________________
२
कलिकालसर्वज्ञ श्रीहेमचन्द्राचार्यगुम्फितं
|इतश्च कुसुमपुरे पुरेऽभूत् पृथिवीपतिः । सिंहः सिंह इवौजस्वी यशस्वी रणकर्मसु ॥२१॥ चन्द्रलेखेव विमला विमला नाम तस्य तु । प्राणप्रिया महादेवी देवीवाऽभून् महीचरी ॥२२॥ तस्यां बहूनां पुत्राणामुपर्यनुपमाकृतिः । कन्या धनवती नाम जज्ञे सिंहमहीपतेः ॥२३॥ रैत्यादिरमणीरूपं जयन्ती रूपसम्पदा । क्रमेण ववृधे साऽथ कला जग्राह चाऽखिलाः ||२४|| [अन्यदा 'कुमुदानन्दे समये समुपस्थिते । सा सखीभिः परिवृता ययावुद्यानमीक्षितुम् ॥२५॥ फुल्लसप्तच्छदोद्भ्राम्यद्द्भ्रमरोद्गीतिबन्धुरे । 'पञ्चबाणबाणीभूतनवबाणद्रुकोरके ॥२६॥ उन्मत्तसारसद्वन्द्वक्रेङ्कारमुखरीकृते । स्वच्छाम्बुसरसीक्रीडत्कलहंसकुलाकुले ||२७|| गायदारामिकारम्यैरिक्षुवाटैर्मनोरमे । तत्रोपैंवनदेवीव स्वच्छन्दं विजहार सा ॥ २८ ॥ त्रिभिर्विशेषकम् ॥ [विहरन्ती च सा कञ्चिदशोकस्य तरोस्तले । एकं चित्रकरं चित्रपट्टिकापाणिनैक्षत ॥२९॥ तां चित्रपट्टिकां तस्माद् धनवत्याः सखी बलात् । कमलिन्याददे तत्र नररूपं ददर्श च ॥ ३० ॥ रूपेण विस्मिता तेन सा प्रोचे चित्रकृन्नरम् । कस्येदमद्भुतं रूपं सुरा - ऽसुर - नरेष्वहो !? ||३१|| यद्वा सम्भाव्यते नेदं तेषु रूपं कदाचन । स्वकौशलं दर्शयितुं स्वबुद्ध्यैवाऽऽलिखः खलु ॥३२॥ अनेकजननिर्माणश्रान्तस्य जरत विधेः । ईदृग्निर्माणर्निष्णत्वं कुतस्तस्य भविष्यति ? ||३३|| अथोचे चित्रकृत् स्मित्वा नाऽत्र मे चित्रकर्मणि । यथादृष्टलिखनीये मनागपि हि कौशलम् ||३४|| अयं खलु मयाऽलेखि युवा निरुपमाकृतिः । धनोऽचलपुराधीश श्रीविक्रमैधनात्मजः ||३५|| प्रत्यक्षं प्रेक्ष्य यस्तं हि प्रेक्षते चित्रवत्तिनम् । स कूटलेखक इति मां निन्दति मुहुर्मुहुः ||३६|| तमदृष्टवती त्वं तु मयाऽपि लिखितं ननु । दृष्ट्वा विस्मयसे मुग्धे ! कूपमण्डूकसन्निभा ||३७|| सुरस्त्रियोऽपि मुह्यन्ति दृष्ट्वा तद्रूपमद्भुतम् । मया स्वदृग्विनोदार्थमलेखि तु यथामति ||३८|| |[धनवत्यपि तत्रस्था शुश्राव च ददर्श च । " मकरध्वजबाणानां गोचरत्वमियाय च ॥३९॥ कमलिन्याललापैवं दृग्विनोदाय साध्विदम् । अलेखीरद्धतं रूपं तत्कल्योऽसि विवेक्यसि ||४०|| एवमुक्त्वा कमलिनी प्रारेभे गन्तुमग्रतः । तत्कालशून्यहृदया कथञ्चिद् धनवत्यपि ॥४१॥ व्यावृत्तवृन्तपद्माभमुखी पश्चाद् विलोकिनी । पदे पदे प्रस्खलन्ती गृहं धनवती ययौ ॥ ४२ ॥ चित्रस्थधनरूपेणाऽक्षिप्ता धनवती ततः । नाऽऽससाद रतिं क्वाऽपि मरालीव मेरौ गता ॥४३॥ विदाञ्चकार क्षामाङ्गी न तृष्णां न क्षुधां च सा । निशायामपि नाऽशेत वनाकृष्टेव वारणी ||४४ ।। स्मारं स्मारं धनरूपं लिखितं कीर्तितं च तत् । शिरःकम्पा -ऽङ्गुलीनृत्त-भ्रूक्षेपान् साऽकरोन् मुहुः ॥४५॥ धनध्यानपरवशा यद्यत् किञ्चिदचेष्टत । जन्मान्तरकृतमिव नाऽस्मरत् तत् तदाऽपि सा ॥ ४६॥ विमुक्र्तन-स्नान-चर्चा - ऽलङ्करणा सती । साऽहर्निशं धनं दध्यौ योगिनीवेष्टदेवताम् ॥४७॥ तामन्यदा कमलिनी पप्रच्छ कमलेक्षणे ! । केनाऽऽधिना व्याधिना वा बाध्यसे यदेंसीदृशी ? ॥४८॥ कृतकृत्रिमकोपा तामूचे धनवती ततः । बाह्यो जन इवैव त्वं किं पृच्छसि ? न वेत्सि किम् ? ॥४९॥
(अष्टमं पर्व
१. सिंहो हरिरिवौ० खं० २ । २. युद्धक्रियासु । ३. तस्या खं० १, ला० । ४. रत्यादिवररूपाणि पु० आ० । ५. कुमुदानामानन्दो - विकासो यस्मिन् समये - वसन्तऋतौ । ६. फुल्लत्सप्त० खं० १, ला० । ७. भ्रामरो० खं० १ । विकसितसप्तच्छदवृक्षेऽधिकं भ्राम्यतां भ्रमराणां उद्गीत्या - गायनेन बन्धुरं सुन्दरं, तस्मिन् । ८. कामदेवस्य बाणीभूता नूतना बाणवृक्षकोरका कलिका यस्मिन् तस्मिन् । ९. गायदारामकी० खं० १, ला० । गायदारामकै० की ० ला १, पु० आ० सं० । गायन्त्य आरामिका:- स्त्रियस्ताभी रम्यैः । १०. ०पवने देवीव खं० १-२, ला० विना । ११. चित्रपट्टिकायाम् । १२. सोचे चित्रकरं नरम् ला० । सोचे तं चित्रकृन्नरम् रसंपा० । १३. ० वालिखत् ला० । १४. वृद्धस्य । १५. निष्णत्वं प्रवीणत्वं पारङ्गतत्वं वा । १६. ० विक्रमनृपात्मजः खं० २ । १७. त्वमदृष्टवती तं तु ला० । १८. कामासक्ता बभूवेत्यर्थः । १९. तत्कल्पो० खं० १-२ विना । तद्विज्ञो० पु० । सज्ज:-कुशलः । २०. म्लानपद्मतुल्यमुखीत्यर्थः । २१. आकृष्टा । २२. मरुदेशे । २३. हस्तिनी । २४. ०द्वर्त्तन स्नान- शृङ्गाराभरणा पु० । २५. विलेपनम् । २६. कमलेक्षणाम् की० पु० । २७. यदसादृशी मु० ।
For Private Personal Use Only
Jain Education International
www.jainelibrary.org