Book Title: Trishashtishalakapurushcharitammahakavyam Parva 8 9
Author(s): Hemchandracharya, Ramnikvijay Gani
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 53
________________ २६ कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यगुम्फितं (अष्टमं पर्व सप्तभिर्वासरैस्तेन तीर्णवानहमम्बुधिम् । उर्दुम्बरावतीवेलं नाम तीरमुपोगमम् ॥२२०।। तत्र राजपरं नाम कथमप्याप्तवान् पुरम् । बहिस्तस्याऽऽश्रमपदे गतोऽस्म्यद्दामपादपे ॥२२१।। त्रिदण्डिनं दिनकरप्रभ इत्यभिधानतः । तत्राऽद्राक्षं परिव्राजं तस्याऽऽख्यं स्वकुलादिकम् ।।२२२।। पातेन चाऽस्म्युपचरितः पुत्रवत् प्रीतचेतसा । अन्येधुर्भणितश्चाऽहं धनार्थीव विभाव्यसे ।।२२३।। तदेहि वत्स ! गच्छावः पर्वतं तत्र ते रसम् । दास्यामि येन कनककोटयः स्युर्यथारुचि ॥२२४॥ एवं चोक्तस्तेन समं चलितोऽहं प्रमोदभाक् । अनेकसाधकां प्राप्तोऽस्म्यपरेऽह्नि महाटवीम् ॥२२५।। गच्छन्तौ तस्य शैलस्य नितम्बेऽथ महाबिलम् । बयन्त्रशिलाकीर्णं गतौ यममुखोपमम् ॥२२६।। मन्त्रेणोद्धाटयामास तद् द्वारं स त्रिदण्डिकः । प्रविष्टौ दुर्गपातालाभिधानं तन्महाबिलम् ॥२२७।। भ्रान्त्वा तत्र बहु प्राप्तौ कूपं रसनिकेतनम् । चतुर्हस्तप्रविस्तारं नरकद्वारदारुणम् ।।२२८।। कूपान्तः प्रविशाऽऽदत्स्वाऽलाबुना रसमित्यहम् । उक्तस्तद्धतरज्ज्वाऽथ कूपे मञ्चिकयाऽविशम् ॥२२९।। चतुष्पुरुषपर्यन्ते मेखलापरिवारितः । दृष्टो मया रसस्तत्र निषिद्धश्चाऽस्मि केनचित् ।।२३०॥ अवोचमहमप्येवं चारुदत्तोऽस्मि वाणिजः । प्रवेशितो भगवता रसाथ किं निषेधसि ? ॥२३१।। सोऽप्यवोचद् वणिगस्मि धनकाङ्क्षी त्रिदण्डिना । तेन क्षिप्तो रसकूपे बलये पशुमांसवत् ।।२३२॥ सोऽगात् पापोऽपरेकायो भक्षितश्च रसेन मे । मा विशस्तदिहाऽलाबुन्यहं क्षेप्स्यामि ते रसम् ॥२३३।। ततो मयाऽर्पितालाबु पूरयित्वा रसेन सः । अबध्नान् मञ्चिकाधस्ताद् रज्जु चाऽहमकम्पयम् ।।२३४॥ रज्जुमकर्षद् भगवांस्तटासन्नगतं से माम् । अयाचद्रसपात्रं तन्न चोत्तारयति स्म सः ॥२३५।। तं च लुब्धं द्रोहिणं च ज्ञात्वा कूपेऽक्षिपं रसम् । समञ्चिकं सोऽक्षिपन् मां तत्र वेद्यामथाऽपतम् ॥२३६।। स चाकारणबन्धुमिभाषत विषीद मा । रसान्तन गतोऽसि त्वं साधु वेदौ स्थितोऽसि च ॥२३७।। यदा तदाऽत्रैति गोधा तत्पुच्छमवलम्ब्य भोः ! । गन्तव्यं भवता द्वारे प्रतीक्षस्व तदागमम् ।।२३८।। कालं कियन्तमप्यस्थां नमस्कारं गुणन्मुहुः । स्वस्थस्तद्वचसा चाऽहं पुमान् सोऽपि व्यपद्यत ॥२३९।। अन्यदा शब्दमश्रौषं भीषणं चकितस्त्वहम् । स्मृत्वा च तद्वचोऽवेदं सा गोधाऽऽयाति निश्चितम् ॥२४०।। साऽऽगात् पातुं रसं तस्या वलिताया महौजसः । उभाभ्यामपि हस्ताभ्यां लाङ्गले लग्नवानहम् ।।२४१।। गोपाल इव गोपुच्छलग्नो नद्यास्ततोऽवीत् । तत्पुच्छलग्नो निरगां तत्पुच्छं चाऽमुचं बहिः ॥२४२।। मूच्छितश्चाऽपतं भूमौ लब्धसंज्ञोऽथ पर्यटन् । प्राप्तोऽस्म्यरण्यॆमहिषेणाऽऽरूढश्च शिलामहम् ॥२४३।। ताडयंस्तुङ्गशृङ्गेण तां शिलां महिषोऽथ सः । गृहीतो वाहसेनाऽऽशु कीनाशस्येव बाहुना ॥२४४।। तयोर्युद्व्यग्रयोश्चाहं समुत्तीर्य पलायितः । वेगेन गतवान् ग्राममटवीप्रान्तवर्तिनम् ॥२४५।। पातत्र मातलमित्रेण रुद्रदत्तेन वीक्षितः । पालितश्चाथ भूयोऽपि पुनर्नव इवाऽभवम् ।।२४६।। गृहीत्वाऽलैंक्तकप्रायं भाण्डं तुच्छमहं ततः । अचालिषं तेन सह स्वर्णभूमिं प्रति द्रुतम् ।।२४७|| इषुवेगवतीं नाम पथि चोत्तीर्य निम्नगाम् । गिरिकूटे गतावावां ततो वेत्रवने क्रमात् ॥२४८।। प्राप्तौ टङ्क्षणदेशं च गृहीत्वा द्वौ च मेषकौ । तदारूढा-वजपथं" कान्तवन्तौ ततः परम् ॥२४९।। १. उदम्बरा० पा.की.आ.पु.मु० । २. मुपागतः खं० २ । ३. राजपुरी खं० १, ला० । ४. स्वं कुलादि च सू० । स्वकुलादि च खं० १, ला० । ५. धनार्थीति खं० २ । ६. अनेकश्वापदां ला० । ७. ० स्म्यपराह्ने ला० । ८. प्रविष्टो खं० २, ला० । ९. प्राप्तो खं० १ । प्राप्तः ला० । १०. तुम्बिकया ! ११. रसार्थे खं० २, सू० । १२. ०पापः परं कायो ला० । मम अध:शरीरम् । १३. रज्जु चकर्ष ला०आ., खं० १, ला० सू०म० । १४. ०स्तटासन्नं ला०पा०ला० २ मु० । १५. च खं०१, ला० । १६. माम् मु० । १७. ०ाँ वणिगूचे खं० १, सू०म० । १८. नमस्कारपरायणः ता. । १९. गुणन् मु०र० । २०. तद्वचो दध्यौ ला० । २१. तस्याश्चलि० ला० । २२. कूपात् । २३. प्राप्तोऽस्म्यरण्यं मु० । २४. ०स्तुण्ड० ता०सं० छा०ला० २, खं० १-२, ला०सू० । २५. 'अजगरेण' लाटि. । २६. यमराजस्य । २७. गृहीत्वा लक्षक० मु० । २८. ढङ्कण० ला १, पा० । २९. अजेन गम्यते यस्मिन् मार्गे सोऽजपथः । Jain Education International For Private & Personal Use Only www.jainelibrary.org,

Loading...

Page Navigation
1 ... 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282