________________
द्वितीयः सर्गः)
श्रीत्रिषष्टिशलाकापुरुषचरितम् ।
आमेत्युक्त्वा वसुदेवो विनीतोऽस्थात् तथैव हि । विनोदैर्गीतनृत्ताद्यैदिवसानतिवाहयन् ।।१२३।। तत्राऽऽपतन्ती सोऽन्येद्यं कुब्जिकां गन्धधारिणीम् । पप्रच्छाऽयं कस्य कृते गन्धः ? साऽप्येवमब्रवीत् ॥१२४।। गन्धद्रव्यं कुमारेदं शिवादेव्याऽधुना स्वयम् । श्रीमत्समुद्रविजयनिमित्तं प्रेषितं खलु ॥१२५।। ममाऽप्युपकरोत्येतदिति जल्पन् जहार तत् । गन्धद्रव्यं वसुदेवकुमारो नर्मलीलया ॥१२६।। सरोषा साऽप्युवाचैवं चरितेनाऽमुनैव हि । नियन्त्रितस्तिष्ठसीह तेनाऽप्यूचे कथं न्विति ? ॥१२७।। साऽऽचख्यौ भीतभीता च पौरवृत्तान्तमादितः । रहस्यं खलु नारीणां हृदये न चिरं स्थिरम् ॥१२८।। पौरीभ्यः स्वं रोचयितुं वसुदेवो भ्रमत्यसौ । एवं मां मन्यते राजा कृतं वासेन मेऽत्र तत् ॥१२९।। एवं विचिन्त्य तां दासी विसृज्य च दिनात्यये । कृत्वा गुटिकया वेषान्तरं स निरगात् पुरात् ॥१३०॥ युग्मम् ।। बहिर्गत्वाऽकरोच्चित्यां श्मशानासन्नदारुभिः । अनाथं मृतकं कैञ्चिज्ज्वालयामास तत्र च ॥१३१॥ गुरूणां क्षमणार्थं तु स्तम्भे चैकत्र पत्रकम् । लिखित्वा निजहस्तेन वसुदेवो व्यलम्बयत् ॥१३२।। 'दोषत्वेनाऽभ्यधीयन्त गुरूणां यद्गुणा जनैः । इति जीवन्मृतंमन्यो वसुदेवोऽनलेऽविशत् ॥१३३।। ततः सन्तमसन्तं वा दोषं मे स्ववितकितम् । सर्वे सहध्वं गुरवः । पौरलोकाश्च मूलतः ॥१३४।। इति कृत्वा वसुदेवं विप्रवेषमवर्त्मना । भ्रान्त्वा सन्मार्गगं दृष्ट्वा रथस्था काचिदङ्गना ॥१३५॥ पितृवेश्म व्रजन्त्यम्बामूचे श्रान्तममुं द्विजम् । आरोपय रथे, साऽपि तत्कृत्वा ग्राममासदत् ॥१३६।। युग्मम् ।। तत्र च स्नात-भुक्तः स सायं यक्षगृहं गतः । वसुदेवः प्रविष्टोऽग्निमिति विज्ञाय यादवाः ॥१३७।। क्रन्दन्तः सपरीवारा: प्रेतकार्याणि चक्रिरे । श्रुत्वेति वार्ता निश्चिन्तो विजयखेटेऽगात्पुरे ॥१३८।। सुग्रीवस्तत्र राजाऽभूत् तस्य चोभे कलाविदौं । श्यामा-विजयसेनाख्ये कन्ये अतिमनोरमे ॥१३९।। पर्यणैषीद् वसुदेवः कलाजयपणेन ते । रममाण: समं ताभ्यां तत्र चाऽस्थाद् यथासुखम् ॥१४०॥ पत्न्यां विजयसेनायामक्रूरो नाम नन्दनः । तत्राऽभूद् वसुदेवस्य वसुदेव इवाऽपरः ॥१४१॥ ततोऽपि प्रस्थितः प्रापदतिघोरां महाटवीम् । जलार्थी तत्र वार्ष्णेयो जलावर्तं ययौ सरः ॥१४२॥ दधावे तत्र कोऽपीभो विन्ध्याद्रिरिव जङ्गमः । खेदयित्वा कुमारस्तमारुरोह मृगेन्द्रवत् ॥१४३॥ गजारूढं च तं दृष्ट्वाऽचिर्मालि-पवनञ्जयौ । खेचरौ कुञ्जरावर्तोद्याने नीत्वा व्यमुर्खताम् ॥१४४।। तत्र विद्याधराधीशोऽशनिवेगः स्वकन्यकाम् । श्यामां नाम ददौ तस्मै रेमे च स तया सह ॥१४५॥ वीणावाद्येन वार्ष्णेयस्तस्यास्तुष्टो ददौ वरम् । अवियोगस्त्वया मे स्तादित्ययाचत साऽपि हि ॥१४६।। पार्किकारणो वरोऽसावित्युदिते तेन साऽब्रवीत् । वैताढ्ये किन्नरगीते पुरेऽचिर्माल्यभून्नृपः ॥१४७।। तस्याऽभज्ज्वलनवेगो-ऽशनिवेगश्च नन्दनौ । विन्यस्य ज्वलनं राज्येऽचिौली व्रतमाददे ||१४८।। ज्वलनस्य विमलायां सूनुरङ्गारकोऽभवत् । अहं त्वशनिवेगस्य दुहिता सुप्रभाभवा ॥१४९।। ज्वलनोऽप्यशनिवेगं राज्ये न्यस्य दिवं ययौ । विद्याबलात् तं निर्वास्य राज्यमारकोऽग्रहीत् ॥१५०॥
मत्पिताऽष्टापदेऽथाऽगात् तत्रैकं चारणं मुनिम् । पप्रच्छाऽऽङ्गिरसं नाम राज्यं मे भावि किं न वा ? ॥१५१॥ पामुनिराख्यत् त्वद्दुहितश्यामाभर्तृप्रभावतः । राज्यं ते भावि स ज्ञेयो जलावर्तेभनिर्जयात् ॥१५२।।
मुनिवाक्प्रत्ययादस्थान्निवेश्याऽत्र पुरं पिता । प्रैषीद् द्वौ खेचरौ तत्र जलावर्ते सदैव हि ॥१५३।। जित्वाऽऽरूढो गजं ताभ्यां प्रेक्ष्याऽऽनीतस्त्वमत्र च । मत्पित्राऽशनिविगेन मया चोद्वाहितः प्रभो ! ॥१५४॥ पापुरा च धरणेन्द्रेण नागेन्द्रेण महात्मना । विद्याधरैश्च सम्भूय सैमयोऽयं प्रतिष्ठितः ॥१५५।। १. नृत्या० मु० र० । २. तामप्यूचे सं. १ । ३. किञ्चि० खं० १-२ । ४. क्षामणार्थं ला० । ५. वसुदेवो ला०सू० । ६.
वेषोऽन्य वर्त्मना सू० । अवर्त्मना-उन्मार्गेण । ७. व्रजन्ती स्वानूचे सू० । ८. रुदन्तः पा०ला०१, आ. । ९. कलाविदे खं० १ । १०. कलासु जय एव पण:-प्रतिज्ञा,तेन । ११. व्यमुञ्चतम् खं०२,सू० । १२. एतादृशवरयाचने किं कारणम् । १३. किन्नरागीते खं० २ । १४. ज्वलनस्याचिमालायां ला १ । १५. ०प्रत्ययात्तस्थौ मु० । १६. आचारः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org