________________
कलिकालसर्वज्ञ श्री हेमचन्द्राचार्यगुम्फितं
कंसं हन्तुं सिंहरथश्चकर्षाऽसिं ज्वलन् कुधा । त्सरुदेशे क्षुरप्रेण वसुदेवश्चकर्त्त च ॥९२॥ छागं वृक इवोत्क्षिप्य बद्ध्वा सिंहरथं ततः । वसुदेवरथेऽक्षैप्सीत् कंसश्छलबलोत्कटः ॥९३॥ भने सिंहरथानीके वार्ष्णेयोऽपि ततो जयी । आदाय तं सिंहरथं क्रमेण स्वपुरं ययौ ॥९४ || वसुदेवं रहस्यूचे समुद्रविजयो नृपः । यद् ज्ञानी क्रोष्टुकिंर्नामाऽशंसन् मम हितं ह्यः ॥९५॥ जरासन्धस्य कन्येयं नाम्ना जीवयशा इति । अलक्षणा पति- पितृकुलक्षयकरी खलु ॥ ९६ ॥ जरासन्धः सिंहरथानयने पारितोषिके । तां ते दास्यति तत्त्यागोपायः कोऽपि विभाव्यताम् ॥९७॥ प्रत्यूचे वसुदेवोऽपि कंसः सिंहरथं रणे । बद्ध्वाऽनैषीत् ततस्तस्मै देया जीवयशाः खलु ॥९८॥ राजाऽप्यूचे वणिक्पुत्र इति तां स न लप्स्यते । विक्रमात् क्षत्रिय इव परमेषं विभाव्यते ॥९९॥ धर्मं दत्त्वऽन्तरे राज्ञा पृष्टोऽथ रसवाणिजः । कंसस्य शृण्वतोऽप्यख्यात् कंसवृत्तान्तमादितः ॥१००॥ ते उग्रसेन-धारिण्योर्मुद्रिके पत्रिकामपि । सुभद्रोऽथाऽऽर्पयद्राज्ञे पत्रिकां सोऽप्यवाचयत् ॥१०१॥ 'उग्रसेनसधैर्मिण्या धारिण्या दोहदादपि । भीतया स्वपतिं त्रातुं त्यक्तः प्राणप्रियः सुतः ॥ १०२ ॥ नाममुद्रासमेतोऽसौ सर्वाभरणभूषितः । क्षिप्त्वाऽन्तः कांस्यमञ्जूषं यमुनायां प्रवाहितः' ॥१०३॥ वाचयित्वेति 'राज्ञोचे यादवोऽयं महाभुजः । औग्रैसेनिरितरथा वीर्यं स्यात् कथमीदृशम् ? ||१०४|| कंसेन सह राजाऽथ जरासन्धार्धचक्रिणे । गत्वाऽर्पयत् सिंहरथमथाऽऽख्यत् कंसविक्रमम् ॥१०५॥ कंसायाऽदाज्जरासन्धः स्वां जीवयशसं सुताम् । पुरीं च मथुरां तेन पितृरोषेण याचिताम् ॥१०६॥ जरासन्धार्पितबलो मथुरायामुपेत्य च । कंसो नृशंसः पितरं बद्ध्वा चिक्षेप पञ्जरे ॥१०७॥ उग्रसेनस्य चाऽभूवन्नतिमुक्तादयः सुताः । अतिमुक्तः पितृदुःखात् प्रव्रज्यामाददे तदा ॥ १०८॥ आनाय्य शौर्येनगरात् सुभद्रं रसवाणिजम् । कृतज्ञमानी सच्चक्रे कंसः स्वर्णादिदानतः ॥१०९॥ अबद्धा धारिणी 'तूंचे कंसं स्वपतिमुक्तये । कथञ्चिदपि तद्वाचा पितरं व्यमुचन्न सः ॥ ११० ॥ मयाऽयं कांस्यपेटायां क्षिप्त्वा नद्यां प्रवाहितः । नोग्रसेनो विवेदेदं निरागों सर्वथा ह्यसौ ॥ १११ ॥ सापराधाऽहमेवेह मोच्यतामेष मे पतिः । इत्यन्वहं कंसमान्यान् गृहेष्वेत्य जगाद सा ॥ ११२ ॥ युग्मम् ॥ तेषामपि गिरा कंस उग्रसेनं मुमोच न । पूर्वजन्मनिदानं हि नाऽन्यथा जातु जायते ॥११३॥ | जरासन्धेन सत्कृत्य विसृष्टः स्वपुरं ययौ । राजा समुद्रविजयोऽप्यन्वितो भ्रातृभिर्निजैः ॥ ११४॥ वसुदेवं शौर्यपुरे भ्रम्यन्तं सर्वदाऽन्वयुः । मन्त्राकृष्टा इव भृशं पौर्य: सौभाग्यमोहिताः ॥११५॥ स्कार्मणसौभाग्यः क्रीडयेतस्ततो भ्रमन् । निनाय कालं कमपि समुद्रविजयानुजः ॥ ११६॥ अन्येद्युरेत्य राजानं रहस्यूचे महाजनः । वसुदेवस्य रूपेणाऽमर्यादः स्त्रीजनोऽभवत् ॥११७॥ वसुदेवं यैकदाऽपि पश्येत् सा विवशैव हि । भूयो भूयः सञ्चरन्तं याः पश्यन्ति कथं नु ताः ? ॥११८॥ ईप्सितं वः करिष्यामीत्युक्त्वा तान् व्यसृजन्नृपः । वसुदेवाय नाऽऽख्येयमित्यूचे चे' परिच्छदम् ||११९॥ अपरेद्युर्वसुदेवं नमस्कर्तुमुपागतम् । निजोत्सङ्गं समारोप्य समुद्रविजयोऽवदत् ॥१२०॥ क्रीडापर्यटनेनाऽपि कृशीभूतोऽसि तद्दिवा । बहिर्न गम्यं भवता स्थेयं मद्गृह एव हि ॥ १२१ ॥ कला गृहाणाऽभिनवाः प्रागधीताश्च संस्मर । भविष्यति विनोदस्ते वत्स ! गोष्ठ्या कलाविदाम् ॥१२२॥ १. त्सरुः खड्गमुष्टिः । २. वसुदेवः । ३. ०किर्नामाचख्यौ खं० १, ला०मु० । ४. कन्यैषा खं० २ । ५. ० तोषिकम् ला० आ० मु० विना; खं० २ विना । ६. ०यशास्ततः ला०आ. मु० खं० १ विना । ७. लिप्सते मु० । ८. धनं ता०सं० । ९. धर्मस्य शपथं दत्त्वा इत्यर्थः। १०. पृष्टोऽसौ ता.सं. । ११.० प्याख्यत् खं० २, ला०सू० । १२. धारिण्यामु० मु० । १३. पत्न्या । १४. राजोचे पा०ला १-२, आ०खं० १-२, ला० विना । १५. कंसः । १६. पुरं ला० । १७. सौर्य० खं०२ । १८ अन्यदा पु० । १९. ऊचे खं० १ । ०त्यूचे ला० । २०. निरपराधः । २१. भ्रमन्तं ला०मु०खं० १ २, ला० सू० । २२. नगरस्त्रियः । २३. स्त्रीणां कार्मणे - आकर्षणे सौभाग्यवान् । २४ तु मु० । २५ वः ला०मु० ।
For Private & Personal Use Only
२२
Jain Education International
(अष्टमं पर्व
www.jainelibrary.org