सिद्धायतनेषु ला.पु.खं० २, सू०म० । १४. निन्युरन्यदा खं० १ । निन्यिरेऽन्यदा खं० २, ला०सू० ता.सं.पा.ला० । १५. परिवृतं ला० । १६. ०रभ्यगा० मु०, र० ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org