________________
कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यगुम्फितं
(अष्टमं पर्व
अर्हच्चैत्यसमासन्नं सस्त्रीकं साधुपार्श्वगम् । यो हनिष्यति सद्विद्योऽप्यविद्यः स भविष्यति ॥१५६।। इत्यस्मात् कारणात् स्वामिन्नवियोगो वृतो मया । मा व एकाकिनः पापोऽङ्गारकः प्रमथीदिति ॥१५७॥ प्रतिपद्येति तद्वाचं दशमोऽन्धकवृष्णिभूः । तया सह कलाभ्यासविनोदैः कालमत्यगात् ॥१५८॥ पातया सहाऽन्यदा सुप्तं तं जहेऽङ्गारको निशि । प्रबुद्धो वसुदेवोऽपि को मां हर्तेत्यचिन्तयत् ॥१५९।।
अङ्गारकं स प्रैक्षिष्ट श्यामाननसमाननम् । श्यामां च तिष्ठ तिष्ठेति जल्पन्तीमसिधारिणीम् ॥१६०॥ तामङ्गारो द्विधाऽकार्षीद् वसुदेवश्च पीडितः । द्वे श्यामे अभितोऽङ्गारं युद्ध्यमाने ददर्श च ॥१६१॥ इयं मायेति निश्चित्य वसुदेवोऽथ मुष्टिना । जघानाऽङ्गारकं मूनि पविनेवाऽचलं हरिः ॥१६२॥ प्रहारार्तेन वार्ष्णेयस्तेन मुक्तो नभस्तलात् । पपात पुर्याश्चम्पाया बहि: सरसि विस्तृते ॥१६३।। तत्सरो हंसवत् ती| तत्तीरोपवनस्थितम् । वसुदेवो वासुपूज्यायतनं प्राविशत् सुधीः ॥१६४॥ श्रीवासुपूज्यं वन्दित्वा निशाशेषमतीत्य च । ययौ स चम्पामेकेन मिलितेन द्विजन्मना ।।१६५।। वीणापाणीस्तत्र यूनः स्थाने स्थाने निरीक्ष्य सः । द्विजं पप्रच्छ तद्धेतुं द्विजोऽप्येवमभाषत ॥१६६।। श्रेष्ठीह चारुदत्तोऽस्ति तस्य रूपवती सुता । नाम्ना गन्धर्वसेनेति कलानामेकमास्पदम् ॥१६७।। गान्धर्वे यो विजेता मे स भर्तेति प्रतिश्रवः । तस्यास्तेनैष सर्वोऽपि गान्धर्वनिरतो जनः ॥१६८॥ मासे मासे च सुग्रीव-यशोग्रीवाभिधानयोः । गान्धर्वाचार्ययोरग्रेऽनुयोगोऽत्र प्रवर्तते ॥१६९॥ प्रकृष्टं तत्र सुग्रीवं विप्ररूपेण वृष्णिः । गत्वोवाच स्कन्दिलोऽहं विप्रो गौतमगोत्रजः ॥१७०।। अहं गन्धर्वसेनार्थी गान्धर्वं तव सन्निधौ । अध्येष्ये प्रतिपद्यस्व शिष्यं मां दूरदेशिनम् ॥१७१।। तं मूर्ख इति सुग्रीवोऽनादरेण समीपगम् । चकार मन्दधीधूलिच्छत्ररत्नमिवाऽविदन् ॥१७२।। वार्ष्णेयो हासयन् लोकान् ग्राम्योक्त्या स्वं च गोपयन् । गान्धर्वाध्ययनव्याजात् तस्थौ सुग्रीवसन्निधौ ॥१७३॥ सुग्रीवभार्यया वाददिने शौरेः समर्पितम् । वासोयुग्मं सुतस्येव स्नेहाद् विशदशोभनम् ॥१७॥ प्राश्यामादत्तनेपथ्यं तच्च वासोद्वयं नवम् । पर्यधत्त वसुदेवो जनयन् जनकौतुकम् ॥१७५॥ एहि मन्येऽद्य गन्धर्वसेनां जेष्यसि विद्यया । अतिगान्धर्वविज्ञोऽसीत्यहस्यत स नागरैः ॥१७६।। तन्नर्मभिः प्रीयमाणः स ययौ तत्र पर्षदि । सोपहासैनरैरुच्चासनमध्यास्यते स्म च ॥१७७|| गन्धर्वसेना तत्राऽऽगाद् भूचरीव द्युसद्वधूः । सा गन्धर्वविदोऽजैषीद् बहून् स्व-परदेशिनः ॥१७८।। स्वस्य वादक्षणे प्राप्ते समुद्रविजयानुजः । आविश्चक्रे निजं रूपं कामरूपसुरोपमः ॥१७९।। गन्धर्वसेना तद्रूपं प्रेक्ष्य चुक्षोभ तत्क्षणात् । जनो विसिष्मिये सर्वः कोऽसाविति वितर्कयन् ॥१८०॥ लोकैर्या याऽर्पिता वीणा तां तां सोऽदूषयत् सुधीः । गन्धर्वसेना स्वां वीणां ततस्तस्याऽऽर्पयत् स्वयम् ॥१८१॥ सज्जयित्वा च तां वीणां स ऊचे सुभ्र ! कि मया । अनया वीणया गेयं ? साऽप्येवं प्रत्यवोचत ।।१८२॥ मुनेर्विष्णुकुमारस्य पद्मचक्रयग्रॅजन्मनः । त्रिविक्रमाभिसम्बद्धं गीतं गीतज्ञ ! वादय ॥१८३॥ तथा जगौ च वार्ष्णेयः पुंवेषेव सरस्वती । यथा जिगाय गन्धर्वसेनां पार्षद्यसम्मतम् ॥१८४।। चारुदत्तस्ततः श्रेष्ठी व्यसृजद् वादिनोऽखिलान् । स्वगृहे वसुदेवं च गौरवेणाऽनयत् स्वयम् ॥१८५॥ विवाहकाले श्रेष्ठ्यूचे गोत्रमुद्दिश्य वत्स ! किम् ? । स्वकन्यासम्प्रदानं ते करोमि ब्रूहि सुन्दर ! ॥१८६।। १. मैवमेका० ला० । २. स वधीदिति मु० । ३. ०वृष्णिसूः मु० सं. १, ला० । ४. श्यामाननः कपिः, तेन समं आननं यस्य । ५. ०ङ्गारकमूनि खं० १, ला०, मु० । ६. इन्द्रः । ७. ०पाणीन् जनांस्तत्र ला० । ८. गन्धर्वे ता. सं. ला० १, पु. । ९. गान्धर्वे नि० खं० २ । सङ्गीते । १०. गन्धर्वा० खं० २ । ११. परीक्षा । १२. प्रकृष्टस्तत्र खं० २ । १३. विप्रवेषेण ला०मु०, खं० १-२, ला० सू० । १४. वृष्णिभूः सू० । १५. ०धूलिच्छन्नं रत्न० खं० २, ला० । १६. गन्धर्वा० खं० २ । १७. पर्यधात् की० । १८. जेष्यति खं० १ । १९. ०र्वविद्योऽसी० ता. सं. । २०. उपहासैः । २१. सः मु० । २२. देवाङ्गना । २३. गान्धर्व० ला० । २४. कामरूपं मु० । २५. ०पमम् ता० सं०की०ला०पा०म० । २६. पद्मनामकस्य चक्रिणो ज्येष्ठबन्धोः । २७. ०नुजन्मनः ता०सं०की० । २८. पार्षद्यसंयुताम् मु० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org