________________
२६
कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यगुम्फितं
(अष्टमं पर्व
सप्तभिर्वासरैस्तेन तीर्णवानहमम्बुधिम् । उर्दुम्बरावतीवेलं नाम तीरमुपोगमम् ॥२२०।। तत्र राजपरं नाम कथमप्याप्तवान् पुरम् । बहिस्तस्याऽऽश्रमपदे गतोऽस्म्यद्दामपादपे ॥२२१।। त्रिदण्डिनं दिनकरप्रभ इत्यभिधानतः । तत्राऽद्राक्षं परिव्राजं तस्याऽऽख्यं स्वकुलादिकम् ।।२२२।। पातेन चाऽस्म्युपचरितः पुत्रवत् प्रीतचेतसा । अन्येधुर्भणितश्चाऽहं धनार्थीव विभाव्यसे ।।२२३।। तदेहि वत्स ! गच्छावः पर्वतं तत्र ते रसम् । दास्यामि येन कनककोटयः स्युर्यथारुचि ॥२२४॥ एवं चोक्तस्तेन समं चलितोऽहं प्रमोदभाक् । अनेकसाधकां प्राप्तोऽस्म्यपरेऽह्नि महाटवीम् ॥२२५।। गच्छन्तौ तस्य शैलस्य नितम्बेऽथ महाबिलम् । बयन्त्रशिलाकीर्णं गतौ यममुखोपमम् ॥२२६।। मन्त्रेणोद्धाटयामास तद् द्वारं स त्रिदण्डिकः । प्रविष्टौ दुर्गपातालाभिधानं तन्महाबिलम् ॥२२७।। भ्रान्त्वा तत्र बहु प्राप्तौ कूपं रसनिकेतनम् । चतुर्हस्तप्रविस्तारं नरकद्वारदारुणम् ।।२२८।। कूपान्तः प्रविशाऽऽदत्स्वाऽलाबुना रसमित्यहम् । उक्तस्तद्धतरज्ज्वाऽथ कूपे मञ्चिकयाऽविशम् ॥२२९।। चतुष्पुरुषपर्यन्ते मेखलापरिवारितः । दृष्टो मया रसस्तत्र निषिद्धश्चाऽस्मि केनचित् ।।२३०॥ अवोचमहमप्येवं चारुदत्तोऽस्मि वाणिजः । प्रवेशितो भगवता रसाथ किं निषेधसि ? ॥२३१।। सोऽप्यवोचद् वणिगस्मि धनकाङ्क्षी त्रिदण्डिना । तेन क्षिप्तो रसकूपे बलये पशुमांसवत् ।।२३२॥ सोऽगात् पापोऽपरेकायो भक्षितश्च रसेन मे । मा विशस्तदिहाऽलाबुन्यहं क्षेप्स्यामि ते रसम् ॥२३३।। ततो मयाऽर्पितालाबु पूरयित्वा रसेन सः । अबध्नान् मञ्चिकाधस्ताद् रज्जु चाऽहमकम्पयम् ।।२३४॥ रज्जुमकर्षद् भगवांस्तटासन्नगतं से माम् । अयाचद्रसपात्रं तन्न चोत्तारयति स्म सः ॥२३५।। तं च लुब्धं द्रोहिणं च ज्ञात्वा कूपेऽक्षिपं रसम् । समञ्चिकं सोऽक्षिपन् मां तत्र वेद्यामथाऽपतम् ॥२३६।। स चाकारणबन्धुमिभाषत विषीद मा । रसान्तन गतोऽसि त्वं साधु वेदौ स्थितोऽसि च ॥२३७।। यदा तदाऽत्रैति गोधा तत्पुच्छमवलम्ब्य भोः ! । गन्तव्यं भवता द्वारे प्रतीक्षस्व तदागमम् ।।२३८।। कालं कियन्तमप्यस्थां नमस्कारं गुणन्मुहुः । स्वस्थस्तद्वचसा चाऽहं पुमान् सोऽपि व्यपद्यत ॥२३९।। अन्यदा शब्दमश्रौषं भीषणं चकितस्त्वहम् । स्मृत्वा च तद्वचोऽवेदं सा गोधाऽऽयाति निश्चितम् ॥२४०।। साऽऽगात् पातुं रसं तस्या वलिताया महौजसः । उभाभ्यामपि हस्ताभ्यां लाङ्गले लग्नवानहम् ।।२४१।। गोपाल इव गोपुच्छलग्नो नद्यास्ततोऽवीत् । तत्पुच्छलग्नो निरगां तत्पुच्छं चाऽमुचं बहिः ॥२४२।। मूच्छितश्चाऽपतं भूमौ लब्धसंज्ञोऽथ पर्यटन् । प्राप्तोऽस्म्यरण्यॆमहिषेणाऽऽरूढश्च शिलामहम् ॥२४३।। ताडयंस्तुङ्गशृङ्गेण तां शिलां महिषोऽथ सः । गृहीतो वाहसेनाऽऽशु कीनाशस्येव बाहुना ॥२४४।। तयोर्युद्व्यग्रयोश्चाहं समुत्तीर्य पलायितः । वेगेन गतवान् ग्राममटवीप्रान्तवर्तिनम् ॥२४५।। पातत्र मातलमित्रेण रुद्रदत्तेन वीक्षितः । पालितश्चाथ भूयोऽपि पुनर्नव इवाऽभवम् ।।२४६।। गृहीत्वाऽलैंक्तकप्रायं भाण्डं तुच्छमहं ततः । अचालिषं तेन सह स्वर्णभूमिं प्रति द्रुतम् ।।२४७|| इषुवेगवतीं नाम पथि चोत्तीर्य निम्नगाम् । गिरिकूटे गतावावां ततो वेत्रवने क्रमात् ॥२४८।।
प्राप्तौ टङ्क्षणदेशं च गृहीत्वा द्वौ च मेषकौ । तदारूढा-वजपथं" कान्तवन्तौ ततः परम् ॥२४९।। १. उदम्बरा० पा.की.आ.पु.मु० । २. मुपागतः खं० २ । ३. राजपुरी खं० १, ला० । ४. स्वं कुलादि च सू० । स्वकुलादि च खं० १, ला० । ५. धनार्थीति खं० २ । ६. अनेकश्वापदां ला० । ७. ० स्म्यपराह्ने ला० । ८. प्रविष्टो खं० २, ला० । ९. प्राप्तो खं० १ । प्राप्तः ला० । १०. तुम्बिकया ! ११. रसार्थे खं० २, सू० । १२. ०पापः परं कायो ला० । मम अध:शरीरम् । १३. रज्जु चकर्ष ला०आ., खं० १, ला० सू०म० । १४. ०स्तटासन्नं ला०पा०ला० २ मु० । १५. च खं०१, ला० । १६. माम् मु० । १७. ०ाँ वणिगूचे खं० १, सू०म० । १८. नमस्कारपरायणः ता. । १९. गुणन् मु०र० । २०. तद्वचो दध्यौ ला० । २१. तस्याश्चलि० ला० । २२. कूपात् । २३. प्राप्तोऽस्म्यरण्यं मु० । २४. ०स्तुण्ड० ता०सं० छा०ला० २, खं० १-२, ला०सू० । २५. 'अजगरेण' लाटि. । २६. यमराजस्य । २७. गृहीत्वा लक्षक० मु० । २८. ढङ्कण० ला १, पा० । २९. अजेन गम्यते यस्मिन् मार्गे सोऽजपथः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org,