________________
प्रथमः सर्गः )
श्रीत्रिषष्टिशलाकापुरुषचरितम् ।
द्वितीयं हृदयं मेऽसि जीवितव्यं ममाऽसि वा । नहि त्वं मे सखीमात्रं त्वत्प्रश्नेनाऽस्मि लज्जिता ॥५०॥ ऊचे कमलिनी युक्तमुपालब्धाऽस्मि मानिनि ! । मनःशल्यमहं जाने तवोत्तुङ्गं मनोरथम् ॥५१॥ धनं कामयसे नूनं तस्मादालेख्यदर्शनात् । यदेज्ञयेव पृष्टाऽसि मया तन्नैर्ममात्रकम् ॥५२॥ स्थानेऽनुरागं ते ज्ञात्वा सचिन्ता तत्प्रभृत्यपि । अपृच्छं ज्ञानिनं किं स्यान्मत्सख्याश्चिन्तितो वरः ? ॥ ५३ ॥ भावीति सोऽपि चाऽवोचद् दर्शितप्रत्ययः सदा । तद्धीरा भव शीघ्रं ते सेत्स्यत्येव मनोरथः ॥५४॥ तयेत्याश्वासिता धैर्यं भेजे धनवती तदा । पितरं वन्दितुं चागाद् दिव्यनेपथ्यधारिणी ||५||
तां विसृज्य पिता दध्यौ वरार्हेयं सुता मम । कोऽनुरूपो वरोऽमुष्या भविष्यति महीतले ? ॥ ५६ ॥ एवं चिरं चिन्तयतस्तस्य राज्ञः समाययौ । प्राक्प्रेषितो निजो दूतः श्रीविक्रमधनान्नृपात् ॥५७॥ राजकार्यं स आख्याय स्थितः सन् सिंहभूभुजा । तत्राऽपश्यः किमाश्चर्यमित्युक्तः सोऽवदत् पुनः ॥५८॥ तदपश्यं न यद् विद्याधरेष्वपि सुरेष्वपि । धनस्य विक्रमधनसूनो रूपं मनोरमम् ॥५९॥ तदैवाऽचिन्तयं योग्यो धनवत्या वरो ह्ययम् । स्रष्टुः सृष्टिप्रयासोऽस्तु सफलः 'सङ्गमेऽनयोः ||६०|| प्रीतो राजाऽब्रवीत् साधु स्वयं मत्कार्यचिन्तकें ! । मां कन्यावरचिन्ताब्धिमग्नमुद्धृतवानसि ॥६९॥ तद् धनस्य धनवती-सम्प्रदानाय बुद्धिमन्"'! । गेच्छाऽद्य विक्रमधनं प्रार्थयस्व ममाऽऽज्ञया ॥६२॥ तदा चन्द्रवती नाम धनवत्यनुजाऽऽययौ । पितरं वन्दितुं तच्चाऽ श्रौषीत् सर्वं तयोर्वचः ||६३ || ययौ स दूतः स्वगृहं मुदिता चन्द्रवत्यपि । एत्याऽऽचख्यौ धनवत्यै तद्दिष्ट्याऽऽलापपूर्वकम् ॥६४॥ धनवत्यप्युवाचैवं प्रत्येम्येतद्गिरा न हि । अज्ञानेन वदत्येषा परमार्थं न बुध्यते ॥६५॥ स दूतः प्रेषितो मन्ये कार्येणाऽन्येन केनचित् । इयं तु मुग्धा मत्कार्यमवबुद्धवती खलु ॥६६॥ कमलिन्यब्रवीदत्र दूतः सोऽद्यापि तिष्ठति । जानीहि तन्मुखात् को हि दीपे सत्यग्निमीक्षते ? ॥६७॥ इत्युक्त्वा भावविज्ञा सा तत्र तं दूतमानयत् । अश्रौषीत् तन्मुखात् सर्वं हृष्टा धनवती स्वयम् ॥६८॥ अर्पणीयो धनस्याऽयं मल्लेख इति भाषिणी । धनवत्यार्पयत् तस्य लिखित्वा पत्रकं स्वयम् ॥ ६९ ॥ ततः स दूतः प्रययौ पुरेऽचलपुरे द्रुतम् । अन्तरास्थानमासीनमुपतस्थे च विक्रमम् ॥७०॥ तमूचे विक्रमः कच्चित् कुशलं सिंहभूपते: ? । शीघ्रं भूयस्त्वदागत्या विकल्पैः प्लाव्यते मनः ॥७१॥ सोऽप्यूचे कुशलं, सिंह इह मां प्राहिणोत् पुनः । सुतां धनवतीं दातुं त्वत्सुताय धनाय सः ॥७२॥ यथा धनकुमारोऽयं रूपोत्कृष्टस्तथैव सा । अस्तूचितोऽनयोर्योगः स्वर्ण-मण्योरिवाधुना ॥ ७३॥ अग्रेऽपि युवयोः स्नेहः सम्बन्धेनाऽमुना पुनः । विशिष्टो भवताद् वारि-सेकेनेव महीरुहः ||७४|| आमेत्युदित्वा नृपतिः सत्कृत्य विससर्ज तम् । जगामोपधनं सोऽपि द्वारपालनिवेदितः ॥७५॥ नत्वोपविश्य शंसित्वा स स्वं चाऽऽगमकारणम् । प्रैषीदं धनवत्येति जल्पन् पत्रकमार्पयत् ॥७६॥ तन्मुद्रां धनकुमारः स्फोटयित्वा स्वपाणिना । तत्पत्रं वाचयामास मदनस्येव शासनम् ॥७७|| ‘विशेषितश्री:“ शरदा यौवनेनेव पद्मिनी । परिम्लानमुखी वाञ्छत्यादित्यकरपीडनम् ॥७८॥ दध्यौ धनोऽपि काऽप्येषा तस्याश्छेकौं क्तिरद्भुता । स्नेहातिशयमाख्याति मयि चिंतैविवर्तिनम् ॥७९॥ विमृश्येति स्वहस्तेन लिखित्वा सोऽपि पत्रकम् । धनवत्यै तस्य हस्ते हारेण सममार्पयत् ||८०||
३
१. चित्रदर्शनात्; ०दालिख्य० ला० । २. यदा ज्ञयैव खं० २ । ३. हास्यमात्रम् । ४. चाचख्यौ मु०, खं० १ सू० । ५. सेत्स्यते चला० की० पु० आ० ता० । ६. तां च दृष्ट्वा खं० १ । ७. एवं विचिन्तयतस्तस्य राज्ञस्तत्र समा० खं० २ । ८. समाख्याय ता० पा०ला० १। ९. सममेतयोः खं० २ । १०. ० चिन्तकः ला० पा० ला १-२ की० पु० । ११. बुद्धिमान् खं० २, ला० । १२. ‘त्वं' इति ला०टि० । १३. तद् दूतवचनं, दिष्ट्या - आनन्दः । १४. विश्वसिमि । १५. सभामध्ये । १६. आमित्युदित्वा ला० । १७. धनसमीपे । १८. विशेषिता श्री: शोभा यस्याः सा । १९. सूर्यस्य पाणिग्रहणम् । २० तस्याः श्लोकोक्ति० ला० छा० । चातुर्योक्तिः । २१. चित्तविवर्तनम्० ता० सं० की० ला० खं० १, ला० २, छा० ।
Jain Education International
For Private Personal Use Only
www.jainelibrary.org