________________
द्वितीयः सर्गः )
श्रीत्रिषष्टिशलाकापुरुषचरितम् ।
ततो रुद्रोऽवदन्नाऽतो विषयः पादचारिणाम् । हत्वाऽजौ कुर्वहे भस्त्रे अन्तर्लोमे बहिष्पले ॥२५०॥ प्रविशावस्तयोरन्तरिह भारण्डंपक्षिभिः । मांसभ्रमाद् गृहीतौ तैर्यास्यावः स्वर्णमेदिनीम् ॥२५१॥ अवोचमहमप्यावामुत्तीर्णौ दुर्गमां भुवम् । यकाभ्यां तावजावेतौ कथं हन्वः स्वबन्धुवत् ? ॥२५२॥ न तावत् तावकावेतौ कथं मां त्वं निषेधसि ? । इत्युक्त्वा सोऽवधीदादौ क्रुद्धो निजमजं द्रुतम् ॥२५३॥ मामपश्यद् द्वितीयोऽजो दीर्घकातरया दृशा । तं चाऽवोचमहं त्रातुं त्वां नेशोऽस्मि करोमि किम् ? ॥२५४॥ तथापि तेऽस्तु शरणं जैनो धर्मो महाफलः । स एव विधुरे बन्धुः पिता माता प्रभुश्च सः ॥ २५५ ॥ ततो मत्कथितं धर्मं शिरसा प्रतिपन्नवान् । मया दत्तं नमस्कारं सोऽश्रौषीच्च समाहितः ॥ २५६|| हतश्च रुद्रदत्तेन देवर्भूयं जगाम सः । अन्तस्तद्भस्त्रयोरावां प्रविष्टौ च क्षुरीधरौ ॥ २५७॥ भारुण्डाभ्यामुद्धृतौ च द्वयोश्चैकाऽऽमिषेर्च्छया । आयुध्यमानयोर्मार्गे पतितोऽहं सरोवरे ॥२५८॥ भस्त्रां क्षुरिकया दीर्त्वा तीर्त्वा च निरगामहम् । गच्छन्नग्रेऽटवीमध्येऽद्राक्षमेकं महागिरिम् ॥२५९॥ तत्राऽऽरूढेन दृष्टश्च कायोत्सर्गस्थितो मुनिः । वन्दितश्च मया धर्मलाभं दत्त्र्त्तेति सोऽवदत् ॥२६०|| ||कथं त्वं चारुदत्तेहाऽभ्यागाद् दुर्गक्षितावहो ?! | सुर - विद्याधर - खगानृते नाऽन्यस्य यगतिः || २६१ ॥ एषोऽमितगतिः सोऽहं यस्त्वया मोचितः पुरा । तदा द्युत्पतितः प्रापं तमुपाष्टापदे द्विषम् ॥ २६२॥ त्यक्त्वा मम प्रियां नंष्ट्वा सोऽगादष्टापदाचले । तां पतन्तीं गृहीत्वाऽहं स्वस्थानमगमं पुनः ||२६३|| राज्ये मां स्थापयित्वा च मत्पिता व्रतमात्तवान् । पार्श्वे चारणयतिनोर्हिरण्य-स्वर्णकुम्भयोः ॥२६४|| पल्यां मनोरमायां मेऽभवत् सिंहयशाः सुतः । वराहग्रीव इत्यन्यो मत्तुल्यबलविक्रमः || २६५ ॥ पल्यां विजयसेनायां सर्वगान्धर्वकोविदा । पुत्री गन्धर्वसेनेति रूपशालिन्यजायत ॥ २६६ ॥ राज्यं च यौवराज्यं च दत्वा विद्याश्च पुत्रयोः । पितृ-गुर्वोस्तयोः पार्श्वेऽहमपि व्रतमात्तवान् ॥ २६७॥ लवणाम्भोधिमध्यस्थो द्वीपोऽयं कुम्भकण्ठकः । कर्कोटकश्च शैलोऽयं तप्ये यत्र स्थितस्तपः ॥२६८|| अत्र त्वं कथमायासीरिति तस्याऽभिपृच्छतः । क्रमादाख्यातवानत्मव्यसनं सर्वमप्यहम् ॥२६९॥ [अत्रान्तरे च नभसा तत्तुल्यौ रूपसम्पदा । विद्याधरवरौ तत्रेयतुस्तं च प्रणेमतुः ॥२७०॥ तत्सादृश्यान्मया ज्ञातौ तत्सुताविति तौ ततः । चारुदत्तं प्रणमतमित्यवोचन्महामुनिः ॥ २७९ ॥ तात ! तातेति जल्पन्तौ तौ मां नत्वा निषेदतुः । अत्राऽन्तरे च दिविषद्विमानं द्योरवातरत् ॥ २७२॥ ततोऽवतीर्य त्रिदशो महर्द्धिम नमोऽकरोत् । ततः प्रदक्षिणीकृत्य तं महर्षिमवन्द || २७३ || पृष्टस्ताभ्यां खेचराभ्यां तं वन्दनविपर्ययम् । आँख्यद् देवश्चारुदत्तो धर्माचार्यो ह्ययं मम ॥२७४|| तथाहि काशीपुर्यां द्वे परिव्राजौ बभूवतुः । सुभद्रा - सुलसे जामी वेद-वेदाङ्गपारगे ||२७५॥ तदा च वादिनस्ताभ्यां बहवोऽपि पराजिताः । परिव्राट् याज्ञवल्क्यस्तु वादायाऽन्येद्युरायौ ॥२७६॥ जितः शुश्रूषको जेतुर्भवितेति प्रतिश्रवम् । विधाय तेन सुलसा जिता दासीकृता च सा ॥ २७७॥ याज्ञवल्क्यः सुलसया तया शुश्रूषमाणया । तण्या नवतारुण्यो जज्ञे कामवशंवदः ॥२७८॥ पुर्या अदूरे निवसंस्तया चिक्रीड सोऽन्वहम् । अजायत सुतस्तस्यां याज्ञवल्क्यत्रिदण्डिनः ॥२७९॥ लोकोपहासभीतौ च पिप्पलस्य तले सुतम् । विहाय नंष्ट्वा सुलसा-य - याज्ञवल्क्यौ प्रजग्मतुः ॥ २८०॥ तद्विज्ञाय सुभद्राऽऽगात् तं च जग्राह बालकम् । अदन्तं पिप्पलफलं मुखे निपतितं स्वयम् ॥ २८१॥
१. बहिर्मांसं ययोस्ते । २. भारुण्ड० खं० २, सू० । ३. भयत्रस्तया दृष्ट्या । ४. देवत्वम् । देवीभूयं खं० २ । ५. भारण्डा० मु० । ६. द्वयोश्चाथामिषे० ला० । ७. अत्रा० ला० । ८. दत्वेत्युवाच सः ला० मु० । दत्त्वेति सोऽब्रवीत् पा. । ९. पतन्तीं तां खं० २ । १०. कुम्भकण्टकः र. स्वीकृतपाठः । ११. 'तपिंच् ऐश्वर्ये वा' (सि. १२६७) दिवादिषु आत्मने० धातुः । १२. निजदुःखम् । १३. प्रणमतमित्यूचे च खं० १, ला० मु० । १४. आख्याद् खं० १ । १५. परिव्राजे ला० १। परिव्राज्यौ की. पा. पु. छा. ला० । १६. तारुण्यात् की० । १७. विधाय ला० । १८. भक्षयन्तम् ।
Jain Education International
२७
For Private Personal Use Only
www.jainelibrary.org