________________
द्वितीयः सर्गः)
श्रीत्रिषष्टिशलाकापुरुषचरितम् ।
स्मित्वोचे वसुदेवोऽपि वद यत् ते मतं कुलम् । श्रेष्ठ्यप्यूचे वणिक्पुत्रीत्यदस्ते स्मितकारणम् ॥१८७।। समये कथयिष्यामि पुत्र्या वृत्तान्तमादितः । इत्युक्त्वाऽकारयच्छ्रेष्ठी विवाहं वर-कन्ययोः ॥१८८।। तौ सुग्रीव-यशोग्रीवौ स्वे श्यामा-विजयाद्वये । कन्यके वसुदेवाय ददतुर्गुणरञ्जितौ ॥१८९॥
अपरेधुर्वसुदेवं चारुदत्तोऽब्रवीदिति । शृणु गन्धर्वसेनायाः सर्वमद्य कुलादिकम् ॥१९०॥ पाइहैव पुयाँ श्रेष्ठ्यासीद् भानु म महाधनः । तस्य भार्या सुभद्रेति तावपुत्रत्वदुःखितो ॥१९१।। सुतजन्माऽन्यदा पृष्टस्तकाभ्यां चारणो मुनिः । भावीत्याख्याय स ययौ क्रोच्चाऽहं सुतोऽभवम् ॥१९२॥ मित्रैः सहैकदा क्रीडन्नपश्यं सिन्धुरोधसि । आकाशगामिन: कस्याऽप्यहिन्यासं मनोहरम् ॥१९३॥ स्त्रीपदैः सप्रिय इति ज्ञातोऽसावग्रतोऽपि च । रम्भागृहं पुष्पतल्पं फलका-ऽसी च दृष्टवान् ॥१९४॥ तत्राऽदूरे लोहकीलैः खेचरं कीलितं द्रु) । अद्राक्षं तदसे: कोशे चौषधीवलयत्रयम् ॥१९५।।
स तु तास्वेकयौषध्या स्वबुद्ध्या मोचितो मया । संरोहितोऽन्ययाऽकारि चेतनस्तु तृतीयया ॥१९६।। पास मामवोचद् वैताढये नगरे शिवमन्दिरे । महेन्द्रविक्रमनृपात्मजोऽमितगतियहम् ॥१९७।।
सुहृदा धूमशिखेन गौरमुण्डेन चाऽन्वितः । अहं क्रीडन्नेकदाऽगां हीमन्तं वरपर्वतम् ॥१९८॥ हिरण्यरोम्नस्तत्राऽहं स्वमातुलतपस्विनः । कुमारी दृष्टवान् रम्यां नामतः सुकुमालिकाम् ।।१९९।। गतः स्मरातः स्वं स्थानं मित्राद् ज्ञात्वा च मां तथा । पित्रा सद्यः समानाय्य तयाऽहं परिणायितः ॥२००।। रममाणस्तया सार्धमहमस्थामथाऽन्यदा । अभिलाषी धूमशिखस्तस्यां ज्ञातो मयेङ्गितैः ॥२०१॥ तथाऽप्यहं तेन सह व्यहार्षमिह चाऽऽगतः । प्रमत्तः कीलितस्तेन हृता च सुकुमालिका ॥२०२॥ भवता मोचितश्चास्मि ब्रहि किं करवाणि ते? । तवाऽकारणमित्रस्य येन स्यामनणः सखे ! ॥२०३।।
अहं त्वदर्शनेनाऽपि कृतकृत्योऽस्मि सुन्दर ! । एवं मया भाषितोऽथ सोऽगादुत्पत्य खेचरः ॥२०४॥ पाअहं च गतवान् वेश्म मित्रैः क्रीडन् यथासुखम् । क्रमाच्च यौवनं प्राप्तः पित्रोर्नेत्रोत्सवं ददत् ॥२०५।। सर्वार्थमातुलसुतां नाम्ना मित्रवतीमहम् । ततः पित्रोनिदेशेन शुभेऽह्नि परिणीतवान् ॥२०६॥ कलासक्तश्च तस्यां नाऽभूवं भोगपरायणः । तथा दृष्ट्वा पितृभ्यां च मुग्धोऽसाविति तकितः ॥२०७॥ ललितायां ततो गोष्ठ्यामहं वैदग्ध्यहेतवे । क्षिप्तः पितृभ्यां व्यचरं स्वैरं चोपवनादिषु ॥२०८॥ कलिङ्गसेनादुहितुः सदने विलसन्नहम् । वसन्तसेनावेश्याया द्वादशाब्दानि तस्थिवान् ॥२०९॥ व्ययितास्तत्र चाऽज्ञानात् षोडश स्वर्णकोटयः । कलिङ्गसेनया निःस्व इति निर्वासितोऽस्मि च ॥२१०॥
मृत्युं ज्ञात्वा ततः पित्रो१ःस्थो धैर्यं प्रपद्य च । वाणिज्यार्थं स्वभार्याया भूषणानि गृहीतवान् ॥२११॥ पामातुलेन सहाऽन्येधुश्चलितो भूषणैस्तु तैः । शीरवर्तिनगरे कसं क्रीतवानहम् ॥२१२॥
तोमलिप्त्यां गच्छतो मे स कर्पासो दवाग्निना । दग्धो निर्भाग्य इति च मातुलेनाऽहमुज्झितः ॥२१३।। पाअश्वारूढस्ततश्चैकोऽप्यचलं पश्चिमां-प्रति । विपन्नः सोऽपि चाऽश्वो मे पादचारी ततोऽभवम् ॥२१४|| द्राँघीयसाऽध्वना क्लान्तः क्षुत्-पिपासाकरालितः । अगां प्रियङ्गनगरं वणिग्जनसमाकुलम् ॥२१५॥ दृष्टः सुरेन्द्रदत्तेन पितृमित्रेण तत्र च । पुत्रवद् वस्त्र-भोज्याद्यैः सत्कृतोऽस्थां यथासुखम् ॥२१६॥ वृद्ध्याऽऽदाय द्रव्यलक्षं वार्यमाणोऽपि तेनं च । धनायोपात्तभाण्डोऽहं यानेनाऽविशमम्र्बुधौ ॥२१७।। प्राप्याऽथ यमुनाद्वीपमन्तीप-पुरादिषु । कुर्वन् गतागतं स्वर्णकोटिरष्टाऽहमार्जयम् ॥२१८|| पाततः स्वदेशाभिमुखं चलितोऽहं जलाध्वना । स्फुटितं यानपात्रं च फलकं चैकमासदम् ॥२१९॥ १. ०र्नामा खं० १ । २. क्रमात्त्वहं मु० । ३. समुद्रतीरे । ४. वीक्षिताः खं० २, सू०, ता.सं.ला० । वीक्षितम् पा० आ० । ५. वृक्षेण । ६. व्रणरहितः । ७. ०रोम्ण० खं० २ । ८. स्वस्थानं खं० १ । ९. ०श्चास्मिन् खं० १।१०. करवाण्यतः छा० की० ला २, मु०। ११. व्यचरं पितृभ्यां खं० ११ १२. निर्धनः । १३. वाणिज्यार्थं मु० । १४. उसीरवर्ते न० खं० २ । १५. ताम्र० मु० । १६. ततोऽचरम् ता०सं० । १७. अतिदीर्घेण । १८. 'व्याज' इति भाषायाम् । १९. तत्र खं० २ । २०. पोतेना० ला० । २१. ०मम्बुधिम् मु०।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org