________________
द्वितीयः सर्गः )
श्रीत्रिषष्टिशलाकापुरुषचरितम् ।
1
इत्युक्त्वा सा ययौ क्वाऽपि ग्रीष्मे शौरिरथाऽन्यदा । क्रीडित्वाऽम्भसि सुष्वाप समं गन्धर्वसेनया ||३१४|| तं गृहीत्वा करे गाढमुत्तिष्ठेति वदन् मुहुः । तेन मुष्ट्या ताड्यमानो भूत एकोऽहरद् द्रुतम् ॥३१५॥ चितासमीपे नीतश्च सोऽपश्यज्ज्वलितानलम् । घोररूपां खेचरीं च तां हिरण्यवतीं पुरः ||३१६|| स्वागतं चन्द्रवदनेत्युक्तः प्रेतस्तयाऽऽदरात् । तस्यै समर्प्य वार्ष्णेयं क्षणेनाऽपि तिरोदधे ॥३१७॥ स्मित्वा वार्ष्णेयमूचे सा त्वयाऽचिन्ति कुमार ! किम् ? । तां वृण्वस्मदुपरोधादिदानीमपि सुन्दर ! ||३१८|| तदा पूर्वेक्षिता नीलयशाः साऽपि सखीवृता । तत्राऽऽजगाम श्रीदेवीवाऽप्सरः परिवारिता ॥३१९॥ गृहाण स्वैप्रियमिति पितामह्योदिता तैया । वसुदेवमुपादाय व्योम्ना नीलया ययौ ॥ ३२० ॥ हिरण्यवत्यपि प्रातर्वसुदेवमभाषत । मेघप्रभवनाकीर्णो हीमानेष महागिरिः ॥३२१॥ चारणाधिष्ठिते चाऽत्राऽङ्गारको ज्वलनात्मजः । भ्रष्टविद्यः खेचरेन्द्रो विद्या भूयोऽस्ति साधयन् ॥३२२॥ विद्याश्चिरेण सेत्स्यन्ति तस्य त्वद्दर्शनात् पुनः । आशु सिध्यन्ति तत् तस्योपकर्तुं गन्तुमर्हसि ॥ ३२३ ॥ अलमेतेन दृष्टेनेत्युक्ता सा वृष्णिसूनुना । वैताढ्याद्रावनैषीत् तं नगरे शिवमन्दिरे ॥ ३२४ ॥ सिंहदंष्ट्रनरेन्द्रेण नीत्वा स्वौकसि याचितः । तां नीलयशसं कन्यां दशार्हः परिणीतवान् ॥३२५॥ [तदा च तुमुलं श्रुत्वा शौरिः पप्रच्छ कारणम् । द्वा: स्थाऽऽख्यदिह शकटमुखं नामाऽस्ति पत्तनम् ॥३२६॥ तत्र राट् नीलवान्नाम तस्य नीलवती प्रिया । तयोर्नीलाञ्जना पुत्री नीलनामा च नन्दनः ॥३२७|| भ्रातुः स्वस्रा समं पूर्वं सङ्केत इति चाऽभवत् । सार्धं दुहित्रा पुत्रस्य कार्यः पाणिग्रहोत्सवः ॥३२८॥ नीलाञ्जनायाः पुत्री त्वत्प्रिया नीलयशा इयम् । अभून्नीलकुमारस्य नीलकण्ठाभिधः सुतः ॥ ३२९॥ नील: सुतार्थे सङ्केतदत्तामेतामयाचत । एतत्पित्रा पृष्ट आख्यन् मुनिरेवं बृहस्पतिः ||३३० || पिता भरतवर्षार्धभर्तुर्विष्णोर्यदूत्तमः । वसुदेवो वरोऽमुष्या भावी सौभाग्यमन्मथः ||३३१|| आनीतो विद्यया त्वं तद्राज्ञेमां परिणीतवान् । तदर्थे चाऽऽगतो नीलो जितश्च तुमुलस्ततः ॥३३२॥ || श्रुत्वेति मुदितः शौरिस्तया क्रीडन् ददर्श च । विद्यौषधीभ्यो ड्रीमन्तं यातः शरदि खेचरान् ||३३३|| विद्यादाने तव शिष्यो भवामीत्यवदत् स ताम् । आमेत्युक्त्वा तमादाय ह्रीमत्यद्रौ ययौ च सा ॥ ३३४॥ तत्र शौरिं रन्तुकामं ज्ञात्वा सा कदलीगृहम् । विकृत्य रमयामासाऽपश्यच्चैकं केलापिनम् ॥३३५॥ अहो ! पूर्णकलापोऽयं कलापीति सविस्मया । स्वयमेव तमानेतुं दधावे मदिरेक्षणा ||३३६|| गतामुपमयूरं च मयूरव्यंसकः स तु । स्वांसमारोप्य तां जह्रे व्योम्नि तार्क्ष्यवदुत्पतन् ॥३३७|| शौरिस्तमनुधावंश्च घौंषेऽगाद् गोपिकाचितः । तत्रोषित्वा निशां प्रातः प्राचालीद् दक्षिणां प्रति ॥३३८॥ [[सोऽगाद् गिरितटग्रामं तत्र वेदध्वनिं गुरुम् । श्रुत्वा पप्रच्छ कमपि द्विजं तत्पाठकारणम् ॥३३९॥ ऊचे द्विजो दशग्रीवसमये नारदर्षये । दिवाकरः खेचरोऽदात् स्वसुतां रूपशालिनीम् ॥३४०|| तद्वंश्योऽस्ति सुरदेवो ग्रामेऽत्र ग्रामणीर्द्विजः । तस्य पल्यां क्षत्रियायां सोम श्रीर्वेदवित् सुता ||३४१|| पित्रा पृष्टस्तद्वरार्थे करालो ज्ञान्यभाषत । एतां वेदे यो विजेता स एनां परिणेष्यति ॥ ३४२ ॥ तां विजेतुमयं लोको वेदाभ्यासपरोऽनिशम् । वेदोपाध्याय इह च ब्रह्मदत्तोऽस्ति नामतः || ३४३॥ वेदाचार्यं तमित्यूचे विप्रीभूयाथ यादवः । गौतमः स्कन्दिलो विप्रोऽध्येष्ये वेदास्त्वदन्तिके ॥ ३४४|| अनुज्ञातस्ततस्तेनाऽपठद् वेदांस्तदग्रतः । वेदे सोमश्रियं जित्वा पर्यणैषीच्च यादवः ॥३४५॥ [विलसन् स तया तत्र ययावुद्यानमन्यदा । तत्रेन्द्रशर्मनामानमद्राक्षीदैन्द्रजालिकम् ॥३४६॥
२९
१. चिन्तयाऽस्म० खं० २, ला० मु० र० । २. स्वं प्रिय० ला० । ३.० नया ता०सं०पा० । ४. द्वाःस्थोऽख्यदिह मु० र० । ५. मयूरम् । ६. कृत्रिममयूरः । ७. स्कन्धमारोप्य ला० । स्वंसमा० सू० विना सर्वत्र, मु०, २० । ८. गरुडवत् । ९. आभीरपल्ल्याम् । १०. तदा खं० १ । ११ विजेता यः खं० १ । १२. गौतमगोत्रीय: स्कन्दिलनामकः । १३. वादे खं० १, ला० । १४. ०दैन्द्रजालकम् खं० १ । ०दिन्द्रजालिकम् ला० । ०च्चेन्द्रजालिकम् मु० ।
For Private Personal Use Only
Jain Education International
www.jainelibrary.org