________________
कलिकालसर्वज्ञ श्रीहेमचन्द्राचार्यगुम्फितं
I
तस्याऽऽश्चर्यकरीं विद्यां दृष्ट्वा शौरिरयाचत । सोऽप्युवाच गृहाणेमां विद्यां मानसमोहिनीम् ||३४७| विद्येयं सायमारब्धा सिध्यत्यभ्युदये रवेः । परं बहूपसर्गेति सखा कोऽपि विधीयताम् ॥३४८|| न मे सखा विदेशस्याऽस्तीत्युक्तस्तेन सोऽवदत् । भ्रातः ! सखाऽस्मि ते भ्रातुर्जाया च वनमालिका ॥ ३४९॥ इत्युक्तश्चाऽग्रहीद् विद्यां शौरिस्तां विधिवज्जपन् । मायाविना शिबिकया पजह्रे चेन्द्रशर्मणा || ३५०|| विमृशन्नुपसर्गं तं शौरिर्विद्यां जजाप च । प्रातर्ज्ञात्वा च तेन्मायां शिबिकाया अवातरत् ॥३५१॥ धावत्सु चेन्द्रशर्मादिष्वतिगच्छन् स यादवः । दिनशेषे प्राप तृणशोषकं सन्निवेशनम् ॥३५२॥ |[तत्र चाऽऽयतने सुप्तो नरार्देनैत्य च द्रुतम् । उत्थापितो वसुदेवः प्रजं मुष्टिर्भिश्च तम् ॥ ३५३ ॥ बाहूबाहवि कृत्वा च पुरुषादं चिराय तम् । शौरिः संयमयामास प्रोतेर्न क्रीतमेषवत् ॥३५४॥ भूमवास्फाल्य रजक इव क्षौमं शिलातले । अवधीत् पुरुषादं तं प्रातर्लोकोऽप्युदैक्षत ॥ ३५५॥ लोकः प्रीतो रथे शौरिमारोप्याऽन्तर्निवेशनम् । वाद्यमानेन तूर्येण वर्यं वमिवाऽनयत् ॥३५६॥ पञ्च कन्याशतान्यस्मै लोकस्तूर्णमढौकयत् । तन्निषिध्याऽब्रवीच्छौरिर्नरादः को न्वसाविति ? ॥३५७॥ तत्रैकः कश्चिदाचख्यौ श्रीकाञ्चनपुरे पुरे । कलिङ्गेष्वभवद् राजा जितशत्रुर्महाभुजः || ३५८|| सोदासस्तस्य पुत्रोऽयं प्रकृत्या मांसलोलुपः । राजा से तु निजे देशे प्राणिनामभयं ददौ ||३५९॥ दिने दिने चैक बहिर्मांसं तेन सुतेन तु । याचितः प्रतिपेदे सोऽनभीष्टमपि भूपतिः ॥ ३६० ॥ प्रत्यहं बर्हिणं वंशगिरेः सूदाः समानयन् । पाकाय तु हतोऽन्येद्युर्माजरिण हृतोऽथ सः || ३६१ ॥ ततः सूदा मृर्तीर्भस्य पक्त्वा तस्मै पलं ददुः । अद्याऽतिस्वादु किं मांसमित्यपृच्छच्च सोऽपि तान् ॥३६२॥ यथातथे तदाऽऽख्याते सोदासोऽप्येवमादिशत् । दिने दिने शिंखिस्थाने संस्कार्योऽतः परं नरः || ३६३॥ इत्युदित्वा स्वयं डिम्भान्नित्यं लोके जहार सः । ज्ञातश्च भूभुजा कोपात् स देंशान्निरवास्यत ॥३६४॥ पितृभीतः सोऽत्र दुर्गे निवसन् प्रत्यहं नरान् । विनिघ्नन् पञ्चषान् पापः साधु साधु हतस्त्वया ||३६५॥ इत्युक्तस्तैर्मुदा शौरिस्ताः कन्याः परिणीतवान् । उषित्वा च निशां सोऽगादचलग्राममुत्तमम् || ३६६ || तत्र मित्रश्रियं सार्थवाहपुत्रीमुपायत । यादवो ज्ञानिना तस्या वरत्वेनोदितः पुरा ॥ ३६७॥ वेदैसामपुरं गच्छन् स तया वनमालया । एह्येहि देवरेत्युक्त्वा निन्ये निजनिकेतने ॥३६८|| तया च वसुदेवोऽयमित्याख्यातेऽथ तत्पिता । पृष्ट्वा स्वागतमित्याख्यदत्रास्ति कपिलो नृपः ॥ ३६९ ॥ कपिला नाम कन्याऽस्य त्वं तस्या ज्ञानिना वरः । तिष्ठन् गिरितटग्रामे महात्मन् ! कथितः पुरा ॥ ३७० ॥ स्फुलिङ्गैवदनं नाम सोऽश्वं प्रदमैयिष्यति । तवोपलक्षणोपायस्तेनैष ज्ञानिनोदितः || ३७१|| त्वामानेतुं प्रैषि राज्ञा मज्जामातेन्द्रजालिकः । इन्द्रशर्माऽन्तरा तु त्वं गत इत्याख्यदत्र सः ॥ ३७२|| दिष्ट्याऽऽयासीर्दमयाऽश्वमित्युक्तस्तेन वृष्णिसूः । तं राज्ञोऽश्वमदमयत् कपिलामुदुवाह च ॥ ३७३ ॥ प्रतीक्षितस्तेन राज्ञा श्यालेनांऽशुमताऽपि च । सोऽजीजनत् कपिलायां कपिलं नाम नन्दनम् ॥ ३७४॥ हस्तिबन्धे गतोऽन्येद्युर्बद्ध्वाऽरोहत् स हस्तिनम् । तं वियत्युत्पतन्तं च जघानैकेन मुष्टिना ॥ ३७५ ॥ सरस्तीरे पतन्नीलकण्ठाख्यश्च स खेचरः । बभूव यो नीलयशोविवाहेऽप्याययौ युधं ॥ ३७६ ॥ ततो भ्राम्यन् ययौ शौरिः पुरे सालगुहाह्वये । भाग्यसेनं नृपं तत्र धनुर्वेदमशिक्षयत् ॥३७७॥ योद्धुं च भाग्यसेनेन मेघसेनं तदग्रजम् । तत्राऽऽयातं वसुदेव: पराजिग्ये महाभुजः || ३७८ ।।
३०
१. सहायकारी । २. सोऽब्रवीत् पा०आ० । ३. भ्रातृजाया सू० । ४. ०कया स जह्रे पु० । ५. तां मायां मु० । ६. ०शेषेऽप्याप ला० । ७. ०शोधकं सू० । ८ नरानत्तीति नरादः, मनुष्यराक्षसः । ९. प्रजघ्ने मु० । १०. मुष्टिभिर्भृशम् मु० । ११. वस्त्रेण । १२. भूमौ चा० ला० । १३. ग्रामे । १४. वेश्म समानयत् ला० । १५. पुनर्निजदेशे खं० १ । १६. मयूरमांसम् । १७. तेन तु याचितः। प्रतिपेदे सोऽतिभीष्टोऽन० खं० २ । १८. ततस्तदा मु० । १९. मृतबालकस्य । २०. मयूरस्थाने । २१. स्वदेशा० मु० । २२. साधुरेष हत० ला० । २३. वेदसामपुरे खं० २ । वेदसोम० र । २४. स्फुल्लिङ्गवहनं मु० । २५. प्रमदयि० खं० २ । २६. ० स्तेनैव ला० । २७. ० मुदवाह खं० १, ला०र० । २८. ० रोहत हस्ति० ला० । २९. युधे खं० २, सू० ।
Jain Education International
(अष्टमं पर्व
For Private & Personal Use Only
www.jainelibrary.org