Book Title: Trishashtishalakapurushcharitammahakavyam Parva 8 9
Author(s): Hemchandracharya, Ramnikvijay Gani
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 30
________________ प्रथमः सर्गः ) श्रीत्रिषष्टिशलाकापुरुषचरितम् । द्वितीयं हृदयं मेऽसि जीवितव्यं ममाऽसि वा । नहि त्वं मे सखीमात्रं त्वत्प्रश्नेनाऽस्मि लज्जिता ॥५०॥ ऊचे कमलिनी युक्तमुपालब्धाऽस्मि मानिनि ! । मनःशल्यमहं जाने तवोत्तुङ्गं मनोरथम् ॥५१॥ धनं कामयसे नूनं तस्मादालेख्यदर्शनात् । यदेज्ञयेव पृष्टाऽसि मया तन्नैर्ममात्रकम् ॥५२॥ स्थानेऽनुरागं ते ज्ञात्वा सचिन्ता तत्प्रभृत्यपि । अपृच्छं ज्ञानिनं किं स्यान्मत्सख्याश्चिन्तितो वरः ? ॥ ५३ ॥ भावीति सोऽपि चाऽवोचद् दर्शितप्रत्ययः सदा । तद्धीरा भव शीघ्रं ते सेत्स्यत्येव मनोरथः ॥५४॥ तयेत्याश्वासिता धैर्यं भेजे धनवती तदा । पितरं वन्दितुं चागाद् दिव्यनेपथ्यधारिणी ||५|| तां विसृज्य पिता दध्यौ वरार्हेयं सुता मम । कोऽनुरूपो वरोऽमुष्या भविष्यति महीतले ? ॥ ५६ ॥ एवं चिरं चिन्तयतस्तस्य राज्ञः समाययौ । प्राक्प्रेषितो निजो दूतः श्रीविक्रमधनान्नृपात् ॥५७॥ राजकार्यं स आख्याय स्थितः सन् सिंहभूभुजा । तत्राऽपश्यः किमाश्चर्यमित्युक्तः सोऽवदत् पुनः ॥५८॥ तदपश्यं न यद् विद्याधरेष्वपि सुरेष्वपि । धनस्य विक्रमधनसूनो रूपं मनोरमम् ॥५९॥ तदैवाऽचिन्तयं योग्यो धनवत्या वरो ह्ययम् । स्रष्टुः सृष्टिप्रयासोऽस्तु सफलः 'सङ्गमेऽनयोः ||६०|| प्रीतो राजाऽब्रवीत् साधु स्वयं मत्कार्यचिन्तकें ! । मां कन्यावरचिन्ताब्धिमग्नमुद्धृतवानसि ॥६९॥ तद् धनस्य धनवती-सम्प्रदानाय बुद्धिमन्"'! । गेच्छाऽद्य विक्रमधनं प्रार्थयस्व ममाऽऽज्ञया ॥६२॥ तदा चन्द्रवती नाम धनवत्यनुजाऽऽययौ । पितरं वन्दितुं तच्चाऽ श्रौषीत् सर्वं तयोर्वचः ||६३ || ययौ स दूतः स्वगृहं मुदिता चन्द्रवत्यपि । एत्याऽऽचख्यौ धनवत्यै तद्दिष्ट्याऽऽलापपूर्वकम् ॥६४॥ धनवत्यप्युवाचैवं प्रत्येम्येतद्गिरा न हि । अज्ञानेन वदत्येषा परमार्थं न बुध्यते ॥६५॥ स दूतः प्रेषितो मन्ये कार्येणाऽन्येन केनचित् । इयं तु मुग्धा मत्कार्यमवबुद्धवती खलु ॥६६॥ कमलिन्यब्रवीदत्र दूतः सोऽद्यापि तिष्ठति । जानीहि तन्मुखात् को हि दीपे सत्यग्निमीक्षते ? ॥६७॥ इत्युक्त्वा भावविज्ञा सा तत्र तं दूतमानयत् । अश्रौषीत् तन्मुखात् सर्वं हृष्टा धनवती स्वयम् ॥६८॥ अर्पणीयो धनस्याऽयं मल्लेख इति भाषिणी । धनवत्यार्पयत् तस्य लिखित्वा पत्रकं स्वयम् ॥ ६९ ॥ ततः स दूतः प्रययौ पुरेऽचलपुरे द्रुतम् । अन्तरास्थानमासीनमुपतस्थे च विक्रमम् ॥७०॥ तमूचे विक्रमः कच्चित् कुशलं सिंहभूपते: ? । शीघ्रं भूयस्त्वदागत्या विकल्पैः प्लाव्यते मनः ॥७१॥ सोऽप्यूचे कुशलं, सिंह इह मां प्राहिणोत् पुनः । सुतां धनवतीं दातुं त्वत्सुताय धनाय सः ॥७२॥ यथा धनकुमारोऽयं रूपोत्कृष्टस्तथैव सा । अस्तूचितोऽनयोर्योगः स्वर्ण-मण्योरिवाधुना ॥ ७३॥ अग्रेऽपि युवयोः स्नेहः सम्बन्धेनाऽमुना पुनः । विशिष्टो भवताद् वारि-सेकेनेव महीरुहः ||७४|| आमेत्युदित्वा नृपतिः सत्कृत्य विससर्ज तम् । जगामोपधनं सोऽपि द्वारपालनिवेदितः ॥७५॥ नत्वोपविश्य शंसित्वा स स्वं चाऽऽगमकारणम् । प्रैषीदं धनवत्येति जल्पन् पत्रकमार्पयत् ॥७६॥ तन्मुद्रां धनकुमारः स्फोटयित्वा स्वपाणिना । तत्पत्रं वाचयामास मदनस्येव शासनम् ॥७७|| ‘विशेषितश्री:“ शरदा यौवनेनेव पद्मिनी । परिम्लानमुखी वाञ्छत्यादित्यकरपीडनम् ॥७८॥ दध्यौ धनोऽपि काऽप्येषा तस्याश्छेकौं क्तिरद्भुता । स्नेहातिशयमाख्याति मयि चिंतैविवर्तिनम् ॥७९॥ विमृश्येति स्वहस्तेन लिखित्वा सोऽपि पत्रकम् । धनवत्यै तस्य हस्ते हारेण सममार्पयत् ||८०|| ३ १. चित्रदर्शनात्; ०दालिख्य० ला० । २. यदा ज्ञयैव खं० २ । ३. हास्यमात्रम् । ४. चाचख्यौ मु०, खं० १ सू० । ५. सेत्स्यते चला० की० पु० आ० ता० । ६. तां च दृष्ट्वा खं० १ । ७. एवं विचिन्तयतस्तस्य राज्ञस्तत्र समा० खं० २ । ८. समाख्याय ता० पा०ला० १। ९. सममेतयोः खं० २ । १०. ० चिन्तकः ला० पा० ला १-२ की० पु० । ११. बुद्धिमान् खं० २, ला० । १२. ‘त्वं' इति ला०टि० । १३. तद् दूतवचनं, दिष्ट्या - आनन्दः । १४. विश्वसिमि । १५. सभामध्ये । १६. आमित्युदित्वा ला० । १७. धनसमीपे । १८. विशेषिता श्री: शोभा यस्याः सा । १९. सूर्यस्य पाणिग्रहणम् । २० तस्याः श्लोकोक्ति० ला० छा० । चातुर्योक्तिः । २१. चित्तविवर्तनम्० ता० सं० की० ला० खं० १, ला० २, छा० । Jain Education International For Private Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282