________________
२८
कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यगुम्फितं
(अष्टमं पर्व
पिप्पलाद इति नाम यथार्थं तस्य साऽकरोत् । यत्नादवर्धयत् तं च वेदाद्यं चाऽध्यजीगपत् ॥२८२॥ महाप्राज्ञः सोऽतिविद्वान् वादिदापहोऽभवत् । तद्वादहेतोः सुलसा-याज्ञवल्क्यौ समेयतुः ॥२८३।। स द्वावप्यजयद् वादे ज्ञात्वा च पितरौ निजौ । त्यक्तोऽमूभ्यामहमिति क्रोधं परमुपाययौ ॥२८४॥ सम्यक् प्रतिष्ठाप्य माता-पितृमेधादिकान् मोन् । पितृमेधे मातृमेधे चाऽवधीत् पितरौ से तौ ॥२८५॥ पिप्पलादस्य शिष्योऽहं वाग्बलि मतस्तदा । पशुमेधादिकान् कृत्वा नरकं घोरमासदम् ॥२८६॥ उद्धृत्ये नरकाज्जातः पञ्चवारानहं पशुः । यज्ञे द्विजन्मभिः क्रूरैर्भूयो भूयो विनाशितः ॥२८७॥ ततोऽजष्टङ्कणेऽभूवं चारुदत्तेन चाऽमुना । आख्यातधर्मो रुद्रेण हतः सौधर्ममाप्नुवम् ॥२८८॥ धर्माचार्यो ममाऽयं तच्चारुदत्तः कृपानिधिः । नमोऽकारि ततः पूर्वं न क्रमो लङ्घितो मया ॥२८९॥ इत्युक्तौ तेन देवेन तावप्येवमवोचताम् । उपकारी तवेवाऽस्मत्पितुरप्येष जीवदः ॥२९०॥ स देवो मामथाऽवोचच्चारुदत्त ! वदाऽनघ ! । किमैहलौकिकं ते प्रत्युपकारं करोम्यहम् ।।२९१।। समये त्वं समागच्छेरित्युक्तः स मयाऽमरः । तिरोऽधात् खेचराभ्यां तु नीतोऽहं शिवमन्दिरे ॥२९२।। पताभ्यां च तज्जनन्या च तत्राऽस्थां कृतगौरवः । तद्वन्धुभिः खेचरैश्च पूज्यमानोऽधिकाधिकम् ॥२९३।। इमां गन्धर्वसेनां तौ निजजामि प्रदर्श्य मे । ओख्यतां प्रव्रजस्तातस्तदाऽऽवामेवमादिशत् ।।२९४॥ आख्यातं ज्ञानिनाऽस्माकं यद्विजित्य कलास्वमूम् । युष्मज्जामि वसुदेवकुमारः परिणेष्यति ॥२९५।। मद्वन्धोश्चारुदत्तस्याऽर्पणीया भूचरस्य तत् । इमां यथा वसुदेवो भूचरः सुखमुद्वहेत् ॥२९६।। स्वपुत्रीं तद्गृहीत्वेमां गच्छेति तदुदीरिते । यावत् पर्यचलं तावत् सोऽपि देवः समागमत् ॥२९७।। सोऽमरः खेचरौ तौ च तद्गृह्याश्चाऽन्यखेचराः । मामिहाऽऽनैषुरक्षेपाद् व्योमयानेन लीलया ॥२९८॥ स्वर्ण-माणिक्य-मुक्तानां कोटिकोटी: प्रदाय मे । अगात् स देवः स्वं स्थानं ते च विद्याधरोत्तमाः ॥२९९।। पसर्वार्थं मातुलं प्रातर्भार्यां मित्रवतीमपि । वसन्तसेनां वेश्यां चाऽपश्यमाबद्धवेणिकाम् ॥३००।
इयं गन्धर्वसेनाया उत्पत्तिर्वसुदेव ! ते । कथिताऽद्य वणिक्पुत्रीत्यवज्ञासीः स्म जातु मा ॥३०१॥ पचारुदत्तादिति श्रुत्वा वृत्तान्तं वृष्णिनन्दनः । अधिकं मुदितो रेमे समं गन्धर्वसेनया ॥३०२।। पाचैत्रे स गच्छन्नुद्यानं रथारूढस्तया सह । मातङ्गवेषां मातङ्गावृतामैक्षिष्ट कन्यकाम् ॥३०३।।
गन्धर्वसेना 'तौ प्रेक्ष्य सविकारौ परस्परम् । उवाच सारथिं रथ्यांस्त्वरयेत्यरुणेक्षणीं ॥३०४॥ द्रुतं गत्वा चोपवने क्रीडित्वा च तया समम् । भूयोऽपि चम्पानगरी वसुदेवः समाययौ ॥३०५।। पतं मातङ्गगणादेत्य जरन्मातङ्गिका तदा । दत्त्वाऽऽशीरुपविश्यैवं वसुदेवमवोचत ॥३०६।।
पुरा स्वेषां विभज्याऽऽदात् स्वं राज्यमृषभध्वजः । तदा तु नमि-विनमी नाऽभूतां तत्र दैवतः ॥३०७॥ राज्यार्थिनौ सिषेवाते तौ व्रतस्थमपि प्रभुम् । धरणेन्द्रस्तयोश्चाऽदाद् राज्यं श्रेण्योर्द्वयोः पृथक् ॥३०८॥ राज्यं सुतेभ्यः कालेन दत्त्वा तौ स्वामिसन्निधौ । प्रव्रज्य जग्मतुर्मोक्षं मुक्तौ द्रष्टमिव प्रभुम् ॥३०९।। नमिसूनुस्तु मातङ्गः परिव्रज्य दिवं ययौ । तद्वंशेऽस्ति प्रहसितो नामतः खेचरेश्वरः ॥३१०॥ तस्य जायाऽस्मि हिरण्यवती मम तु नन्दनः । सिंहदंष्ट्रो नीलयशास्तत्सुता प्रैक्षि या त्वया ॥३१॥ तामुद्वह त्वं कुमार ! मोरा" त्वनिरीक्षणात् । क्षण: शुभो वर्ततेऽसौ विलम्बं सहते न सा ॥३१२॥
ऊचे शौरिविचिन्त्याऽहं वक्ष्यामि पुनरापतेः । साऽवोचत् तत्राऽऽगामी त्वमहं वेहेति वेत्ति कः ? ॥३१३॥ १. वादिदर्पासहो० ला० मु० । २. यज्ञान् । ३. च खं० १ । ४. ०स्ततः खं० १-२, ला० । ५. उद्धृत्य मु० र० । ६. च चारु० ला० । ७. जीवकः खं० १ । ८. तेऽहं प्रत्युपकारमादधे खं० १, ला०की०पु० छा० ला० २ । ९. आख्यातां खं० १, मु० र० । १०. प्रावज० खं० १ । ११. ०णेष्यते खं० २ । १२. स्वां पुत्री ला० । १३. समाययौ ला० मु० । १४. ययौ खं० १, ला० मु० । १५. सर्वार्थमातुलं खं० २, ला० मु० २० । १६. वसुदेव-मातङ्गकन्ये । १७. अश्वान् । १८. रक्तेक्षणा । १९. आत्मीयजनानाम् । २०. राज्यं वृषभ० की। २१. व्रतस्थमपि तं प्रभुम् मु० । २२. कामातम् । २३. आगच्छेः । २४. तत्र गामी खं० १, मु० र० । २५. चेहे० खं० १, ला० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org.